मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 43

3
क्रीडाखण्डः · 43

बालचरिते ढुण्डिराजाख्यानं नाम त्रिचत्वारिंशोऽध्यायः

गृत्समद उवाच

विजिते तु गणेशेन दैत्ये तस्मिन् दुरासदे ।

दिक्पाला मुनयश्चैव शशी सूर्यो गुरुः कविः

॥१॥

प्रशशंसुर्देवदेवं दुरासदरिपुं विभुम् ।

श्रुतिस्मृतिकृतो मार्गः स्थापितो निहितोऽसुरः

॥२॥

स्थापना च कृताऽस्माकमशक्त्तानां दुरासदे ।

त्वमेव सृजसे विश्वं त्वमेव फलदायकः

॥३॥

समः सर्वेषु भूतेषु कर्मभिर्न च लिप्यसे ।

त्वदाश्रयाश्चतुर्वर्णा जन्तवश्च त्वदाश्रयाः

॥४॥

गवेषयंश्च नानार्थास्तत्तत्कर्मणि योजयन् ।

गवेषणे ढुण्ढिरयं धातुरुक्तो मनीषिभिः

॥५॥

स आस्ते ढुण्ढिरित्येव संज्ञा राजोत्तराऽस्तु च ।

तव यद्दर्शनं पूजा ध्यानं स्मरणमेव च

॥६॥

धर्मार्थकाममोक्षाणां साधनं पुत्रपौत्रदम् ।

इत्युत्वा पुपुजुस्तेऽमुं मन्दारैश्च शमीदलैः

॥७॥

दुर्वाङ्कुरैर्हरिद्भिश्च श्वेतैश्च कुसुमैरपि ।

नानापक्वान्ननैवेद्यैः फलैर्बहुविधैरपि

॥८॥

रत्नानां निचयैवप्रभोजनस्तमतोषयन् ।

एवं ते पूजिताः सर्वे सप्तावरणरूपिणः

॥९॥

स्थिता वाराणसीं त्रातुं षट्पञ्चाशद्विनायकाः ।

एकः पञ्चमुखस्तत्र विश्वेशद्वारि तिष्ठति

॥१०॥

अन्ये च भिन्ननामानो व्याप्य वाराणसीं स्थिताः ।

स्थिते विश्वेश्वरे तत्र सर्वे तत्रैव संस्थिताः

॥११॥

आचन्द्रं स्वाधिकारेषु ब्रह्माद्या मुनयोऽखिलाः ।

अकुर्वन् सर्वकर्माणि सर्वे लोका यथा पुरा

॥१२॥

इति ते सर्वमाख्यातं कीर्ते पृष्टं हि यत्त्वया ।

ढुण्ढिराजस्यावतारो धर्मकामसुखप्रदः

॥१३॥

दिवोदासबहिर्भावं कथयिष्येऽधुना तव

॥१४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते ढुण्डिराजस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥