बालचरिते दुरासदोपाख्याने एकोनचत्वारिंशोऽध्यायः
मुनिरुवाच
ततस्तु वरगर्वेण शिवलब्धेन दैत्यराट् ।
न ममर्ष निजात्मानं मोहितः केवलं तु सः
॥१॥इयेष पृथिवीं जेतुं हयारूढोऽभवत्पुरा ।
निबद्ध केशहस्तस्तु विलसत्कर्णकुण्डलः
॥२॥असिहस्तो धनुष्पाणिर्निषङ्गद्वय शोभितः ।
रत्नमुक्तामणिमयीं बिभ्रन्मालां महाधनाम्
॥३॥कस्तूरीतिलको दिव्यवस्त्रच्छन्नः सुकञ्चुकः ।
ताम्बूलविलसद्वक्त्रः प्रकृतिद्वयसंयुतः
॥४॥याभ्यां स्वभुजवीर्येण जिता वीरा अनेकशः ।
उभयोः पार्श्वयोस्तस्य यौ गच्छेतां बलान्वितौ
॥५॥चतुरङ्गं तु तत्सैन्यं पृथिवीविजयोद्यतम् ।
रजसाच्छादयद्व्योम विस्तीर्णं जलधेरिव
॥६॥यो यो वीरोभवेत्स्फीतस्तं तमेवाजयच्च सः ।
तत आदाय रत्नानि द्रव्याणि च सहस्रशः
॥७॥आस्थापयत्स तत्स्थाने स्वीयानाप्तान्महाबलान् ।
नानाधिकारे बलवान्वशे कृत्वाऽखिलान्नृपः
॥८॥ये चाशस्त्राः करान् स्थाप्य तमेव शरणं ययुः ।
अत्यन्तं भीरवो ये तु त्यक्त्वा राज्यमपीपलन्
॥९॥दूतैरेव वशे चक्रे तानपीत्थं दुरासदः ।
एवं भूमण्डलं जित्वा शक्रं जेतुमियेष सः
॥१०॥ससैन्यः सहसा प्रायान्नगरीं शक्रपालिताम् ।
ज्ञात्वा वरस्य सामर्थ्यं तस्य दुष्टस्य देवराट्
॥११॥पलाय्य च गुहां यातः सामरः सकुटुम्बकः ।
तस्मिन्नेव क्षणे विष्णुः स्थानात् क्षीराब्धिमाययौ
॥१२॥अङ्के लक्ष्म्याः शिरः स्थाप्य शेते स्म मधुसूदनः ।
त्यक्त्वा कैलासशिखरं काशी यातस्तु शूलभृत्
॥१३॥तेनैव साकमगमद् चतुरश्चतुराननः ।
यो यो याति पदं त्यक्त्वा तत्र तत्र स दैत्यराट्
॥१४॥स्थापयत्येव बलिनं निजं दूतं सुहृत्तमम् ।
एवं निर्जित्य विबुधान् दर्पेणैव महाबलः
॥१५॥कैवर्तकानां विषये न्यवसद् भस्मके पुरे ।
मुकुन्दपुरमित्येव ख्यातं लोकेषु सर्वतः
॥१६॥यस्मिन् भस्मासुरोराजा पूर्वमासीद्बलान्वितः ।
शङ्करेण वरो यस्मै दत्त आश्चर्यकारकः
॥१७॥स मरिष्यति मूर्ध्नि त्वं यस्य हस्तं प्रदास्यसि ।
एवं दत्तवरो दैत्यो दुष्टभावप्रचोदितः
॥१८॥परोक्षार्थं वरस्याथ वरदातुस्तु मस्तके ।
करं दातुं ययौ दुष्टः पपाल गिरिजापतिः
॥१९॥स दृष्टश्चक्रहस्तेन विष्णुना प्रभविष्णुना ।
सुन्दरं मोहिनीरूपं धृत्वा यातस्तदन्तिकम्
॥२०॥उवाच मम वाक्ये चेत्स्थास्यसि त्वं नरोत्तम ।
अङ्गनाऽहं तदा ते स्यां हर्षादोमिति सोऽब्रवीत्
॥२१॥नृत्यति स्म तदा सा तु तद्वाक्यात् स ननर्त ह ।
सा यथाऽदर्शयद्भावं सोऽपि दर्शयते तथा
॥२२॥तयाऽस्थापि स्वशिरसि हस्तस्तेनापि तत्क्षणात् ।
भस्मसादभवदैत्यो दुष्टचेष्टितमन्तकृत्
॥२३॥मुकुन्दोऽपि स्थितस्तत्र तन्नाम्ना पप्रथे पुरम् ।
अनुष्ठानवतां नृणां सद्यः परमसिद्धिदम्
॥२४॥सा मोहिनी सर्वकामान् ददाति भक्तितो नृणाम् ।
तत्र स्थित्वा त्रिभुवनं शास्ति गर्वाद् दुरासदः
॥२५॥उवाच मन्त्रिणो गर्वात्कथं त्रिभुवनं मया ।
आक्रान्तं स्वप्रतापेन जयताऽसुरवैरिणः
॥२६॥ततोऽमात्याः समूचुस्ते विमुक्तं न जितं त्वया ।
दशमं खण्डमिति तत्तुल्यं नास्ति हि कुत्रचित्
॥२७॥यत्रात्ते शङ्करः सर्वसुरैरपि च सेव्यते ।
न जितं यत्पुरं यावत्तावत्ते पौरुषं वृथा
॥२८॥इति तद्वाक्यमाकर्ण्य मुदं लेभे रणप्रियः ।
उवाच तान् सद्य एव यामि तां वै ससैनिकः
॥२९॥विमानवरमास्थाय क्षणाद्यातः स काशिकाम् ।
प्रविष्टमात्रे दैत्येन्द्रे हाहाकारः पुरेऽभवत्
॥३०॥तत्र ये विबुधा आसन्सर्वे चान्तर्दधुस्तदा ।
शिवस्तु निजभक्तात्वान्न चुकोपाथ किञ्चन
॥३१॥दत्तं राज्यं कियत्कालमित्युक्त्वा परिवारवान् ।
केदारक्षेत्रमगमन्मुनयोऽपि पलायिताः
॥३२॥जैगीषव्यं विना सर्वे क्षेत्रसंन्यासिनं शुभे ।
ततो बभञ्ज मूर्तिं स मोहाविष्टो दुरासदः
॥३३॥प्रासादान्महतो भङ्क्त्वा ममुदे ज्ञानदुर्बलः ।
कोऽपि चेत्स्मरते देवं तं ताडय कुरुते बहिः
॥३४॥न स्वाहा न वषट्कारः स्वधाकारो न च क्वचित् ।
न वेदाध्ययनं क्वापि न शास्त्राध्ययनं क्वचित्
॥३५॥न पुराणं देवपूजा न व्रतं न प्रदक्षिणाः ।
दुरासदे दुष्टमतौ तत्र राज्यं प्रशासति
॥३६॥कर्ममार्गे विलुप्ते तु धर्मोऽपि लयमाययौ ।
नष्टे धर्मे सुराः कीर्ते आसन्सर्वे बुभुक्षिताः
॥३७॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदोपाख्यानं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥