मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 82

3
क्रीडाखण्डः · 82

द्व्यशीतितमोऽध्यायः

क उवाच

ततः शिवगणाः शम्भुं वृत्तान्तं तन्यवेदयन् ।

आश्चर्यं परमं देवं शिवा पुत्रसमन्विता

॥१॥

जाता पुत्रावलोकार्थं ततो याहि निज स्थलम् ।

एवं गणवचः श्रुत्वा तुतोष गिरिजापतिः

॥२॥

आगत्य वीक्ष्य तं बालमद्भुतं शशिसन्निभम् ।

स्फटिकाद्रिनिभं कुन्दधवलं कज्जलोचनम्

॥३॥

आश्चर्यं परमं लेभे प्रोवाच च वचस्तदा ।

शिव उवाच ।

नायं बालोऽनादिसिद्धो जराजन्मविवर्जितः

॥४॥

लीलाविग्रहवानेष स्वप्रकाशो गुणातिगः ।

शुद्धसत्त्वमयः सर्वजीवेशो भुवनेश्वरः

॥५॥

मुनिध्येयोऽखिलाधारो ब्रह्मभूतोऽखिलप्रदः ।

क उवाच ।

एवमुक्त्वा कराभ्यां स बालमादत्त शङ्करः

॥६॥

लालयित्वा हृदि स्थाप्य सर्वहृत्स्थोऽपि यः सदा ।

पुनरूचे च गिरिजां शिवोऽशिवहरो विभुः

॥७॥

परमात्मा गुणातीतः पुत्रतां ते समागतः ।

परानुष्ठानतो देवि साक्षाद् दृष्टो विभुस्त्वया

॥८॥

क उवाच

ततो विप्रान् समाहूय पूजयित्वा गणाधिपम् ।

पुण्याहं वाचयित्वा च मातृपूजनपूर्वकम्

॥९॥

कृत्वाऽऽभ्युदयिकं श्राद्धं प्राशयित्वा घृतं मधु ।

अभिमन्त्र्य शिशुं भूमिं गिरिजा तं स्तनं ददौ

॥१०॥

गौतमादीन् पूजयित्वा ददौ दानान्यनेकशः ।

ततस्ते तदनुज्ञाता नाम प्रोचुर्महर्षयः

॥११॥

अयं ते बालतां यातोऽनादिसिद्धोऽखिलेश्वरः ।

निर्माता सर्वलोकान्ना चराचरगरोर्गुरुः

॥१२॥

मायावी वेदवेदान्ताऽगोचरो मध्यगे रवौ ।

अवतीर्णः सुमहूर्ते कीर्तिमाविष्करिष्यति

॥१३॥

भाद्रशुक्लचतुर्थ्यां तु शशिवारे च वायुभे ।

सिंहलग्ने पञ्चशुभग्रहयुक्तेऽभवत्सुतः

॥१४॥

श्रीमान् पराक्रमयुतोऽद्भुतकर्मा महाबलः ।

भविष्यति च लोकानां भक्तानामतिसौख्यदः

॥१५॥

एकादशदिने शम्भो कुरुनामास्य सुन्दरम् ।

क उवाच ।

एवमुक्त्वा गताः सर्वे मुनयो निजमन्दिरम्

॥१६॥

हरो बालं विनिक्षिप्य गिरिजाशयने शुभे ।

विसृज्य लोकानखिलान्बहिरायान्मुदान्वितः

॥१७॥

ततः शेषो ययौ तत्र फणाच्छायामथाकरोत् ।

नीरजस्का धरां चक्रुर्मेघास्तत्र सुखाववुः

॥१८॥

मारुतो मालतीगन्धो ननृतुश्चाप्सरोगणाः ।

जगुर्गन्धर्व सङ्घाश्चतुष्टुवुश्चारणा विभुम्

॥१९॥

ततो मुनिगणाःसर्वेमृन्मूर्तिञ्च कुरुत्तमाम् ।

मण्डपं शोभनं कृत्वा कदलीपुष्पमण्डितम्

॥२०॥

पुपूजुः परया भक्त्या पद्मासनगता मुदा ।

गुणेशेति गुणेशेति जेपुः सर्वे निरन्तरम्

॥२१॥

अहोरात्रोषिताः सवे रात्रौ च जागरान्विताः ।

यथाशक्ति द्विजान्भोज्य चक्रुस्ते पारणं द्विजाः

॥२२॥

एवं दशदिने विप्रान्भोजयामासुरादरात् ।

गृहे गृहे महोत्साहांश्चक्रुर्देवस्य तुष्टये

॥२३॥

एकादशे तु दिवसे सर्व मुनिगणाः शिवम् ।

आहूता आययुर्नाम कर्तुं शिवसुतस्य ह

॥२४॥

मानितास्तेन ते सम्यक् कारयामासुरुत्तमम् ।

सर्वेशत्वाद् गुणेशेति सर्वविघ्नहरं शुभम्

॥२५॥

शिवोऽपि तान्मुनीन्प्राह सम्यङनाम समीरितम् ।

सर्वारम्भेषु पूज्योऽयमिति तस्मै वरं ददौ

॥२६॥

पूजिता मुनयः सर्वे दत्त्वा दानानि सर्वशः ।

आज्ञां गृहीत्वा शम्भोस्ते स्वस्वाश्रमपदं ययुः

॥२७॥

अन्तर्गृहगता देवी पुपूजे देवताः स्वयम् ।

तदादि सा तिथिःख्याता गुणेशस्य वरप्रदा

॥२८॥

तस्यां महोत्सवः कार्यश्चतुर्थ्यां स्वशुभाप्तये ।

मृन्मयीं प्रतिमां कृत्वा पूजयेच्च यथाविधि

॥२९॥

कृत्वा मण्डपिकां चारुमुपोष्य जागृयान्निशि ।

मोदकापूपलड्डूकैः पायसैः पूजयेद्विभुम्

॥३०॥

अपरस्मिन्दिने विप्रान्भोजयेच्च यथाविधि ।

एकविंशतिसङ्ख्याकान् यथाशक्ति च दक्षिणाम्

॥३१॥

दत्त्वा तेभ्यो नमस्कृत्य पश्चाद्भोजनमाचरेत् ।

यो न पूजयते चास्यां गणेशं मृन्मयं नरः

॥३२॥

स विघ्नैरभिभूतः सन्नानारोगैः प्रपीड्यते ।

न तस्य दर्शनं कुर्यात्पतितस्येव कर्हिचित्

॥३३॥

जाते तु दर्शने तस्य गणेशं नाम संस्मरेत् ।

चतुर्थ्या महिमानं नो न शक्यं सुनिरूपितुम्

॥३४॥

कर्माणि तु गुणेशस्य यथामति निरूपये ।

गुप्तरूपाः सिन्धुदूताः शङ्करालयसंस्थिताः

॥३५॥

तमुदन्तं तु ते गत्वा प्रावदन्सिन्धवे तदा ।

समासीनाय योधैश्च बहुभिर्वेष्टिताय च

॥३६॥

स्थापयित्वाऽप्सरोनृत्यं गानं गन्धर्वसम्भवम् ।

दूता ऊच ।

दक्षिणेदण्डकारण्ये त्रिसन्ध्याक्षेत्रसंज्ञिते

॥३७॥

गत्वा तत्र दृष्टवन्तो भगवन्तं शिवाभिधम् ।

अष्टाशीतिसहस्राणां मुनीनामाश्रमान्बहून्

॥३८॥

एकस्मिन्दिवसे बालं शिवा प्रासूत षडभुजम् ।

लावण्यकोशं त्रैलोक्येऽनुपमं महसोज्ज्वलम्

॥३९॥

दशाहस्सु महोत्साहैर्गतेषु मुनिपुङ्गवाः ।

चक्रुर्नाम गुणेशेति तस्य बालस्य शङ्करः

॥४०॥

वयं वादित्रनिर्घोषैर्बधिरा इव तस्थिम ।

यदि हन्तुं गमिष्यामः सप्तकोटिगणास्तदा

॥४१॥

एकैकस्य बलं घोरं पर्वतोन्मूलनक्षमम् ।

निहन्युः सहसाऽभ्येत्य वृत्तान्तं को निवेदयेत्

॥४२॥

क उवाच

एवं वदत्सु दूतेषु शुश्रुवे व्योमवाक् तदा ।

उत्पन्नः क्वापि ते हन्ता सिन्धो सावधतां व्रज

॥४३॥

सिन्धुरुवाच

वध्यतां वध्यतां कोऽयं ब्रूते दुष्टवचोऽत्र ह ।

क उवाच ।

केचिदुड्डीय पतिता धावयित्वाऽपरे ययुः

॥४४॥

तावद्दैत्यो महामूर्छां सम्प्राप्तः पतितो भुवि ।

चिन्तामग्नो म्लानमुखो निरुत्साहो हतप्रभः

॥४५॥

उवाच विस्खलद्वाचो मुहूर्त्तात्प्राप्य चेतनाम् ।

त्रैलोक्यकण्टकस्यापि कण्टकः कः उपस्थितः

॥४६॥

कथं हन्याद्गजः सिंहं मशको वाथवारणन् ।

त्रयस्त्रिंशत्कोटिदेवा निर्जिताः क्षणमात्रतः

॥४७॥

तस्यमे मरणं कस्माज्जायेत व्योमवाङमृषा ।

ऋताऽस्तु वा गमिष्यामि भक्षितुं तमहं रिपुम

॥४८॥

एवमुक्त्वा क्षणार्द्धात्स भद्रासनगतोऽभवत् ।

सर्वे वीरास्ततो याताः श्रुत्वा वार्तां तथाविधाम्

॥४९॥

त्वमेव मृत्योर्मृत्युश्च तव मृत्युः कथं भवेत् ।

इत्यूचुस्ते भवेद्वापि तं वयं घातयामहे

॥५०॥

स्वर्गे भूमौ तले वापि गगने वा वसेद् यदि ।

देह्याज्ञां नो गमिष्यामो दैत्यास्तानब्रवीदथ

॥५१॥

सखीनां सेवकानां च पीत्वा वाक्यामृतं परम् ।

प्रीतोऽहं यान्तु शीघ्रं तु यत्र मे स रिपुर्भवेत्

॥५२॥

अनेकमायया हत्वा रिपुं मम निवेद्यताम् ।

क उवाच ।

एवमाज्ञां गृहीत्वा ते सङ्ख्यातीता ययुस्ततः

॥५३॥

त्रिसन्ध्याक्षेत्रमासाद्य गुप्तरूपेण चावसन् ।

गौरीसुतं तत्र कुत्र मायया हन्म इत्युत

॥५४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे गुणेशनामकरणं नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥