दुर्गावाक्यं नाम सप्तदशाधिकशततमोऽध्यायः
क उवाच
सिन्धुस्तल्पगतश्चिन्तामवाप महतीं तदा ।
अग्निसंतप्तहृदयो विचारान् नान्वपद्यत
॥१॥निर्हर्षो म्लानवदनो निस्तेजः निष्कलोऽपि सः ।
तत उग्रात्मजा दुर्गा लावण्यलहरी शुभा
॥२॥चिन्ताशाविषदग्धं तं श्रुत्वाऽगान् मञ्चकस्थितम् ।
असङ्ख्यभूषणैर्यस्याः कबरी भाति मस्तके
॥३॥कस्तूरीतिलकं यस्या ललाटे भाति सुन्दरम् ।
कण्ठे हारं कटौ काञ्चि बिभ्रतीं रत्नसंयुताम्
॥४॥सर्वालङ्कारसंयुक्तां सर्वावयवसुन्दराम् ।
आगतां तु निरीक्ष्यैव मञ्चकाभ्याशमुत्सुकाम्
॥५॥बहिस्तत्सेवका यातास्ततः सा पतिमब्रवीत् ।
दुर्गोवाच ।
किं चिन्तां कुरुषे स्वामिन् यद् भाव्यं तद्भविष्यति
॥६॥ईश्वरस्य वशे लोको न स्वतन्त्रः कदाचन ।
सर्वेषां मानसं त्वं किमुद्वेजयसि मेऽपि च
॥७॥को हेतुस्ते वद विभो ततो युक्तिं वदामि ते ।
क उवाच ।
प्रिया वाक्यं समाकर्ण्य गण्डकीनायकस्तदा
॥८॥सावधानमना भूत्वा वृत्तान्तं तामथाब्रवीत् ।
सिन्धुरुवाच ।
किं वदामि प्रिये श्लाघ्ये मनःखेदकरं परम्
॥९॥युद्ध्यतो मे रणे कर्णौ मयूरेशेन सादितौ ।
सप्तकोटिमिता सेना निहता पौरुषेण ह
॥१०॥स्कन्दादयो महावीराः पतिताः शरवृष्टिभिः ।
अकस्मान्मे हृतौ कर्णौ त्रिशूलं प्रेष्य शत्रुणा
॥११॥आच्छाद्य मुखमायातो वाससा निजमन्दिरम् ।
येनोपायेन मे शत्रुवधः स्यात्तं वदस्व मे
॥१२॥दुर्गोवाच
वीरधर्मः कृतः सम्यङ् निहताः सर्वसैनिकाः ।
न यशः प्राप्यते स्वामिन् गोब्राह्मणसुरद्विषाम्
॥१३॥तद्द्वेषाच्चैव कल्याणं कस्यापि हि न जायते ।
सेवनाद् वन्दनाद् ध्यानात्स्मरणात्पूजनादपि
॥१४॥देवैरिन्द्रादिभिः स्थानान्याप्तानि च स्थिराणि च ।
यः समः सर्वभूतेषु शुभाशुभफलप्रदः
॥१५॥तत्सेवयाऽभिष्टसिद्धिः कामधेनोरिवाभवत् ।
अङ्कुरो जायते तादृग्यादृग्बीजं हि उप्यते
॥१६॥अशुभात्कर्मणो दुःखं सुखं स्याच्छुभकर्मणः ।
अतः सन्तः प्रकुर्वन्ति शुभं कर्मसदादरात्
॥१७॥हितं च सर्वजन्तूनां कायेन मनसा गिरा ।
भवता पुरुषार्थेन पीडितास्ते सुरर्षयः
॥१८॥पुरुषार्थः स विज्ञेयो यश्चतुर्णां हि साधकः ।
यन्मनो नार्थलुब्धं स्यात् परदारेषु न क्वचित्
॥१९॥स एव पुरुषार्थः स्याद् यश्चानिन्द्यं न निन्दति ।
शरणागतरक्षायां दृढो धर्मपरायणः
॥२०॥समः सर्वेषु भूतेषु पुरुषार्थः स गम्यते ।
स्वामिन् मे परमं वाक्यं शृणु ते हितकारकम्
॥२१॥अदुष्टवाक् सत्यशीलः स्वगुणानामकीर्तकः ।
परोपकरणे सक्तः परपैशून्यवर्जितः
॥२२॥तत्कुरुष्व महाभाग मम प्रीतिं यदीच्छसि ।
मोचयस्व सुरान् सर्वान् प्रबद्धान् शक्रसंयुतान्
॥२३॥प्रयास्यति मयूरेशोऽखिललोकप्रपालकः ।
वत्स्यावः सुसुखं स्वामिन् नान्यथा तु सुखं भवेत्
॥२४॥क उवाच
एवं वाक्यामृतं तस्यास्तदभूद् विषसन्निभम् ।
मुमूर्षोरौषधं यद्वद्ग्रहरोगाप्लुतस्य ह
॥२५॥क्रोधसंरक्तनयनो दुर्गां तां सिन्धुरब्रवीत् ।
न दध्रे हृदि तस्याः स उपदेशं हितावहम्
॥२६॥सिन्धुरुवाच
सम्यगुक्तं त्वया भद्रे लोकनिन्दाकरं वचः ।
चातुर्यं तव विज्ञातं कार्याकार्यविदा मया
॥२७॥न शत्रुं भजते कोऽपि रिपुर्मानपरायणः ।
नारभेत्कृत्यमन्याय्यमारब्धं चेन्न तत् त्यजेत्
॥२८॥ततो दुःखं सुखं वा स्यादयशो यश एव च ।
लाभो वाप्यथवाऽलाभो जीवनं मृत्युरेव वा
॥२९॥पूर्वं भद्रे मया सन्धिः साम्ना तेन न वै कृतः ।
इदानीं भविता यद् यत् तद् भवत्येव सर्वथा
॥३०॥पूर्वमेवहि यज्जन्तोर्लिखितं साध्वसाधु वा ।
कश्चिन्न पुरुषार्थेन कर्तुं शक्तोऽन्यथा सति
॥३१॥रणे मृतस्य स्वर्गोऽथ ख्यातिः स्याद् विष्टपत्रये ।
यातस्य शरणं शत्रोरयशो नरकेऽपि च
॥३२॥पूर्वजैः सहितस्याशु जायते नात्र संशयः ।
जानामि तं मयूरेशं देवदेवं जगद्गुरुम्
॥३३॥सम्भूतं मम नाशाय रावणे राघवं यथा ।
पातयिष्ये शिरोऽस्याहमिति मे निश्चिता मतिः
॥३४॥त्यजन्ति जीवितं शूरा नाभिमानं कदाचन ।
न मेऽस्ति गणना सुभ्रु कृतान्तस्यापि कर्हिचित्
॥३५॥तत्र का गणनाऽन्येषां लज्जा मे कर्णतः कृता ।
कः उवाच ।
एवमुक्त्वा भूषणानि वस्त्राणि च दधार सः
॥३६॥केयूरं मुकुटं रत्नयुक्तं हारं च कुण्डले ।
तूणौ खड्गं च खेटं च चापं सज्जं च शस्त्रिकाम्
॥३७॥आछाद्य कर्णौ रौक्मीयवस्त्रमुष्णीषमेव च ।
आययावुपविष्टः स भद्रासनमुत्तमम्
॥३८॥इति श्रीगणेशपुराणे क्रीडाखण्डे दुर्गासिन्धुसंवादो नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७ ॥