भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः
क उवाच
ततोऽस्याङ्कात्सुतं गौरी नमस्कृत्य समाददे ।
आज्ञां गृहीत्वा प्रायात् स्वं मन्दिरं भृषहर्षिता
॥१॥सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ ।
ततो गौरी चकाराऽस्य सुमहूर्ते शुभे दिने
॥२॥गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च ।
द्विजेभ्यो नमयां चक्रे सा प्रणम्य स्वयं च तान्
॥३॥सर्वे देवगणास्तत्र नानोपायनपाणयः ।
आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा
॥४॥उवाच गौरी तान् विप्रानुपवेशनमस्य ह ।
विचार्य सर्वमुनिभिः कुर्वन्तु द्विजपुङ्गवाः
॥५॥त ऊचुर्मुनयः सर्वे गुरुवारस्रयोदशी ।
पौष्णं नक्षत्रमद्यास्ति तस्मात्कार्यो महोत्सवः
॥६॥ततो गृत्समदः शीघ्रं नानारत्नचयं भुवि ।
निधाय च चकाराशु चतुष्कं रत्ननिर्मितम्
॥७॥गणेशपूजनं कृत्वा पुण्याहवाचनं तथा ।
दिव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवासुतम्
॥८॥नीराजयामास च तं पतिवत्स्त्रीभिरादरात् ।
रत्नप्रभाजालगतं नानालङ्कारदीपितम्
॥९॥उपायनानि ते सर्वे शिवाभ्यां तत्सुताय च ।
वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्तितत्पराः
॥१०॥साऽपूजयत् ततो विप्रान् रत्नवस्त्रादिकाञ्चनैः ।
आशीर्वादाक्षताँस्तस्मिंश्चिक्षेप सकलार्पितान्
॥११॥भवानि पूजयामास मुनिपत्नीः सकन्यकाः ।
ता ऊचुर्गिरिजे धन्या त्वदन्या नास्ति कुत्रचित्
॥१२॥एतादृशःसुतोवापि सर्वलक्षणमण्डितः ॥
क उवाच ।
एवं वदत्सु सर्वेषु स्त्रीजनेषु महाखलः
॥१३॥व्योमासुरो व्योमकर्णो नानामायाविशारदः ।
न बले सदृशस्तस्य कोऽपि त्रिभुवनेऽभवत्
॥१४॥स तु द्वारि स्थितं चूतं नानाशाखासमन्वितम् ।
अभेद्यं वारणशतैः कल्पान्तमारुतैरपि
॥१५॥प्रविवेश तदाव्योमो मायया स तदन्तरम् ।
यथा दृष्टिवशाद्भूतं विशते दुष्टचेष्टिते
॥१६॥दोलयामास तं वृक्षं कल्पान्ते मारुतो यथा ।
द्रुमपातभयात्सर्वे मुनयश्च समागताः
॥१७॥भीताः प्रोचुर्विना वायुं कम्पते किं महाद्रुमः ।
तावत्कटकटाशब्दं शुश्रुवुर्वृक्षसम्भवम्
॥१८॥स्त्रियो गणाश्च सर्वे ते चक्रिरे तु पलायनम् ।
विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता
॥१९॥एतस्मिन्नन्तरे वृक्षो निपपातार्भके तदा ।
हस्ताभ्यां निहतस्तेन शतचूर्णोऽपतद्भुवि
॥२०॥यथा घननिपातेन क्रमुकं दृषदि स्थितम् ।
भ्रमन्ति स्म तदा व्योम्नि तच्छाखाः पल्लवान्विताः
॥२१॥ऋषीणामाश्रमाः केचिद्भग्नाः शाखानिपाततः ।
पलायिते जने पेतुः काश्चिच्छाखाः सपल्लवाः
॥२२॥ततो व्यामासुरो दुष्टो गतासुर्निपपात ह ।
व्यादायास्यं वमन् रक्तं शतधा तेन सोऽभवत्
॥२३॥आययुस्ते ततः सर्वे स्त्रियश्च बालकं तदा ।
ददृशुस्ते यथा पूर्वमुपविष्टं निराकुलम्
॥२४॥सुमेरूनिश्चलं स्वस्थं ततः सर्वे विसिस्मिरे ।
पञ्चामासेन बालेन महाबलपराक्रमः
॥२५॥लीलया हस्ततो दैत्यः स वृक्षः शतधा कृतः ।
हाहाकाररवा गौरी धावति स्म निजं सुतम्
॥२६॥मुनयस्तामथोचुस्ते हतदैत्यः सुतस्तवः ।
सा ददर्श ततो बालं हिमवत्पर्वतोपपम्
॥२७॥उत्थाय कटिदेशे तं धृत्वा स्तन्यं ददौ मुदा ।
मरीचिवाक्यं सस्मार प्रशशंस महेश्वरम्
॥२८॥यमीश्वरोऽवति सदा तं हन्तुं यः समीहते ।
स एव विलयं याति पतङ्ग इव दीपगः
॥२९॥मुनयो योषितः सर्वा ययुः स्वं स्वं निवेशनम् ।
ततो गणा ययुः केचिदक्षतं वीक्ष्य तत्सृतम्
॥३०॥ऊचेर्धन्यतरा माता रक्षितस्ते सुतोऽसुरात् ।
दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदति
॥३१॥ततः सा शर्करां तेभ्यो दत्त्वाज्ञां प्रददौ शिवा ।
सर्वाभ्यश्च ततो याता दृष्टा तेन निजं गृहम्
॥३२॥य इदं शृणुयात्पुण्यमाख्यानं भक्मिमान्नरः ।
न स बाधां लभेत्क्वापि सर्वत्रनिर्भयो भवेत्
॥३३॥इति श्रीगणेशपुराणे क्रीडाखण्डे भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥