एकपञ्चाशत्तमोऽध्यायः
व्यास उवाच
कथमाराधितस्तेन काशीराजेन विघ्नराट् ।
कथं च चर्मदेहेन गतः स्थानमनुत्तमम्
॥१॥एतन्मे शंस भगवन् शृण्वन्स्तृप्यामि न क्वचित् ।
क उवाच ।
सम्यक् शृणु महाबुद्धे कथां पापप्रणाशिनीम्
॥२॥कथयामि महाबुद्धे इतिहासं पुरातनम् ।
यथा निर्वासनो भूपः स्वानन्दभुवनं गतः
॥३॥महिमानं परिज्ञाय मुद्गलाज्ज्ञानसागरात् ।
कायेन मनसा वाचा गणेशे भक्तिमानभूत्
॥४॥गोदानानि महाभक्त्या गजादानान्यनेकशः ।
रथाश्वगृहधान्यानि दश दानान्यजानपि
॥५॥विनायकप्रीतये स ददात्येव दिने दिने ।
मिष्टान्नभोजनैर्विप्रांस्तोषयित्वा धनादिभिः
॥६॥गणेशदृढभक्तिं स याचते स्म दिने दिने ।
माघशुक्लचतुर्थ्यां स भौमवारे शुभे दिने
॥७॥स्नानं चक्र उषःकाले सन्ध्यां नित्यविधिं तथा ।
भूषयित्वा तथात्मानं नानालङ्करणांशुकैः
॥८॥आकार्य सकलाँल्लोकान्ब्राह्मणान्सुहृदोऽपरान् ।
पूजयामास विविधैरत्नैरंशुकसञ्चयैः
॥९॥वारंवार पश्यति स्म विमानागमनं नृपः ।
सभातो गन्तुकामाँस्तान्निषेधति मुहुर्मुहुः
॥१०॥ततो विनायको ज्ञान्वा कालं तस्य महात्मनः ।
प्रेषयामास दूताभ्यां विमानं द्युतिमत्तरम्
॥११॥गणेश उवाच
प्रमोदामोद गत्वा तु काशीराजं धरातले ।
मद्भक्तमत्रानय तं विमानवरमास्थितम्
॥१२॥क उवाच
तदाज्ञां प्राप्य तं नत्वा दिवो लाकादुभौ तदा ।
दिव्यं विमानमादाय काशीराजं समीयतुः
॥१३॥तत्तेजोधर्षिता लोका मेनिरे प्रलयानलम् ।
केचिच्च मेनिरे व्यभ्रे विद्युत्पातमिवागतम्
॥१४॥तर्कयामासुरपरे पतन्तं रविमण्डलम् ।
घण्टानां चैव तूर्याणां गन्धर्वाप्सरसां स्वनम्
॥१५॥श्रुत्वाऽन्ये जज्ञिरे यानं गणेशकृपयागतम् ।
अङ्गणे काशिराजस्य समुत्तीर्णं श्रिया लसत्
॥१६॥आगतौ राजनिकटे प्रमोदामोदसंज्ञकौ ।
गणौ दिव्याम्बरधरौ दिव्यभूषाविराजितौ
॥१७॥दिव्यमाल्यानुलेपाद्यैः दिव्यदीप्त्या स्मराविव ।
विनायकस्वरूपौ तौ नत्वा राजा निजासने
॥१८॥उपवेश्य प्रपूज्याशु यावत्पृच्छति तौ नृपः ।
तावत् तावूचतुर्दूतौ सर्वलोकेऽथ शृण्वति
॥१९॥शृणु राजन्प्रवक्ष्यामि वाक्यं वैनायकं शुभम् ।
न भक्तस्त्रिषु लोकेषु त्वत्तः प्रीतिकरो नृपः ।
त्वां ध्यायन्ति दिवारात्रं त्वद्गुणान् वदतेऽनिशम्
॥२०॥धन्योऽसि जन्मसाफल्यं कृतं पुण्यवता त्वया ।
त्वद्दर्शनात्क्षिप्रतरं नष्टं पापं तमो महत्
॥२१॥न जानीवस्तपः किं ते कृतं जन्मान्तरेषु च ।
परब्रह्मस्वरूपोऽयं बालरूपी विनायकः
॥२२॥भवतां गृहमागत्य नानालीला अदर्शयत् ।
देवस्य देवभक्तस्य महिमा नैव गोचरः
॥२३॥यतो विनायको देवस्त्वां चिन्तयति सर्वदा ।
त्वदर्थं प्रेषितं यानं दिव्यं वैभवसंयुतम्
॥२४॥न यावो दिव्यलोकं त्वां तदाज्ञावशवर्तिनौ ।
शीघ्रमानयतां काशीराजमित्याह नौ विभुः
॥२५॥शृण्वत्सु सर्वलोकेषु शुश्राव स वचस्तयोः ।
अमृताब्धौ निमग्नोऽभूदानन्दाश्रु सृजन्मुहुः
॥२६॥देहावस्थां पुनर्लब्ध्वा प्रणम्य तौ उवाच सः ।
धन्यं जन्म च पितरौ निष्ठा भक्तिश्च सम्पदा
॥२७॥यद् दुर्लभो मया दृष्टौ चरणौ वां शुभावहौ ।
विनायकस्वरूपेण प्राप्तौ नेतुं परं स्थलम्
॥२८॥इक्षुसागरमध्यस्थं दुर्दर्शं चर्मचक्षुषाम् ।
यन्निर्गुणं चिदानन्दं परं ब्रह्म सनातनम्
॥२९॥विश्वोत्पत्तिस्थितिलयहेतुभूतमगोचरम् ।
यदणुभ्योऽप्यणुतरं स्थूलात्स्थूलतरं च यत्
॥३०॥सर्वत्रगमसक्तं च साकारं गुणभोक्तृ च ।
नानारूपमरूपं च भूभारहरणोद्यतम्
॥३१॥तेन मे रङ्कभूतस्य कृपेयं महती कृता ।
इत्युक्त्वा स नमस्कृत्य सर्वानालिङ्ग्य प्रेक्ष्य च
॥३२॥दूतावूचे त्वारुहतं प्रणिपातपुरःसरम् ।
पश्चादहं समारोक्ष्ये विमानं मर्त्यदुर्लभम्
॥३३॥अमात्याभ्यां नमस्कृत्य पुत्रं दत्वा तयोः करे ।
प्रजान्ना पालनं कार्यं धर्मेण च बलेन च
॥३४॥मुद्गलेन च तत्प्रोक्तमनुभूतमिदं मया ।
इत्युक्त्वा चर्मदेहेन रुरोह यानमुत्तमम्
॥३५॥अधिष्ठितं तु दूताभ्यां पूजिताभ्यामनेकधा ।
आरुढस्य च तत्रास्य देहोऽभूद् रविसन्निभः
॥३६॥दिव्यैर्गन्धैरलङ्कारैस्ताभ्यां सम्पूजितोऽशुकैः ।
गतौ तौ वायुवेगेन दर्शयन्तौ च तौ नृपम्
॥३७॥भूतप्रेतपिशाचानां लोकं दुष्कृतकर्मणाम् ।
यत्र ते विकृताकारा ऊर्ध्वपादा अधोमुखाः
॥३८॥पृष्ठभागमुखाः केचिन्मस्तकाक्षास्तथाऽपरे ।
हृदिनेत्राः पृष्ठनेत्राः सूक्ष्मकण्ठा महोदराः
॥३९॥यथा रश्मौ जालगते भ्रमन्ति परमाणवः ।
तथा भ्रमन्ति गगनेऽनेकरूपाः सुदुःखिनः
॥४०॥कोऽयं लोको दूतवरौ ब्रूतं म इति सोऽब्रवीत्
॥४१॥इति श्रीगणेशपुराणे क्रीडाखण्डे स्वानन्दभुवननामपंस्थानं एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥