मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 88

3
क्रीडाखण्डः · 88

मञ्चकासुरवधो नामाष्टाशीतितमोऽध्यायः

व्यास उवाच

अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् ।

ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै

॥१॥

तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम ।

अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम्

॥२॥

ब्रह्मोवाच

श‍ृणुष्वावहितोत ब्रह्मन् गुणेशस्य कथां पुनः ।

श्रुतिरन्याच पापानां संहर्त्रीं धर्ममोक्षदा

॥३॥

अष्टमे मासि मध्यान्हे ग्रीष्मर्तौ गिरिजा किल ।

ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम्

॥४॥

अशोकाश्चन्दना यत्र पनसाश्च बिभीतकाः ।

मालतीचम्पका जातीचिञ्चिणीपिचुमन्दकाः

॥५॥

पारिजातकवृक्षाश्च घनच्छायासमन्विताः ।

रम्यं शीतजलं चारु सरः कमलमण्डितम्

॥६॥

तत्र मञ्चकवर्ये सा सख्यानीते शुभास्तरे ।

सुष्वाप गिरिजा बालयुक्ता निःशङ्कचेतसा

॥७॥

सखीभ्यां वीजिता बालव्यजनेनाश्ममुष्टिना ।

सुषुप्तिमगमद् यावत्तावदैत्यो महाबलः

॥८॥

तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः ।

मञ्चकान्तर्गतः सोऽथ तेन साकं ययौ दिवम्

॥९॥

तस्य शब्देन सन्त्रस्ते ते सख्यौ पतिते भुवि ।

आक्रन्दं परमं चक्रे पर्यङ्कस्था तदा शिवा

॥१०॥

व्योमस्था पर्यदेवत् सा धाव धावेति शङ्कर ।

किं मया विकृतं देव किमर्थं मामुपेक्षसे

॥११॥

अयं दैत्योऽतिबलवान् व्योमाक्रम्य प्रधावति ।

परहस्तगतां कान्तां शक्तः कथमुपेक्षसे

॥१२॥

अस्य पुत्रस्य योगेन नानादुःखमभून्मम ।

अस्माद् दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता

॥१३॥

अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् ।

क उवाच ।

एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः

॥१४॥

तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः ।

चकम्पे धरणी तेन ससमुद्रवनाकरा

॥१५॥

तामदृष्ट्वा तु शोचत्सु गणेषु प्रमथादिषु ।

पादाघातेन बालोऽथ मञ्चकं समताडयत्

॥१६॥

बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः ।

मञ्चकः खण्डशस्तेन भूत्वा निपतितो भुवि

॥१७॥

ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् ।

हस्तेनैकेन जननीं दधारासौ स्वलीलया

॥१८॥

घनमुक्तं तोयबिन्दुं चञ्च्वैव चातकः क्षणात् ।

स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च

॥१९॥

ततस्तत्याज भूदेशे तं बालः सहसा बलात् ।

पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान्

॥२०॥

स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् ।

प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृङ्मुहुः

॥२१॥

स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः ।

चूर्णयन्वृक्षपाषाणानाश्रमान् शरणान्यपि

॥२२॥

ततो दृष्टो बालकोऽसौ गणैः सखिजनैरपि ।

ऊचुस्ते गौरि बालोऽयं रमते कुशली बली

॥२३॥

सा तु भ्रान्त्यैव नाजानाद्गगनं धरणीं शिशुम् ।

मुनयस्तामथोचुस्ते सावधानमना सति

॥२४॥

भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् ।

उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम्

॥२५॥

क उवाच

तद्वाक्यात् प्रतिबुद्धा साऽपश्यद् दैत्यं च बालकम् ।

गौर्युवाच ।

विपरीतं मया दृष्टं गूढो बालेन वा कथम्

॥२६॥

हतोऽनेन महादैत्य एकविंशतियोजनः ।

मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः

॥२७॥

इत्युक्त्वा बालमादाय कारयामास शान्तिकम् ।

दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि

॥२८॥

दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः ।

एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः

॥२९॥

दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः ।

यस्य पाणितलाघाताद्धरा चूर्णत्वमागता

॥३०॥

आच्छादितो दिनमणिर्देहेन गगनस्पृशा ।

गणबालस्वरूपेण गौरीबालं जुहाव सः

॥३१॥

इत एहि रमावोऽद्य सोऽपि यातस्तदैव तम् ।

स्वाङ्कं कृत्वा तु तं बालं हालाहलफलं ददौ

॥३२॥

अध्यद्धिति फलं बालं शीघ्रमित्यब्रवीच्च सः ।

दूरदेशात्समानीतं जन्ममृत्युजरापहम्

॥३३॥

स तु जानन्दुष्टभावं फलं तज्जगृहे ततः ।

अभक्षयदयाचत्स फलान्तरमभीः पुनः

॥३४॥

क उवाच

अमृत विषतां याति विषं तत्तां शिवेच्छया ।

धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत

॥३५॥

तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् ।

पराभ्यांश्मश्रुणी गृह्य दोलयामास लीलया

॥३६॥

ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः ।

स पीडित उवाचाऽथ जानुभागादवातर

॥३७॥

तव भारेण नृत्येन मम देहोऽतिपीडितः ।

मुञ्च मुञ्च गमिष्यामि स्वालयं गिरिजासुत

॥३८॥

क उवाच

एवं सम्प्रार्थितस्तेन न मोचयति बालकः ।

उदतिष्ठद्बलादैत्यो भग्नदेहस्तु पूर्वतः

॥३९॥

बलाच्चकर्ष बालोऽपिःमूर्धानमस्य तत्क्षणात् ।

कण्ठनालात् तच्छिरोऽपि बालहस्तगतं बभौ

॥४०॥

रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत ।

शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः

॥४१॥

शोणितेन विलिप्ताङ्गो गणा मात्रे न्यवेदयन् ।

सा गत्वा पश्यति स्माऽथ पुत्रं दृष्ट्वा तथाविधम्

॥४२॥

तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् ।

स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा

॥४३॥

ततः सख्यो गणाश्चापुः पप्रच्छुः क्षेममर्भकम् ।

सोवाच परमं क्षेम बालके शिवभक्तितः

॥४४॥

मरीचिरक्षणाच्चापि कुशलं मम बालके ।

ततस्ते तं निरासुर्वै दुरतो दुष्टदानवम्

॥४५॥

ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् ।

पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम्

॥४६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे मञ्चक-दुन्दुभिवधो नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥