अष्टाविंशत्युत्तरशततमोऽध्यायः
क उवाच
स ददर्श समासीनं नारायणमनामयम् ।
रत्नकाञ्चनविलसत्पद्मासनगतं विभुम्
॥१॥सोऽपि तं पुरतो वीक्ष्य विवर्णवदनं तदा ।
तत्पृष्ठतो महादैत्यं गगनस्पर्धिमस्तकम्
॥२॥उदतिष्ठत वेगेन दयालुः कमलापतिः ।
धृत्वा करं समालिङ्ग्य स्वासने कं न्यवेशयत्
॥३॥सम्पूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् ।
कथं च म्लानवदनः श्वासवांश्च हतप्रभः
॥४॥मम खेदः समुत्पन्नो दृष्ट्वैव त्वां पितामह ।
इति तद्वचनं श्रुत्वा जगाद कमलासनः
॥५॥क उवाच
प्रबोधितः शिवेनाहं प्रतिसुप्तो निजालये ।
ततो मे जृम्भतो वक्त्रान्निर्गतः पुरुषो महान्
॥६॥पतन्ति भूतले भानि यन्मस्तकविधानतः ।
तस्य सौरभगन्धेन सर्व देवा विसिस्मिरे
॥७॥यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवत् ।
यस्य क्रन्दितशब्देन च कम्पे भुवनत्रयम्
॥८॥स नमस्कृत्य मां देव विनीतः पुरतः स्थितः ।
ततस्तस्मै वरा दत्ताः पुत्रस्नेहेन माधव
॥९॥यं यं त्वमालिङ्ग्यसि स स मृत्युमुपैष्यति ।
कालोऽपि न रणे स्थातुं तव शक्तो भविष्यति
॥१०॥स्थानं च स्वेच्छया तस्य दत्तं देव मया ततः ।
नमस्कृत्य गतो दूरं वितर्कात् पुनरागतः
॥११॥मामेवालिङ्गितुं यातोऽपलमस्माद् भयादहम् ।
हंसमारुह्य सहसा वेगेन त्वामुपागतः
॥१२॥दृष्ट्वा दृष्ट्वा पृष्ठगतं कम्पःश्वासश्च मेऽभवत् ।
विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर
॥१३॥ततोऽब्रवीन्महाविष्णुर्ब्रह्माणं शरणागतम् ।
देव उवाच ।
पूर्वं दत्वा वरान् देव सङ्कटं प्राप्य बुद्धितः
॥१४॥इदानीं चिन्तया किं स्याद् यद् भाव्यं तद्भविष्यति ।
स पीडां त्रिषु लोकेषु विधातुमुद्यतो भवेत्
॥१५॥क उवाच
यावत्तौ चिन्तयाविष्टौ स्थितौ ब्रह्महरी तदा ।
तावत् स पुरतोऽतिष्ठद् दृष्ट्वा ताभ्यां महासुरः
॥१६॥जगर्ज गर्जयामास त्रैलोक्यं बलवत्तरम् ।
ब्रह्माण्ड कम्पयामास ब्रह्माणं च तदा खलः
॥१७॥सोऽवदद् रक्ष रक्षेति विष्णुं त्रैलोक्यरक्षकम् ।
ततो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा
॥१८॥हरिरुवाच
न त्वया वरदानेज मत्तेन योद्धुमुत्सहे ।
अहं सत्त्वगुणोपेतः पालने निरतः सदा
॥१९॥अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि ।
तव युद्धप्रदो देवः ख्यातोऽसौ मदनान्तकः
॥२०॥तेन युद्ध्यस्व ते कीर्तिर्महती स्यात्त्रिलोकगा ।
क उवाच ।
इत्याकर्ण्य वचस्तस्य जहृषे दैत्यपुङ्गवः
॥२१॥उड्डीय प्रययौ सद्यः कम्पयन् भुवनत्रयम् ।
पातयन् पर्वतान् वृक्षांश्चूर्णयन्सहसा बहून्
॥२२॥दिग्गजाश्चलिताः सर्वे सञ्जग्मुर्विदिशो दिशः ।
एवमुपत्यकां यातः कैलासस्य महागिरेः
॥२३॥ददर्शाधित्यकायां स ध्यानस्थं गिरिशं खलः ।
नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुम्
॥२४॥व्याघ्रचर्मपरीधानमर्धचन्द्रविभूषणम् ।
भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकम्
॥२५॥दृष्ट्वा देवं तदा दैत्यो निनिन्द सहसा हरम् ।
अनेन किं मया युद्धं कर्त्यव्यं तापसेन ह
॥२६॥एतस्य सुन्दरीं भार्यां नीत्वा यामि यदृच्छया ।
एवं निश्चित्य मनसा गौरीमन्तिकमाययौ
॥२७॥तदा च कम्पे गिरिजा कल्पान्ते जगती यथा ।
निमील्य नयने मूर्छामापाशु भयविव्हला
॥२८॥दधार तां केशपाशे स दैत्यो दुष्टमानसः ।
उड्डीय चलितो वेगाच्छुशोच गिरिजा तदा
॥२९॥रावणेन नीयमाना यथा सा धरणीसुता ।
गिरिजोवाच ।
औदासीन्यं कथं यातो मयि देवोऽखिलार्थवित्
॥३०॥ध्यानं कथं गतोऽस्यर्धे ह्रीयमाणे त्वदङ्गके ।
नाकारि दास्यं न्यूनं ते येन काठिन्यमागतः
॥३१॥कः सखा मोचयेन्मां हि प्राणदाता भवेच्च कः ।
पुनर्मे शङ्करं को नु दर्शयेद् बलवत्तरः
॥३२॥क उवाच
ततः शोकाकुलां वीक्ष्य तां गणाः प्राबुवँस्तदा ।
अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाऽधुना
॥३३॥शिवश्च ध्याननिष्ठोऽभूद् दैवादस्यानुकूलता ।
नीता नो जननी विश्वसृष्टिस्थित्यन्तकारिणी
॥३४॥मोहिनी सर्वदेवानां सर्व दुःखविनाशनी ।
लावण्यलहरी नीता सर्वयोषिद्वरा शुभा
॥३५॥रत्नभूता कथं नीता कथं सा पुनरेष्यति ।
ध्यानस्थे शङ्करे सर्वनाशनं नेत्रवह्नितः
॥३६॥तस्मिन् यास्यति लोभेन पुत्रानिव जनन्यथ ।
एवं शोकं प्रकुर्वत्सु हाहाकारै रुदत्सु च
॥३७॥गणेषु विससर्जाशु ध्यानं क्रोधान्महेश्वरः ॥
क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश
॥३८॥पप्रच्छ तान्गणान् शम्भुः सङ्कटं किमुपस्थितम् ।
भस्मसात्तं करिष्यामि येन वः कदनं कृतम
॥३९॥इति तद्वचनं श्रुत्वा प्रोचुस्तं ते गणास्तदा ।
त्वयि ध्यानस्थित देव मन्दराचलसन्निभः
॥४०॥कृतान्तसमरूपः सन्नागतो दैत्यपुङ्गवः ।
यस्य श्वासानिलहता अचलाश्चलतां गताः
॥४१॥सम्मोहं प्रापिता देवा दर्शनादेव शङ्कर ।
ततः स गिरिजां धृत्वा केशपाशे महाबलः
॥४२॥निनाय सत्वरं व्योममार्गेण जननीं हि नः ।
नीयमाना शिवा प्राह धावधावेति सत्वरम्
॥४३॥मूर्छिता पतिता भूमौ वयं सर्वे विमूर्छिताः ॥
तथाविधां समादाय ययौ स दुष्टमानसः
॥४४॥श्रुत्वा तेषां वचःशम्भुर्जज्वाल परमंरुषा ॥
कुर्वन् भस्मेव लोकानामारुहो वृषं निजम्
॥४५॥त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः ॥
नभोमार्गेण प्रययौ गर्जयन् विदिशो दिशः
॥४६॥यत्रासीत् सिन्दुरो दैत्यस्तं देशमगमत् क्षणात् ।
अहनत् पृष्ठदेशे तं तस्थौ स सम्मुखं तदा
॥४७॥मुञ्च भार्यां महादुष्ट दृष्टः सन् क्व गमिष्यसि ।
इत्युक्तः स रुषाविष्ट त्रिलोकीं भस्मतां नयन्
॥४८॥बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ ।
उवाच च महादैत्यो गर्वेण परिमोहितः
॥४९॥नाहं मशकवाक्येन बिभेमि भुवनाधिपः ।
यस्य श्वासानिलेनाशु कम्पते मेरुपर्वतः
॥५०॥तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय ।
यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु
॥५१॥नो चेदन्यां परिणिय ततः सौख्यमवाप्स्यसि ।
किं मया सह योद्धव्यं मशकेन त्वया लघो
॥५२॥एवमुक्त्वा बाहुयुद्धं कर्तुं शङ्करमाययौ ।
दुर्गा देवी तु संस्मार मयूरेशं स्वचेतसि
॥५३॥द्विजरूपधरो देवो मयूरेशस्ततस्तयोः ।
अन्तराले प्रादुरासीत् कोटिसूर्यनिभःक्षणात्
॥५४॥सर्वाङ्गसुन्दरो नानाभूषणैरूपशोभितः ।
परशुं मध्यतः कृत्वा वारयामास दैत्यपम्
॥५५॥उवाचश्लक्ष्णया वाचा सिन्दूरं तं द्विजोत्तमः ।
त्रैलोक्यजननीं गौरीं स्थापयाशु ममान्तिके
॥५६॥युध्यस्व शङ्करेण त्वं यावज्जयपराजयौ ।
जयो यस्य भवेत्तेन ग्राह्येति नान्यथा वचः
॥५७॥क उवाच
द्विजवाक्यं समाकर्ण्य सिन्दूरो हृष्टमानसः ।
स्थापयामासगिरिजां युद्धाय बहुलालसः
॥५८॥तयोस्तु पश्यतोरेव तावुभावप्य युध्यताम् ।
सिन्दूरश्च महेशश्च नानायुद्धविशारदौ
॥५९॥क्रोधसंरक्तनयनौ तुल्यतेनःपराक्रमौ ।
बाहुभ्यां वेष्टितुं यावदियेष सोऽसुरो हरम्
॥६०॥अदृश्य एव परशुरस्य जघ्ने बलादुरः ।
क्षीणशक्तिं ततो दैत्यं त्रिशूलेनाहनद्धरः
॥६१॥ततोऽशक्तं द्विजवरो वदति स्म हितं वचः ।
त्रैलोक्यनायकेन त्वं न युद्धं कर्तुमर्हसि
॥६२॥गिरिजाशां विहायाशु व्रजस्व निजमन्दिरम् ।
नो चेदयं शिवो भस्म करिष्यति तवाधुना
॥६३॥एवमुक्तो द्विजेनाऽसौ वाञ्छां त्यक्त्वा भुवं ययौ ।
ततः सा पार्वती प्राह द्विजं प्राप्ते जयं शिवे
॥६४॥कोऽसि त्वं मुनिशार्दूल येनाहं मोचिता खलात् ।
निजं में दर्शय स्वीयं रूपं नेदं स्वभावजम्
॥६५॥ममप्राणाधिकोऽसि त्वं सखा प्राणप्रदो यतः ।
न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम्
॥६६॥एवमाश्रुत्य तां वाचमुवाच स मुनीश्वरः ।
न च मातर्मयाकारि किञ्चिदत्र महेश्वरः
॥६७॥अजयत् सिन्दुरं दैत्यं मोचिता त्वं शिवेन ह ।
इत्युक्त्वा पूर्वरूपं स आविश्चक्रे विनायकः
॥६८॥दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितम् ।
कस्तूरीतिलकं रत्नमुक्तामालाविभूषितम्
॥६९॥नानालङ्कार रुचिरं शेषकण्ठमणिप्रभम् ।
दृष्ट्वैवं परमात्मानं ननन्द गिरिजा तदा
॥७०॥ननाम पादयोस्तस्य स उत्थाप्य च तां जगौ ।
विनायक उवाच ।
त्रेतायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः
॥७१॥अवतीर्य द्वापरे ते गृहे नाम्ना गजाननः ।
भविष्यामि हनिष्यामि सिन्दूरं दैत्यमोजसा ।
क उवाच ।
मुनिरूपधरो देव उक्त्वा चान्तरधीयत ।
ततः शुशोच गिरिजा मूर्छां सा परमां ययौ
॥७३॥तत ऊचे विश्वनाथो मनः स्वस्थं कुरु प्रिये ।
पश्य त्वं हृदि तं देवं विनायकमनामयम्
॥७४॥न मिथ्या भाषितं तस्य यदुक्तं तत्करिष्यति ।
एवमुक्त्वा महादेवो वृषारूढस्तया सह
॥७५॥आययौ परमं प्रीतः कैलासं पर्वतेश्वरम्
॥७६॥इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननदर्शनं नामाऽष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥