मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 38

3
क्रीडाखण्डः · 38

बालचरितेऽष्टतत्रिंशोऽध्यायः

कीर्तिरुवाच

सम्यगुक्तं त्वया ब्रह्मन् शमीमाहात्म्यमादरात् ।

मन्दारस्यापि कथितं तेन मे तुष्यते मनः

॥१॥

जीवितश्च कुमारोऽयमुपदिष्टः षडक्षरम् ।

न चोच्चारयितुं शक्यं बालभावान्मुनीश्वर

॥२॥

सुगमं सुप्रसादं च स्वराज्यप्रापकं मुने ।

जप्तुं शक्यं बालकेन मन्त्रमस्मै दिशाधुना

॥३॥

मुनिरुवाच

सम्यगदृष्टा तव मतिर्गजाननपदाम्बुजे ।

अतोऽहमस्य दास्यामि निज मन्त्रं सुखप्रदम्

॥४॥

सर्वस्य जगतो हेतुर्नाम यच्चतुरक्षरम् ।

शुभाशुभस्य च द्रष्टर्दुष्टदैत्यहरस्य च

॥५॥

सर्वधर्मपरित्रातुर्दिवोदासोपकारिणः ।

द्विजरूपधरस्यापि वाराणस्यां स्थितस्य ह

॥६॥

विश्वेश्वरस्याविमुक्तप्राप्त्यै यत्नं प्रकुर्वतः ।

सर्वान्तर्यामिणश्चापि विश्वेश्वरनुतस्य ह

॥७॥

जगतः पालनार्थाय जनार्दननुतस्य च ।

ध्यातस्य पूजितस्यापि ब्रह्मणा सृष्टिहेतवे

॥८॥

अर्चितस्य शिवेनापि सर्वसंहारहेतवे ।

पुलोमजाधवेनापि पूजितस्य सुभक्तितः

॥९॥

दैत्यानां निधनार्थाय देवराज्यसुखात्पये ।

सूर्येण वरुणेनापि शशिना च यमेन च

॥१०॥

अग्निना वायुना स्वस्वगुणोत्कर्षाय पूजिताः ।

बृहस्पत्युशनोभ्यां च स्वस्वोत्कर्षाय पूजितः

॥११॥

शेषेणाराधितो ढुण्ढिर्धराधरणहेतवे ।

गन्धर्वकिन्नरा यक्षाः सिद्धचारणराक्षसाः ।

ऋषयः पशवः सर्वे स्थावरा जङ्गमाः शुभाः

॥१२॥

आराधयन्ति विश्वेशं स्वस्वकार्यार्थसिद्धये ।

अपारगुणपारोऽयं ढुण्ढिराजोऽखिलेश्वरः

॥१३॥

गुणान्तं न ययुर्यस्य ब्रह्मविष्णुशिवादयः ।

तस्मिन्स्तु पूजिते भक्त्या शमीपत्रेण भावतः

॥१४॥

पुत्रस्ते भविता राज्यभागी शत्रुनिबर्हणः ।

कीर्तिरुवाच ।

श्रुतो मे महिमा ब्रह्मन् ढुण्ढिराजाश्रयोऽखिलः

॥१५॥

किङ्कर्मा कथमुत्पन्नः कस्यांशः किपराक्रमः ।

केनास्य च कृतं नाम केनासौ पूजितः पुरा

॥१६॥

इमं मे संशयं ब्रह्मन् छेत्तुमर्हस्यशेषतः ।

मुनिरुवाच ।

सम्यक्पृष्टं त्वया भद्रे ज्ञानाधिकतया शुभे

॥१७॥

भक्त्या निवेदितश्चायं संशयस्मं नुदामि ते ।

यथा दुरासदो दैत्यो हतोऽनेन तु राक्षसः

॥१८॥

मायावतारो मोहाय यातो दिवोदासं नृपम् ।

अविमुक्तं समानीतो यथा विश्वेश्वरो हरः

॥१९॥

ढुण्डिराजेति नामास्य येन जातं नृपाङ्गने ।

तत्सर्वं कथयिष्यामि यथा स्कन्दाच्छ्रुतं मया

॥२०॥

अगस्त्याय कथयता श‍ृणुष्वैकमनाः शुभे ।

स्कन्द उवाच ।

श‍ृणुष्वावहितो ब्रह्मन्नविमुक्ताश्रयां कथाम्

॥२१॥

यस्याः श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।

कश्यपाय हरिः प्राह सृज नानाविधाः प्रजाः

॥२२॥

प्ररूढतपसा कायः ससृजेऽथ जरायुजा प्रजाः ।

एकविंशतिसाहस्रमण्डजाः स्वेदजास्तदा

॥२३॥

उद्भिजाश्चैव तावन्त्यो मानष्यं तासु दुर्लभम् ।

पुण्येन लभते तच्च ब्राह्मण्यं बहपुण्यतः

॥२४॥

तच्चेत्संरक्षितं सम्यग् धर्माधर्मव्यवस्थया ।

ददाति परमं स्थानं यद्गत्वा न निर्वतते

॥२५॥

चतुराशीतिलक्षेषु नो चेत्पतितजन्मसु ।

दुराचारा नरा याम्ययातनासु पतन्ति वै

॥२६॥

कर्मक्षये ततो जाते बहुकालेन ते पुनः ।

मृत्युलोकं समायान्ति काणाः कुब्जा दरिद्रिणः

॥२७॥

तदेषामनुकम्पार्थं ब्रह्मेशानादयः सुराः ।

ऋषयश्व महाभागा नानातीर्थानि चक्रिरे

॥२८॥

क्षेत्राणि च महार्हाणि प्राणिपापहराणि च ।

विलयन्तः स्थितास्तत्र पापं देवर्षयस्तदा

॥२९॥

यत्र स्थितानां जन्तूनां पापस्य विलयो भवेत् ।

जन्तून् पापात् परित्रातुं स्थिता देवर्षयः सदा

॥३०॥

सर्वश्रेष्ठां सर्वगुणां भुक्तिमुक्तिप्रदां शुभाम् ।

विश्वेश्वरो निर्ममेऽथ ध्यातृज्ञातृविमुक्तिदाम्

॥३१॥

सर्वतीर्थमयीं रम्यां नाम्ना वाराणसीं पुरीम् ।

यत्र चक्रे सरः ख्यातं विष्णुना प्रभविष्णुना

॥३२॥

तपस्यता कृतं चारु स्नानमात्रेण मुक्तिदम् ।

यदृष्ट्वा कन्धराकम्पाच्छिवस्य कुण्डलान्मणिः

॥३३॥

पतितस्तत्र सञ्जाता नाम्ना सा मणिकर्णिका ।

ततो भगीरथाहूता जाता भागीरथी नदी

॥३४॥

अत्र कीटपतङ्गानां मुक्तिर्मरणतो भवेत् ।

त्रिवारनामस्मरणात् काशीवासफलप्रदा

॥३५॥

धन्यास्ता वीरुधो वल्ल्यस्तृणवृक्षा न चान्यतः ।

गछन्ति कमठा मत्स्या भूकैलासं विहाय तत्

॥३६॥

नित्यं यत्र स्थितो शम्भुर्नानारूपोऽथ रूपवान् ।

रविः शशी हरिर्ब्रह्मा स एव गिरिजापतिः

॥३७॥

विनायकः शक्तिरूपः कारणं जगतोऽपि सः ।

प्रलयेऽपि त्रिशूलाग्रे ध्रियते येन काशिका

॥३८॥

एकोऽयं पञ्चधा जातो लोकानुग्रहकाम्ययाः ।

भक्तो यां ध्यायति मूर्तिं सा तेन ध्रियते क्षणात्

॥३९॥

अत्र यो मनुते भेदं सोऽवीचीर्लभते नरः ।

स्तुतिमेकत्र निन्दां वा परत्र यः समाचरेत्

॥४०॥

स याति नरकानेकविंशतिं बहुवत्सरम् ।

अतो भस्मासुरसुतः ख्यातो नाम्ना दुरासदः

॥४१॥

स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।

दिव्यवर्षसहस्रं स एकाङ्गुष्ठस्थितोऽभवत्

॥४२॥

निराहारः काष्ठभूतः सवल्मीकोऽस्थिशेषवान् ।

नेत्रमात्रावशिष्टोऽसौ जजाप परमं मनुम्

॥४३॥

आययौ तं वरं दातुं तत्क्लेशपरितोषितः ।

दशबाहुः पञ्चवक्त्रो रुण्डमालाविभूषितः

॥४४॥

त्रिशुलं डमरु बिभ्रज्जटाजूटविभूषितः ।

गङ्गाधरस्त्रिनयनश्चिताभस्माङ्गलेपनः

॥४५॥

वृषध्वजो वृषारूढः शशिरेखाविभूषितः ।

अपर्णाङ्ककृपाविष्टो जगाद दैत्यपुङ्गवम्

॥४६॥

शिव उवाच

उत्तिष्ठोत्तिष्ठ भद्रं ते तपसा क्लेशितो भृशम् ।

ईप्सितं ते प्रदास्यामि वरयस्व हृदि स्थितम्

॥४७॥

क उवाच

तत उन्मील्य नयने बद्ध्वाञ्जलिपुटोऽसुरः ।

प्रणम्य परितुष्टाव वरदं तं महेश्वरम्

॥४८॥

त्वं जगत्कारणं देव परमानन्दविग्रहः ।

क्षराक्षरातीततनुर्गुणत्रयविकारकृत्

॥४९॥

गुणातीतो ज्ञानमयो व्यक्ताव्यक्तविधानवित् ।

मुनिध्येयतनुः सर्वभक्तानुग्रहकारकः

॥५०॥

ब्रह्माण्डानामनन्तानां हेतुः श्रेयस्करः सताम् ।

अखण्डानन्दपूर्णस्त्वममोघफलदायकः

॥५१॥

सर्वाधारः सर्वसहः सर्वशक्त्युपबृंहितः ।

पृथिवीवायुसलिलवह्नितेजः स्वरूपवान्

॥५२॥

अद्य धन्यं तपो नेत्रे पितरौ जन्म ते यतः ।

दृष्ट स्वरूपं साक्षान्मे गतं पापं लयं परम्

॥५३॥

योगिहृच्छ्रुतिवाचो यो गोचरो न कदाचन ।

इदानीं वरये देव तन्मे त्वं दातुमर्हसि ।

शिव उवाच ।

निःशङ्कं वरयाशु त्वं सर्वं दास्येऽतिदुर्लभम्

॥५४॥

स्तोत्रेण तपसा चैव प्रणयेन सुतोषितः ।

मुनिरुवाच ।

ततो वव्रेऽभयं देवात्सुप्रसन्नात्सदाशिवात्

॥५५॥

चतुराकरजेभ्यो मे मा मृत्युः सम्भवेदिति ।

यक्षरक्षःपिशाचेभ्यो देवदानवकिन्नरात्

॥५६॥

मुनिमानवगन्धर्वसर्पेभ्यो हि वनेचरात् ।

दृष्ट्वा रूपं मदीयं तु त्रसेयू रणमूर्द्धनि

॥५७॥

सर्वे देवा महाभाग सुरराज्यं च यच्छ मे ।

संस्मृतिश्चरणे नित्यं भक्तिस्तेऽव्यभिचारिणी

॥५८॥

शिव उवाच

एकां शक्तिं विना सर्वदेवेभ्योऽदायितेऽभयम् ।

शक्तितेजोद्भवः कश्चिज्जित्वा सञ्जीवयिष्यति

॥५९॥

शिरसि स्थाप्य चरणं धरिष्यति निरन्तरन् ।

निष्काशितो यदा तेन चरणस्ते शिरो गतः

॥६०॥

तदा पुनस्त्रिलोकी त्वं बलाज्जेष्यसि तेजसा ।

भक्तिश्व मे दृढतरा स्मृतिस्ते वै भविष्यति

॥६॥

गृत्समद उवाच

एवं दत्त्वा वरांस्तस्मै शिवोऽन्तर्धानमन्वगात् ।

दुरासदोऽपि स्वगृहमाययौ हर्ष निर्भरः

॥६२॥

इदं स्तोत्रं पठेद्यस्तु सर्वान्कामानवाप्नुयात्

॥६३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदवरप्राप्तिवर्णनं नामाऽष्टतत्रिंशोऽध्यायः ॥ ३८ ॥