विनायक भोजनकथनं नाम चतुर्विंशतितमोऽध्यायः
क उवाच
व्यलोकयंस्तं नगरे तस्मिन् सर्वे महाजनाः ।
विधाय पूजासामग्रीं भोजनस्याप्यनेकधा
॥१॥गृहे गृहे राजगृहे सर्वाऽमात्यगृहेऽपि च ।
गवेषयन्ति स्म जनास्तदा कश्यपनन्दनम्
॥२॥अपृच्छन्त जनाः सर्वे कच्चिद् दृष्टो विनायकः ।
नेति नेति श्रुतिर्वक्ति यं स कस्याक्षिगोचरः
॥३॥भवेन्नालोकितोऽस्माभिरिति तत्रावदन् जनाः ।
पुरप्रान्ते तु ये तत्र तेऽशृण्वन् जनवाक्यतः
॥४॥स चागतः शुक्लगृहं ततस्ते तद्गृहं ययुः ।
नापश्यंस्तमथापृच्छँस्तेनोक्तं स इतो गतः
॥५॥स तु मायामयो बालो जनान् वञ्चितुमुत्सुकः ।
विसृज्य बालकान् पश्चाद्द्वारेणाऽऽगत्यसुप्तवान्
॥६॥केचित्तं ददृशुः सुप्तं हर्यक्षमिव गव्हरे ।
केचित्तं क्रोधावशगा निनिन्दुर्बालको लघुः
॥७॥पिशाच इव किं यातो दरिद्रस्य गृहं प्रति ।
ईशश्चेत् सर्वभावज्ञः सर्वेषां प्रियमाचरेत्
॥८॥उत्थाप्य तं करे धृत्वा याहीति शरणं शुभम् ।
सफलं कुरु नः सर्वं त्वदर्थमुपकल्पितम्
॥९॥गतः खेदो भ्रमणजो दृष्ट्वा त्वच्चरणाम्बुजम् ।
याहि याहि गृहान् नस्त्वं भोक्तुं बालगणैः सह
॥१०॥स ऊचे साम्प्रतं भुक्तं पुनरूचुर्जनास्तु तम् ।
दरिद्रस्य गृहे किं ते भुक्तं स्याद्भैक्ष्यवर्तितः
॥११॥नापोऽपि पिबते क्वान्नं कथं भुक्तं त्वया विभो ।
गणेश उवाच ।
उदरं परिपूर्णं मे यातुं शक्तिश्च नास्ति मे
॥१२॥क उवाच
ततः सर्वे विदित्वा तं भुक्तं शुक्लगृहे जनाः ।
निराशाभग्नसङ्कल्पा रूष्टा दीना विचेतसः
॥१३॥सम्भारा व्यर्थतां याता नानाक्लेशार्थसञ्चिताः ।
बुभुजुस्तान् स्वयं दुष्टा दाम्भिका भक्तिवर्जिताः
॥१४॥ये भक्तास्ते निराहारास्तस्थुर्ध्यानपरायणाः ।
एवं सर्वेषु लोकेषु ज्ञात्वा ध्यानस्थितेषु सः
॥१५॥एको नानास्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते
॥१६॥क्वचित् पर्यङ्कशयनः क्वचिज्जपपरायणः ।
क्वचिद् दानरतः क्वापि भोजनाय समुत्सुकः
॥१७॥क्वचित् पाठ्यते शिष्यान् साङ्गं वेदं सहार्थकम् ।
क्वचिद् व्याकुरुते शास्त्रं क्वचिच्च पठति स्वयम्
॥१८॥एवं नानास्वरूपैः स नानागृहगतो बभौ ।
अयमस्मद् गृहं यातः पूर्वमित्यभिमेनिरे
॥१९॥तैलमुद्वर्तनं स्नानं पूजनं भोजनं ददुः ।
एवं सर्वे जहृषिरे काशिराजसमन्वितम्
॥२०॥दृष्ट्वा देवं परमया मुदा साधुविनायकम् ।
पुपूजुर्भोजयामासुर्द्विजान् सुहृद्गणानपि
॥२१॥पञ्चामृतं च पक्वान्नं व्यञ्जनं पायसौदनौ ।
अन्यद् रुचिकरं सर्वं बुभुजुस्ते यथारुचि
॥२२॥एवं द्विजेषु देवेषु काशिराजे सुहृत्स्वपि ।
आशीर्वत्सु समाविष्टः काशिराजोऽन्वपृच्छत
॥२३॥मायया मुनिपुत्रस्य मोहितोऽनेकधाऽऽकृतेः ।
राजोवाच ।
विनायको गतो भोक्तुं नानागृह इतिस्फुटम्
॥२४॥अयं मे निकटेऽप्यस्ति को नु भुङ्क्ते गृहे गृहे ।
क्वचिच्च शिबिकारूढो याति भोक्तुं विनायकः
॥२५॥गजारूढः क्वचिद् याति हयारुढश्च कुत्रचित् ।
एवं सर्वेषु लोकेषु पूजाव्यग्रेषु बालके
॥२६॥ततस्तौ नगरीं यातौ तत्र तत्र विनायकम् ।
अपश्यतां भुक्तवन्तं परावृत्य समीयतुः
॥२७॥यत्र यत्र गृहे यातौ तत्र तत्र विनायकम् ।
निर्वृत्य सकलं नित्यं भिक्षार्थं पर्यगच्छताम्
॥२८॥शयानं शयनें दिव्ये भक्षयन्तं फलानि च ।
चर्वयन्तं च ताम्बूलं क्वचिद् गन्धादिचर्चितम्
॥२९॥क्वचिन्नृत्यं प्रपश्यन्तं गणिकानां गणान्वितम् ।
क्रीडन्तमक्षैः कुत्रापि क्वचिद् बुद्धिबलेन च
॥३०॥नानालङ्कारसंयुक्तं दिव्यवस्त्रान्वितं क्वचित् ।
पठन्तं च जपन्तं च ध्यानेन तमपश्यताम्
॥३१॥स्तूयमानं क्वचिद् भक्तैस्तुवन्तं जगदीश्वरम् ।
दर्शयन्तं विभूतिं स्वां भक्त्यायाऽनेकशः क्वचित्
॥३२॥युवानं रमयन्तं स्वाःस्त्रियोऽत्यन्तमनोरमाः ।
चिकित्सयन्तं वृद्धं च सेवन्तं रसमुत्तमम्
॥३३॥रिङ्गन्तं भक्षयन्तं च मृदं कुत्रचिदङ्गणे ।
परिश्रान्तं पिबन्तं कं क्रीडाभिःकन्दुकादिभिः
॥३४॥एवं तौ क्षुधितौ श्रान्तौ पर्यटन्तौ गृहे गृहे ।
सर्वत्र दष्ट्वा तं देवं परस्परमथोचतुः
॥३५॥अत्रास्ति निर्मलः शुक्लो ब्राह्मणो नगरे शुचिः ।
यावो भोक्तुं तस्य गृहे इत्युक्वा तत्र जग्मतुः
॥३६॥तत्रापि सोंऽङ्गणगतो दृष्टस्ताभ्यां विनायकः ।
नगरे नात्र भोक्तव्यं न तु शेषं विनायकात्
॥३७॥इत्युक्त्वा बहिरायातौ पुरो दृष्ट्वा विनायकम् ।
तिर्यग् गतिधरौ भूत्वा ततोऽपि समपश्यताम्
॥३८॥प्राच्यां प्रतीच्यां च दिशि तमेवेतौ समन्ततः ।
अधश्चोर्ध्वं सर्वगतं विनायकमपश्यताम्
॥३९॥विनायकस्वरूपं च तौ पुनर्विश्वरूपिणम् ।
सर्वं विनायकमयं वस्तुमात्रमपश्यताम्
॥४०॥अथाभावयतां शम्भुं विष्णुं तौ भृशविस्मितौ ।
अपश्यतां हृदि तदा तं च तं च विनायकम्
॥४१॥निमील्य नयने चान्तस्तमेव मुनिसत्तमौ ।
उद्घाट्य नयने चापि स्वान्त एनमपश्यताम्
॥४२॥किरीटिनं कुण्डलिनं मुक्तामालाम्बराङ्गदम् ।
कटिसूत्रेण हैमेन मुद्रिकाभिश्च भूषितम्
॥४३॥सिंहारूढं दशभुजं सिद्धिबुद्धियुतं शुभम् ।
भालचन्द्रं मृगमदतिलकं नागभूषणम्
॥४४॥सूर्यकोटिप्रभं सृष्टिस्थितिसंहारकारिणम् ।
त्यक्त्वा भेदं तत्त्वविदौ नेमतुश्चरणाम्बुजम्
॥४५॥नुतःस्म परया भक्त्या देवदेवं विनायकम् ।
तस्यैव करूणाप्राप्त प्रबोधौ तौ मुनीश्वरौ
॥४६॥इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकभोजनकथनं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥