मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 155

3
क्रीडाखण्डः · 155

फलश्रुति निरूपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः

सूत उवाच

जन्ममृतिः न च स्यातां पुराणस्यास्य संश्रयात् ।

एकशो बहुशश्चेत् स्याद् यद्यस्य श्रवणं द्विजाः

॥१॥

न शक्नुतामलं वक्तुं शेषपद्मासनावपि ।

यो ददाति कुरुक्षेत्रे सोमसूर्यग्रहे नरः

॥२॥

हेमभारसहस्राणि विप्रेभ्यो भक्तिभावतः ।

तदस्य श्रवणात् पुण्यं प्राप्नुयाद् भक्तिमान् नरः

॥३॥

यज्ञानां साङ्गजातानां सर्वेषां दक्षिणावताम् ।

फलं कस्तुलयामास पुराणश्रवणस्य च

॥४॥

पुराणश्रणस्यास्य पुण्यं तस्माद् विशेषवत् ।

व्रतानां जलदानानां तत्र का गणना मता

॥५॥

कोटिकन्याप्रदानानां गोदानानां सहस्रशः ।

तत्पुण्यं कोटिगुणितं श्रवणादस्य जायते

॥६॥

चतुर्णामपि वेदानां साङ्गानां पठनात्सदा ।

शास्त्राणां व्याकृतेर्वापि सदा सत्सेवनादपि

॥७॥

तत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत् ।

भारतस्य पुराणस्य सम्पूर्णस्य श्रवादपि ।

यत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत्

॥८॥

यस्य गेहे गणेशस्य पुराणं लिखितं भवेत् ।

न तत्र राक्षसा भूताः प्रेताश्च पूतनादयः

॥९॥

ग्रहा बालग्रहा नैव पीडां कुर्वन्ति कर्हिचित् ।

तद्गृहं हि गणेशेन रक्ष्यते सर्वदा स्वयम्

॥१०॥

इदं पुराणं श‍ृणुयात् पूजयेद् वा समाहितः ।

तस्य दर्शनतः पूता भवन्ति पतिता नराः

॥११॥

ब्रह्मादीनां मुनीनां स मान्यो भवति मानवः ।

क्रुद्धो दहेत् स भुवनं तुष्टो दद्यान्महत् पदम्

॥१२॥

अष्टसिद्धीः समाप्नोति श्रवणात्प्रत्यहं नरः ।

न दारिद्रयं समाप्नोति न सङ्कष्टं नरः क्वचित्

॥१३॥

ईप्सितं समवाप्नोती पद्मादींश्च निधीनपि ।

कल्पद्रुमः कामधेनुर्निधिश्चिन्तामणिस्तथा

॥१४॥

तस्य वश्यत्वमभ्येति सोऽपि वन्द्यो भवत्यपि ।

जारणं मारणं स्तम्भं उच्चाटनमथापि च

॥१५॥

अस्य स्मरणमात्रेण निरस्तं स्यात् क्षणेन ह ।

गणेशनिकटे स्थित्वा पुराणं श‍ृणुयान् नरः

॥१६॥

महापापाद् विनिर्मुक्तः स्त्रीबालहत्ययापि च ।

सान्निध्यमाप्नुयादन्ते गणेशस्य न संशयः

॥१७॥

शूद्रोऽपि मध्ये संस्थाप्य ब्राह्मणान् श‍ृणुयादिदम् ।

क्रमेण लभते वर्णान् वैश्यक्षत्रद्विजाह्वयान्

॥१८॥

नित्यनैमित्तिकर्मभ्यश्च्युतो यः श‍ृणुयादिदम् ।

कर्मसाद्गुण्यमाप्नोति गणेशस्य प्रसादतः

॥१९॥

भाद्रे शुक्लचतुर्थ्यां यः कृत्वा मूर्तिं महीमयीम् ।

मण्डपे तोरणे रम्ये सम्पूज्य परमादरात्

॥२०॥

पुराणं श‍ृणुयात् सद्यस्तस्य तुष्टो विनायकः ।

ददाति निखिलान् कामानन्ते मोक्षं च विघ्नपः

॥२१॥

स्तोत्राण्यत्र च यावन्ति तावन्ति प्रत्यहं नरः ।

पठते यदि यो भक्त्या स सिद्धः स्यान्न संशयः

॥२२॥

असाध्यमपि यत् किञ्चित् तेषां पाठाल्लभेन्नरः ।

अनुष्ठानविधानेन मासमात्रं जपेत्तु यः

॥२३॥

ब्राह्मणान् भोजयेद् भक्त्या सोऽपि तन्मयतामियात् ।

ऋषय ऊचुः ।

कथमस्य श्रवात् पुण्यं केन प्राप्तं पुराऽनघ

॥२४॥

तन्नः शंस महाभाग पृच्छतां सूतनन्दन ।

सूत उवाच ।

श‍ृण्वन्तु मुनयः पूर्वं कश्चिन्मूकोऽभवन्मुनिः

॥२५॥

ब्रह्मलोकं गतोऽकस्माल्लोमशोऽपि यदृच्छया ।

नमस्कृत्य च लोकेशमुपविष्टस्तदाज्ञया

॥२६॥

पूजितः परया भक्त्या लोमशोऽथाब्रवीद् विधिम् ।

लोमश उवाच ।

व्यासाय कथितं देव पुराणं पुण्यवर्धनम्

॥२७॥

गणेशस्य महाभाग तन्मे वक्तुमिहार्हसि ।

ब्रह्मोवाच ।

श‍ृणु लोमश यत्नेन सर्वपापहरं शुभम्

॥२८॥

पुराणं हि गणेशस्य काममोक्षप्रदं नृणाम् ।

सूत उवाच ।

ततः स कथयामास ब्रह्मा स्वीयेन यामतः

॥२९॥

लोमशाय गणेशस्य पुराणं काममोक्षदम् ।

मूकेन नादलुब्धेन श्रुतं भक्त्याऽखिलं तु तत्

॥३०॥

ततः स वागीश्वरवत् प्रोवाच भारतीं मुनिः ।

अधीत्य पाठतः कृत्वा श्रावयामास चेतरान्

॥३१॥

भुक्त्वा भोगान् यथा कामान् पुत्रान् पौत्रानवाप्य च ।

अन्ते जगाम परमं धाम गाणेश्वरं शुभम्

॥३२॥

पुनः श‍ृण्वन्तु मुनय इतिहासं पुरातनम् ।

इक्ष्वाकुकुलसम्भूतो राजा शुद्धात्मकः शुचिः

॥३३॥

यज्वा दानप्रदो नित्यं स्वाध्यायपरमोऽरिहा ।

आख्याता सर्वधर्माणां प्रजानां पालने रतः ।

षष्ठांशभागी लोकानां मान्यः प्रियतरोऽपि च

॥३४॥

विख्यातः त्रिषु लोकेषु गोप्ता संवरणाभिधः ।

अनपत्यः स पुत्रार्थे पुत्रीयामिष्टिमाहरत्

॥३५॥

साङ्गां सदक्षिणामन्नदानैः सुविहितां ततः ।

न लेभे सन्ततिं राजा हरिवंशमथाश‍ृणोत्

॥३६॥

पूजयित्वा द्विजानन्ते वाचकं परितोष्य च ।

वस्त्रधेनुहिरण्याद्यै रत्नमूलफलादिभिः

॥३७॥

ततोऽपि नाभवत् पुत्रो दैवान्मूकस्तु तद्गृहम् ।

समायातस्तु विख्यातो गणेशाख्यपुराणवित्

॥३८॥

स्थापितः प्रार्थयित्वा च राज्ञा संवरणेन सः ।

श्रुत्वा पुराणं तद्वक्त्राद्गणेशाख्यं मुदा नृपः

॥३९॥

तदन्ते तोषयामास मूकं तं द्विजपुङ्गवम् ।

रत्नमुक्ताफलैर्वस्त्रैर्भूषणैर्हेमनिर्मितैः

॥४०॥

लेभे ततः कुमारं स गणेशे तत्परोऽभवत् ।

भुक्त्वानेकसुखान् प्राप गाणेशं पदमुत्तमम्

॥४१॥

भगिनी तस्य वन्ध्यासीत् त्रिंशद्वर्षा रजस्वला ।

यथाकालं भवत्येव श्रुत्वा तस्याथ सन्ततिम्

॥४२॥

गणेशाख्यपुराणस्य श्रवाज्जातां च तं मुनिम् ।

आकार्य परिशुश्राव पुराणं तन्मुखाच्छुभम्

॥४३॥

लेभे पुत्रं महाशूरं गणेशभजने रता ।

पुत्रान् पौत्रान् समावाप्य भुक्त्वा भोगान्मनोहरान्

॥४४॥

जगाम सा गणेशस्य निजधामावसानतः ।

सगरस्य तु पुत्राणामेकः पङ्गुरभूत्सुतः

॥४५॥

तेनापीदं श्रुतं पुण्यं पुराणं लोमशात्पुरा ।

भक्त्या द्वादशवर्षेण विनीतेनाथ भक्तितः

॥४६॥

सन्तोष्य लोमशं द्रव्यैस्ततोङ्घ्रि समवाप सः ।

विजयं पुष्टिमायुष्यं प्राणान्ते धामतत्परः

॥४७॥

अष्टादशपुराणानां श्रवणे यत्फलं लभेत् ।

तदेकस्य पुराणस्य गणेशस्य श्रुतेर्भवेत्

॥४८॥

काकवन्ध्या बहुसुता श्रवणादस्य जायते ।

स्रवद्गर्भा भवेद्विप्रा दृढगर्भा भवत्यपि

॥४९॥

मूको वागीशतां याति श्रवणान्मुनिपुङ्गवाः ।

वेदाध्ययनसम्पन्नो मान्योऽपि द्विजपुङ्गवः

॥५०॥

शुद्रो वैश्यत्वमाप्नोति वैश्यः क्षत्रियतामियात् ।

क्षत्रियो द्विजतां याति स्मरणादप्यमुष्य हि

॥५१॥

कन्या तु लभते चास्याप्येकाध्यायस्य संश्रवात् ।

गणवन्तं कुलीनं च पतिं साधुं धनान्वितम्

॥५२॥

जात्यन्धो लभते दृष्टिं पुराणस्यास्य संश्रयात् ।

सर्वतीर्थेषु यः स्नायाद् दद्दाद् दानानि सर्वशः

॥५३॥

तत्फलं समवाप्नोति भक्त्या यः श‍ृणुयादिदम् ।

पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम्

॥५४॥

वर्षास्वाकाशवासं यः कुरुते बहुवत्सरम् ।

तत्फलं प्राप्नुयान्मर्त्यः संश्रुतेऽध्यायपञ्चके

॥५५॥

अग्निहोत्रं सदा यस्तु सेवते भक्तिमान् नरः ।

तत्फलं हि पुराणस्य श्रवणादस्य जायते

॥५६॥

एकाङ्गुष्ठेन यस्तिष्ठेद् वर्षाणामयुतं नरः ।

दशाध्यायश्रुतेरस्य पुराणस्य तथा फलम्

॥५७॥

लभते मानवो भक्त्या निश्चितं नात्र संशयः ।

आजन्ममरणान्नित्यं श‍ृणुयान्मानवो भुवि

॥५८॥

पुराणं तु गणेशस्य चक्रवर्ती भवेत् तु सः ।

आजन्ममरणाद् यस्तु काशीवासं करोति यः

॥५९॥

तत्पुण्यं लभते मर्त्यो गणेशस्य पुराणतः ।

सहस्रं माघमासान् यः प्रयागे स्नाति मानवः

॥६०॥

तत्फलं लभते मर्त्यः पुराणस्यास्य संश्रवात् ।

गोमतीसङ्गमे तद्वत् स्नानं भक्त्या करोति यः

॥६१॥

तत्फलं कोटिगुणितं लभते चास्य संश्रवात् ।

गणेशस्य पुराणं यः श‍ृणुयाद् भक्तिमान्नरः

॥६२॥

न भयं तस्य शूलात् तु वज्राच्च चक्रिचक्रतः ।

इदं वः कथितं सर्वं पुराणं च सविस्तरम्

॥६३॥

सम्पूर्णो महिमा वक्तुं न शक्यो वर्षकोटिभिः ।

ब्रह्मणा षण्मुखेनापि शेषेणापि मुनीश्वराः

॥६४॥

युष्माभिः परिपृष्टं यत् सर्वपापप्रणाशनम् ।

सर्वं कामप्रदं भुक्तिमुक्तिदं पुण्यवर्धनम्

॥६५॥

गणेशस्य परेशस्य नानालीलाधरस्य च ।

वक्तृश्रोत्रोरघहरं किमन्यच्छ्रोतुमिच्छथ

॥६६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे फलश्रुतिनिरूपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५५ ॥

श्रीगजाननार्पणमस्तु ॥ शुभं भवतु ॥ इति श्रीगणेशपुराणं समाप्तम् । (Continued from the first part उपासनाखण्डम् in a separate file.) Proofread by Manish Gavkar ``` % Text title : Ganesha Puranam 2 Uttarakhandam or Kridakhandam % File name : gaNeshapurANam2.itx % itxtitle : gaNeshapurANam 2 uttarakhaNDaM athavA krIDAkhaNDam % engtitle : Ganesha Puranam 2 uttarakhaNDaM or krIDAkhaNDam % Category : purANa, ganesha % Location : doc_purana % Sublocation : purANa % Language : Sanskrit % Subject : philosophy/hinduism/religion % Proofread by : Manish Gavkar % Indexextra : (Scans 1, 2, 3, 4, 5, Hindi, Thesis 1, 2, TOC, Analysis) % Latest update : March 20, 2025 % Send corrections to : sanskrit at cheerful dot c om % Site access : https://sanskritdocuments.org ```