मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 114

3
क्रीडाखण्डः · 114

चतुर्दशोत्तरशततमोऽध्यायः

वीरा ऊचुः

नानाशस्त्रप्रहरणौ मृतौ तौ मित्रकौस्तुभौ ।

असङ्ख्याता हता सेना ताभ्यां निशि दिवाऽपि च

॥१॥

ततो रिपुबलाद् दृष्टौ वीरौ द्वौ समुपस्थितौ ।

ताभ्यां बलिभ्यां निहता निजसेना विमर्दिता

॥२॥

ययोः करप्रहाराभ्यां गतौऽतौ यमसादनम् ।

दृष्टा नानाविधा सेना न दृष्टौ तादृशौ सुरौ

॥३॥

सिन्धुरुवाच

यौ दृष्ट्वा स बिभेति स्म कृतान्तो भूतहारकः ।

तौ कथं शरघातेन मृतौ शंसथ सैनिकाः

॥४॥

पराक्रममिदानीं मे पश्यन्तु सर्वसैनिकाः ।

रणभूमौ नर्तयिष्ये शिरः शत्रोर्नसंशयः

॥५॥

चक्रयुद्धं करिष्यामि चक्रपाणेर्यतः सुतः ।

इत्युक्त्वा हृयमारुह्य मयूरेशं ययौ खलः

॥६॥

असङ्ख्यकोटयो दैत्यानां पुरो याता महाबलाः ।

योद्धुकामाः सुरेन्द्रेण शिवपुत्रेण दुर्धराः

॥७॥

ततो नन्दिपुष्पदन्तौ योद्धुं यातौ महाबलौ ।

भूतराजश्च विकटो दशलक्षैश्च योद्धृभिः

॥८॥

चपलोऽप्यर्धलक्षेण योद्धुकामोऽभिनिर्ययौ ।

षडाननो वीरभद्रोऽसङ्ख्यसेनासमायुतौ

॥९॥

ईयतुर्युद्धबलिनौ नानाशस्त्रधरावुभौ ।

सप्त व्यूहान् समालोक्य प्राव्यूहन् दैत्यसैनिकान्

॥१०॥

गन्धासुरोऽथ मदनः कान्तो वीरो ध्वजस्तथा ।

महाकायश्च शार्दूलो धूर्तनामाथ सप्तमः

॥११॥

सप्तव्यूहान् पुरस्कृत्य युयुधुस्तान् समागतान् ।

बाणवृष्टया समाच्छाद्य भल्लाग्रैस्तान् निजघ्निरे

॥१२॥

भिण्डिपालहताः केचिन्निपेतुर्धरणीतले ।

षडाननेन युयुधे बलाद् गन्धासुरो बली

॥१३॥

वीरभद्रेण मदनकान्तोऽपि युयुधे रणे ।

नन्दी च वीरराजश्च युयुधाते परस्परम्

॥१४॥

ध्वजासुरपुष्पदन्तौ शस्त्रास्त्रैर्बाणसञ्चयैः ।

भूतराजो महाकायो युयुधाते परस्परम्

॥१५॥

धूर्तश्च विकटश्चैव द्वन्द्वयुद्धमकुर्वतान् ।

चपलेनं हतो रोषाच्छार्दूलो न्यपतद् भुवि

॥१६॥

पुनः संज्ञामवाप्यैनं सोऽपि खड्गेन चाहनत् ।

मूर्च्छामवाप महतीं चपलश्चपलो युधि

॥१७॥

प्रवृत्ते द्वन्द्वयुद्धे तु युयुधाते बले ह्युभे ।

जघ्नतुः शस्त्रसङ्घातैर्बाणजालैः परस्परम्

॥१८॥

सहस्व जहि मा भैस्त्वं हतः स्वर्गं समेष्यसि ।

क्षीणेषु शस्त्रबाणेषु लत्ताभिर्मुष्टिभिः पुनः

॥१९॥

ययधुः सर्वसैन्यानि नाशयन्ति परस्परम् ।

कश्चिच्च चरणौ धृत्वा पोथयामासं वैरिणम्

॥२०॥

कश्चिदुड्डीय न्यपतच्चूर्णयामास वै परम् ।

कश्चिच्चिच्छेद च शिरः कश्चिद्बाहुं रिपो रणे

॥२१॥

कश्चित्पादौ जानुनी चगुल्फौ चिच्छेद चापरः ।

शरवृष्टिं परे केचित् परस्परमवासृजन्

॥२२॥

स्रवद्रक्तः शस्त्रहतो मरणावध्ययुध्यत ।

कबन्धा युयुधुस्तत्र जघ्नुः स्वांश्च परानपि

॥२३॥

अपरे सहसा पेतुर्विदीर्णवक्षसो नराः ।

परस्पराघातहतौ मृतौ कौचिद् रणाजिरे

॥२४॥

एकाप्सरः प्राप्तिकृते स्वर्गयुद्धमकुर्वताम् ।

असृङ्नद्यभवन् तत्र केशशैवलसंयुता

॥२५॥

खड्ग मत्स्यवती खेटमहाकूर्मा दुरत्यया ।

प्रेतकाष्ठवहा घोरा चामरतृणसंयुता

॥२६॥

कञ्चुकग्राहशोभाढ्या महाकटकभेकिका ।

शूरमोदकरा भीरूमहाभयविवर्धिनी

॥२७॥

मेदोजला दुःखतरा मांसकर्दमशालिनी ।

ततोऽस्तमित आदित्ये न प्राज्ञायत किञ्चन

॥२८॥

न हन्तव्या वयं दैत्यवाहिनीचारिणः सुराः ।

न हन्तव्या वयं देववाहिनीचारिणोऽसुराः

॥२९॥

एवं कोलाहलैस्तत्र प्रायुध्यन्त परस्परम् ।

आशिषोऽथ ददुस्तत्र श्वापदा भूतराक्षसाः

॥३०॥

श‍ृगालाः पतगाः श्येनास्तृप्ता पार्वतिनन्दनम् ।

दिनत्रयमभूदेवं दिवारात्रौ महारणः

॥३१॥

वाद्यशब्दैर्जयं रात्रौ घोषयन्तः परस्परम् ।

एवं गन्धासुरोऽयुध्यत् सेनान्या बहुविस्तरम्

॥३२॥

मद्यपानेन मत्तोऽसौ त्यक्त्वा शस्त्राणि वेगवान् ।

अहनद् मुष्टिघातेन सहसा तं षडाननम्

॥३३॥

न्यपतत् स तदा भूमौ वज्राहत इवाचलः ।

अधावत् सोऽपि लब्ध्वाशु सपक्ष इव पर्वतः

॥३४॥

संज्ञां द्वादशभिर्हस्तैरविध्यत् तं महासुरम् ।

शरजालान्यनेकानि विसृजन् षड्रधनुर्वरैः

॥३५॥

निवार्य शरजालानि छादयामास तं शरैः ।

गन्धासुरो महावेगात् षडाननमनामयम्

॥३६॥

तन्निवार्य दधारैनं चरणे स षडाननः ।

अकस्माद् भ्रामयित्वैनं पातयामास भूतले

॥३७॥

तस्याङ्गं शतधा जातं गतासोर्दृढघातः ।

तस्मिन्हते तस्य सेना ययौ व्यग्रा दिशोदश

॥३८॥

पृष्ठलग्नो निन्दति स्म सेनां तां स षडाननः ।

सेनश्च क्रोधनश्चैव शतघ्नो योद्धुमाययुः

॥३९॥

येषां शब्दो महानासीद् घनानामिव गर्जताम् ।

ऊचुः षडाननं दुष्ट सेना नो निहना बहु

॥४०॥

इदानीं याहि भवनं हतो रविसुतस्य ह ।

तत आच्छादयामासुर्युगपत् ते षडाननम्

॥४१॥

ग्रामसिंहा यथा सिंह बहवो बलवत्तराः ।

षड्धनुर्मोचितैर्बाणैर्न्यहनत् तान्षडाननः

॥४२॥

ततस्ते मूर्छिताः पेतुर्मुहूर्तादुत्थिता पुनः ।

पाशं क्षिप्त्वा स्कन्दगले निन्युस्तं पशुवत्त्रयः

॥४३॥

ज्ञात्वा नीतं षण्मुखं तमाधावंस्ते त्रयो जवात् ।

हिरण्यगर्भो बलवान् श्यामलो रक्तलोचनः

॥४४॥

त्रिभिस्ते मुष्टिघातेन हताः पेतुर्धरातले ।

ततो मदनकान्तोऽपि वीरभद्रो महाबलम्

॥४५॥

न्यहनच्छस्रघातेन स मूर्छां महतीं ययौ ।

त्यक्त्वा मूर्छां वीरभद्रो दण्डघातान्न्यपातयत्

॥४६॥

मृतं मदनकान्तं तं वीरराजो महाबलः ।

ज्ञात्वा प्रायान्निहन्तुं तांस्त्रीन् सुरान्बलवत्तरान्

॥४७॥

ततस्तान् न्यहनद् रोषाच्छृङ्गाभ्यां नन्दिकेश्वरः ।

अस्रवद् रुधिरं वक्त्राच्छतधा भूतलेऽपतत्

॥४८॥

तं हतं तु विलोक्याशु चत्वारोऽसुरसत्तमाः ।

आययुर्नन्दिनं हन्तुं शार्दूलोऽथ ध्वजासुरः

॥४९॥

महाकायो धृतश्चैव सर्वदेवजितो रणे ।

नानाशस्त्रैर्निजघ्नुस्ते नन्दिनं बलवत्तरम्

॥५०॥

पतिते नन्दिनि ततश्चत्वारो युद्धदुर्मदाः ।

पुष्पदन्तो भूतराजो विकटश्चपलोऽपि च

॥५१॥

ते तु शैलान् समादाय तोलयित्वा निचिक्षिपुः ।

सर्वेषां मस्तका भिन्नाश्चूर्णीभूताश्च केचन

॥५२॥

शराघातेन ते सर्वे धरायां पतिता रणे ।

केचिच्च सिन्धुमगमन् शस्त्रघातप्रपीडिताः

॥५३॥

पराजयं स्वसैन्यानां प्राहुर्देवजयं तथा ।

जयं प्राप्ता देवसेना बहुवाद्यान्यवादयत्

॥५४॥

मयूरेश मयूरेश जय त्वं जय सर्वदा ।

इत्यब्रवीद् हर्षयुता स्वानन्देन ननर्त च

॥५५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥