विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः
ब्रह्मोवाच
वसिष्ठ वामदेवाद्या मुनय स्तनयं तदा ।
जातं महोत्कण्ट श्रुत्वा दर्शनाय प्रतस्थिरे
॥१॥याता गृहं कश्यपस्य तेनाऽथ परिपूजिताः ।
विष्टरं पाद्यमर्घ्यं च दत्त्वा गां चापि दक्षिणाम्
॥२॥बद्धाञ्जलिपुटोऽवोचद् धन्योऽहं पितरौ तपः ।
यदिन्द्रहरिपूज्यं वः पादपद्मं मयेक्षितम्
॥३॥कञ्चिदागमने हेतुं ज्ञातुमीहे तपोधनाः ।
तेषां मध्ये श्रेष्ठतमो वसिष्ठः प्राह तं मुनिम्
॥४॥वसिष्ठ उवाच
श्रुतस्ते तनयो ब्रह्मन् नारदात् सुमहोत्कटः ।
तं दृष्टुं त्वां च सम्प्राप्ता नान्यत् किञ्चित् प्रयोजनम्
॥५॥क उवाच
तत्कालं साऽदितिर्बालं दृष्टुं तेषामथानयत् ।
उत्कटान्येष कर्माणि करिष्यति महोत्कटः
॥६॥द्वात्रिंशल्लक्षणयुतो वसिष्ठः प्राह तं मुनिम् ।
अवतीर्णो महातेजाः परमात्मा विनायकः
॥७॥अनेकान्यस्य विघ्नाति भविष्यन्ति महामुने ।
तानि सर्वाणि नश्यन्ति रक्षणीयः क्षणेक्षणे
॥८॥यतोऽस्य रक्तौ चरणौ ध्वजाङ्कुशविराजितौ ।
ततः सम्पूजयामास मुनिः कश्यपनन्दनम्
॥९॥प्रार्थयामास सर्वैस्तं भूभारहरणं कुरू ।
साधूनां पालनं देव दुष्टदानवघातनम्
॥१०॥ते सर्वे मुनयो जग्मुस्तं प्रणम्य यथागतम् ।
ततः स ख्यातिमगमन्नाम्ना कश्यपनन्दनः
॥११॥एकस्मिन्दिवसे प्रातः स्नातुं याते मुनौ बहिः ।
अस्वापयत् स्वतनयमदितिर्गृहमाययौ
॥१२॥चकार यज्ञसम्भाराँस्तावदेका निशाचरी ।
विरजेत्यभिविख्याता विकरालक्षेणानना
॥१३॥हलदन्ती दरीनासा पादचूर्णितभूधरा ।
दीर्घस्तनी ललज्जिव्हा गोपुरस्पर्द्धिसद्भगा
॥१४॥जग्राह बालकं सा तु सर्वभक्ष्या निशाचरी ।
क्षुधिताऽभक्षयच्छीघ्रं पक्वं रम्भाफलं यथा
॥१५॥शनैर्जगाम गगनं जलं पातुं भुवं ययौ ।
पपौ जलं बहुतरं पपात पृथुलोदरा
॥१६॥मूर्च्छामवाप महतीं सर्पदष्टो नरो यथा ।
लुलोल धरणी पृष्ठे महाशूलवती यथा
॥१७॥मुञ्चे मुञ्चेति जल्पन्ती पदं गन्तुमथाऽक्षमा ।
हाहाकारं प्रकुर्वती घ्नति वक्षः शिरोमुखम्
॥१८॥तावद्देहान्तरे तस्या ववृधे मुनिनन्दनः ।
विदार्य जठरं तस्या वक्षस्येव स्थितोऽभवत्
॥१९॥यथा जालं विदार्यैव बहिर्याति महाझषः ।
सा तदैवमारावं कृत्वा प्राणान्जहौ खला
॥२०॥चूर्णयामास देहेन पञ्चयोजनगान् द्रुमान् ।
विरजा विरजास्तेन प्रापिता निजधाम सा
॥२१॥दृष्टे स्पृष्टे कृपासिन्धौ जगदीशे कथं भवेत् ।
ज्ञानदे मोक्षदे नॄणामावृत्तिर्भवसागरे
॥२२॥अदितिर्गृहकार्याणि सम्पाद्य बहिरागता ।
न ददर्श तदा बालं रुरोद भृशदुःखिता
॥२३॥गृहे गृहे निरिक्ष्यैव नालभत् क्वापि बालकम् ।
ततोऽपतद्धरापृष्ठे हाहाकारं प्रकुर्वती
॥२४॥अन्याश्च रुरुदुस्तस्याः श्रुत्वा रोदनमुच्चकैः ।
आश्चर्यं परमं चक्रुः सर्वलोका भयातुराः
॥२५॥सा शुष्कवदना दीना विललाप मुहुर्मुहुः ।
मुखञ्च साञ्जने नेत्रे मृजन्त्यश्रुजलाकुले
॥२६॥कल्पद्रुम इव प्राप्तः केन नीतो ममार्भकः ।
वरदानं कथं तस्य वृथा स्याज्जगदीशितुः
॥२७॥दत्तं निधानं देवेन केन नीतं दुरात्मना ।
कथं मूढतरा जाता लब्धविज्ञानसागरा
॥२८॥कथं दरिद्रा जाताऽहं लब्ध्वा काञ्चनपर्वतम् ।
एवं विलपती वक्षो घ्नती साप्याननं शिरः
॥२९॥आश्रमाद्बहिरागच्छत् क्रोशमात्रं निशाचरीम् ।
ददर्श पतितां तस्य वक्ष्यस्येव च तं शिशुम्
॥३७॥क्रीडन्तं हास्यवदनं प्रबुद्धमिव कामिनम् ।
धावमाना तमादायाऽऽलिलिङ्ग च चुचुम्ब च
॥३१॥उवाचाऽऽनन्दपूर्णा सा महद्भाग्यं ममाऽधुना ।
यद् राक्षसीशयान्मुक्तो बालको दैवयोगतः
॥३२॥ययौ स बाला स्नात्वा सा निजमाश्रममण्डलम् ।
वृत्तान्तं सर्वमाचष्टे श्रुत्वा सोऽप्याह कश्यपः
॥३३॥भूतभावि विशेषज्ञैरुक्तं यन्मुनिभिः प्रिये ।
तदेतत् सत्यमभवत् तदाशीर्वचनादयम्
॥३४॥जीवितोऽखिलभक्ष्याया बालकः पुण्ययोगतः ।
ततो रक्षां चकाराऽसौ ददौ दानान्यनेकशः
॥३५॥शान्तिकं कारयामास स्वस्तिवाचनपूर्वकम् ।
क्षणमात्रं न हातव्योऽदितिमेव समादिशत्
॥३६॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः ॥ ७ ॥
आदितःश्लोकानां समष्ट्यड्काः - ४३५१ + ३६ = ४३८७