मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 123

3
क्रीडाखण्डः · 123

त्रयोविंशत्युत्तरशततमोऽध्यायः

क उवाच

आगतं सिन्धुमाकर्ण्य जहृषे स मयूरराट् ।

नीलकण्ठं समारुह्य ययौ युद्धाय सत्वरः

॥१॥

चतुर्भिरायुधैः सर्वाभासन् विदिशो दिशः ।

कल्पान्तमेघसदृशनादेन नादयन्नभः

॥२॥

ददर्श पुरतः सिन्धुं युद्धाय कृतनिश्चयम् ।

सोऽप्येनं समरे दृष्ट्वा पश्यति स्म पुनः पुनः

॥३॥

यथा सिहं नागराजो गरुडं चाथ वायुभुक् ।

मधुकैटभौ यथा विष्णुं त्रिपुरो वा शिवापतिम्

॥४॥

शुम्भो वापि निशुम्भो वा जगदम्बां महाबलाम् ।

ततो युद्धं प्रकुर्वाते नानाशस्त्रैः परस्परम्

॥५॥

जपाकुसुमसङ्काशौ देहौ जातो तदा तयोः ।

ददाह पृथिवीं साद्रिं शस्त्रसङ्घट्टजोऽनलः

॥६॥

च कम्पे पृथिवी सर्वा साब्धिद्वीपा सपर्वता ।

बाणमादाय सिन्धुः स वह्नयस्त्रेणाभिमन्त्र्य च

॥७॥

ससर्ज दग्धुं तं देवं मयूरेशं रणाङ्गणे ।

स दहन् देवसेनां तां दशदिक्षु ससर्प ह

॥८॥

ततः पाशं मयूरेशो मेघास्रेण सुयोज्य च ।

न्यक्षिपद् दैत्यसेनायां कम्पयन् भुवनत्रयम्

॥९॥

अशमच्च ततो वह्निर्जलधाराऽभिवृष्टिभिः ।

प्रभूतेनाथ तमसा दिशो व्याप्ता दशापि च

॥१०॥

विशीर्णाः पर्वतास्ताभिः पतिता वृक्षसञ्चयाः ।

अयं किं प्रलयः प्राप्त इत्यशोचत् स दैत्यराट्

॥११॥

पवनास्त्रेण तान्मेघांस्तदा सिन्धुर्न्यवारयत् ।

स वायुः कम्पयामास गगनं च दिशो दश

॥१२॥

ततो देवोऽमन्त्रयत्स कमलं निजहस्तके ।

पर्वतास्त्रेण सहसा तत्याज दैत्यपुङ्गवे

॥१३॥

उन्मूल्य तद् द्रुमान् व्योम द्योतयच्च दिशो दश ।

अगच्छद् दैत्यसेनायां प्रासुवत् पर्वतान्बहून्

॥१४॥

असङ्ख्यातैर्गिरिवरैश्छादितं पृथिवीतलम् ।

न स्थातुमवकाशोऽभून्न च गन्तुमथापि च

॥१५॥

पवनं कुण्ठितं दृष्ट्वा पर्वतान्सर्वतोऽपि च ।

वज्रास्त्रं प्रेरयामास ततो वज्राणि निर्ययुः

॥१६॥

असङ्ख्यातैश्च वज्रैश्च पर्वताश्चूर्णितास्तदा ।

ततोऽकुशं मयूरेशो वज्रास्त्रेण न्यमन्त्रयत्

॥१७॥

ससर्ज तेषु वज्रेषु वज्रयुद्धमभूत् तदा ।

तच्छब्देन च कम्पे भूः पातालानि दिशो नभः

॥१८॥

न्यपदत् वज्रघातेन वह्निर्लोकान्ददाह सः ।

परस्परं निरस्तानि वज्राण्यन्तर्दधुस्तदा

॥१९॥

ततोऽवदन्महादैत्योऽमात्यान् प्रति महारुषा ।

किमनेन प्रयोगेण भस्म कुर्यां क्षणादमुम्

॥२०॥

शिवबालं शिवास्तन्यपानदक्षं शिवोचितम ।

इत्युक्त्वाऽभिद्रवद्दैत्यो हन्तुं तं स गुणेश्वरम्

॥२१॥

दधार तं निरीक्ष्यैवमायान्तं दैत्यपुङ्गवम् ।

विराड्रूपो मयूरेशो बिभेद सहसा नभः

॥२२॥

चरणाक्रान्त पातालः श्रोत्रव्याप्तदिगन्तरः

॥२३॥

सहस्रपादं सहसा निरीक्ष्य सहस्रनेत्रं च सहस्रशीर्षम् ।

खं रोदसी व्याप्य च तिष्ठमानं सिन्धुर्मुमूर्छाथ पतँश्च भूमौ

॥२४॥

आच्छादयन्तं हस्तेन व्योम सर्वं सुरेश्वरम् ।

सावधानमनाः किञ्चित् सस्मार रविजं वरम्

॥२५॥

सिन्धुरुवाच

रविणा पूर्वमुक्तोऽहं वरदाने महौजसा ।

आच्छादयेद् यो गगनमेकहस्तेनरेऽसुर

॥२६॥

स ते मुक्तिपदं सद्यो नेष्यते बहुकालतः ।

अतोऽनेन रणेनाऽलं यद् भाव्यं तद्भविष्यति

॥२७॥

पुनर्निरीक्ष्यमाणोऽसौ ह्रस्वकायं ददर्श तम् ।

षड्भुजं तु मयूरेशं परं विस्मयमायमौ

॥२८॥

ततोऽवरुह्य देवेशो मयूरेशः शिखण्डिनः ।

उपस्पृश्य जलं शुद्धं जजाप परमं मनुम्

॥२९॥

परशुं मन्त्रयामास महोव्याप्तं दिगन्तरम् ।

लक्षीकृत्य रिपोर्नाभिं सुधामन्त्रेण संयुतम्

॥३०॥

स्फोटयन्निव ब्रह्माण्डं क्रोधसंरक्तलोचनः ।

ज्वालामालाकुलं तं स मुमोच गिरिजासुतः

॥३१॥

स मोच्यमानो गगनं नादयन् विदिशो दिशः ।

भासयन् महसा पृथ्वीं सपर्वतवनाकराम्

॥३२॥

दृष्ट्वा दैत्यः समायान्तं परशुं कालसन्निभम् ।

शीघ्रं चक्रे धनुर्घोरं शरं यावद्धियोज्यते

॥३३॥

तावत्स बिभिदे नाभिममृताभियुतं लघु ।

अमृते निःसृते दैत्यो वाताहत इव द्रुमः

॥३४॥

पपात सहसा भूमौ वज्राहत इवाचलः ।

प्रसार्य वक्त्रं रुधिरं वमन्प्राणान्विसृज्य सः

॥३५॥

मयूरेशप्रतापेन मुक्तिं प्राप सुदुर्लभाम् ।

पश्यतां सर्वलोकानां तद्भुतमिवाभवत्

॥३६॥

अवतेरुर्विमानानि युद्धं द्रष्टुं स्थितानि ह ।

पपात पुष्पवृष्टिश्च शनैर्मेघा जगर्जिरे

॥३७॥

अशीशमद् रजो भौमं ववौ वातः सुखावहः ।

प्रसेदुश्च दिशः सर्वा गन्धर्वा मधुरं जगुः

॥३८॥

ननृतुश्चाप्सरः सङ्घास्तुष्टवुर्मुनिदेवताः ।

षडाननादयो वीरा मयूरेशं मुदा युताः

॥३९॥

सर्वे ऊचुः

परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् ।

गुणाब्धि गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४०॥

जगद्वन्द्यमेकं परोङ्कारमेकं गुणानां परं कारणं निर्विकल्पम् ।

जगत्पालकं हारकं तारकं तं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४१॥

महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।

सदा भक्तपोषं परं ज्ञानकोशं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४२॥

अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ।

सुरार्यन्न्तकं भुक्तिमुक्तिप्रदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४३॥

परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।

असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४४॥

अनेकक्रियाकारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।

क्रिया सिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४५॥

महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।

जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४६॥

महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।

सदाकामरूपं कृपाम्भोनिधिं तं मयूरेशमाद्यं नताः स्मो नताः स्मः

॥४७॥

सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो यतस्त्वं लोकानां परमकरुणामाशु तनुषे ।

षडूर्मीणां वेगं सुरवर सदा नाशय विभो ततो मुक्तिः श्लाघ्या तव भजनतोऽनन्तसुखदात्

॥४८॥

किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् ।

न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः

॥४९॥

कः उवाच

एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् ।

यदुक्तं ते मयूरेश तत्कृतं परमं वचः

॥५०॥

सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः ।

ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम्

॥५१॥

शिवोऽपि प्रययौ तत्र समालिङ्ग्य च तमब्रवीत् ।

सम्यक् कृतं त्वया वत्स त्रैलोक्यं हर्ष निर्भरम्

॥५२॥

सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः ।

पराक्रमवतः सर्वलोकरक्षारतस्य च

॥५३॥

चतुर्वेदानिरुप्यस्य सर्वविद्यानिधेरपि ।

एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः

॥५४॥

मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् ।

इदं यः पठते स्तोत्रं स कामाल्लभतेऽखिलान्

॥५५॥

सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।

अयुतावर्तनान्मर्त्योऽसाध्यं यत्साधयेत् क्षणात्

॥५६॥

सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् ।

पुत्रवान्धनवांश्चैव वशतामखिलं नयेत्

॥५७॥

क उवाच

एवमुक्त्वा ह्यनुज्ञाताः साध्वित्युक्त्वा ययुः सुराः ।

मयूरेशो गणैर्युक्तः स्वधाम प्रत्यपद्यत

॥५८॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवदो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥