एकोनविंशोत्तरशततमोऽध्यायः
क उवाच
कलं च विकलं श्यालं देवसेनाविघातिनम् ।
निहतं वीरभद्रेण पर्वतेन महासुरम्
॥१॥षडाननेन विकलं हतं तलप्रहारतः ।
श्रुत्वा भद्रासनगतो नानावीरसमन्वितः
॥२॥प्राप सिन्धुर्महाचिन्तां स्मरंन् शिवसुतं तदा ।
किं करिष्यति देवोऽसौ नाशमित्थं सुरद्विषाम्
॥३॥इत्येवं चितयाविष्टो मूर्च्छामाप महत्तराम् ।
तावदाजग्मतुरुभौ पुत्रावस्य महाबलौ
॥४॥धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहतुः ।
कथं बिभेषि जनक शिवाया अर्भकाल्लघोः
॥५॥नावाज्ञां देहि दैत्येन्द्र हनिष्यावः क्षणादमुम् ।
सम्मुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ
॥६॥उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महत्तराम् ।
हत्वाऽनेकविधां सेनां नानावीरैः प्रपालिताम्
॥७॥आवामपि प्रयुध्यावो यावो हत्वा रिपुं बलात् ।
अथवा मोक्षमायावो निहतौ तेन चेद् रणे
॥८॥यावदावां हि जीवावश्चिन्तां तावच्च मा कुरू ।
इन्द्रादय सुरगणाः कारागारेऽधुना तव
॥९॥यदा त्वं विजिताः पूर्वं पितरस्तत्र केऽभवन् ।
आनयाव मस्तकं तस्य रिपोस्तव न संशयः
॥१०॥अन्यथा दर्शयिष्यावो मुखं लोकेषु न क्वचित् ।
क उवाच ।
एवं तयोः समाकर्ण्य वचनं हर्षमाप्तवान्
॥११॥तावूचे परमं युद्धं प्राप्नुतं यश उत्तमम् ।
नाशयित्वा रिपुं घोरं यातं शीघ्रं ममान्तिकम्
॥१२॥एवमाकर्ण्य तद्वाक्यमीयतुर्युद्धलालसौ ।
नमस्कृत्य पितुः पादौ मातुर्गृह्य तदाशिषः
॥१३॥दशकोटिमिता सेनां प्रत्येकं गृह्य सत्वरौ ।
रथाश्वहस्तिपादातैर्नानाशस्त्रधरैर्युताम्
॥१४॥पत्तयोऽपि ययुर्हृष्टाः सिन्दूरारूणमस्तकाः ।
गजा नानागिरिनिभा नानाधातुध्वजान्विताः
॥१५॥अश्वाः सादिभिरारूढा नानाशस्त्रासिपाणिभिः ।
गर्जद्भिर्मेघसदृश गर्जयद्भिर्दिशोदश
॥१६॥ततः सेनामध्यगतौ रेजतुर्भ्रातरावुभौ ।
नानालङ्कार संयुक्तौ नानायुधधरावुभौ
॥१७॥रत्नकाञ्चनसंयुक्तकुण्डलाभ्यां विराजितौ ।
किरीटाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ
॥१८॥मुक्तामणि मयौ हारौ बिभ्रन्तौ युद्धदुर्मदौ ।
प्रापतू रणभूमिं तौ नानावादित्रनिस्वनैः
॥१९॥ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि ।
निकटे तौ समालोक्य मयूरेशप्रचोदिताः
॥२०॥आज्ञयाऽभिययुर्वीरभद्रोऽसौ च षडाननः ।
हिरण्यगर्भः सङ्क्रुद्धो भूतराजो विशालदृक्
॥२१॥असङ्ख्यसेनया सार्द्धं ततो युद्धमवर्त्तत ।
परस्परमयुध्यन्त ततः सेनाचरा भृशम्
॥२२॥घ्नन्तः शिरांसि पादांश्च बाहूरूदरकन्दराः ।
निहताश्च निहन्यन्ते तमसाच्छादिते रवौ
॥२३॥केचिच्चक्राणि मुमुचुर्भिण्डिपालांस्तथाऽपरे ।
बाणवृष्टिं परे चापि नानाशस्त्राणि केचन
॥२४॥मल्लयुद्धं च तत्रासीत् सैनिकानां परस्परम् ।
एवं सा संहृता सेना मयूरेशप्रपालिता
॥२५॥पपाल तत्र शेषा या विव्हला तु दिशो दश ।
ततः षडाननः क्रुद्धो द्वादशायुधभूषितः
॥२६॥तैरायुधैर्जघानाशु सेनां तां दैत्यपालिताम् ।
केषाच्चिद्बाहवो भिन्नाः केऽपि मध्ये द्विधाकृताः
॥२७॥केषाचिन्मस्तका भिन्नाः केषाचिच्च रणाङ्गणे ।
एवं सा नाशिता सेना हस्त्यश्वरथसङ्कुला
॥२८॥केऽपि स्वर्गं गताः केचिद् रूपं प्रापुः षडाननम् ।
निरीक्ष्य ये मयूरेशं जहुः प्राणान् प्रहारिताः
॥२९॥जग्मुस्ते तत्प्रसादेन निजधाम महाबलाः ।
तद् दृष्टिपातात् तदघं नष्टं सर्वं जनुःकृतम्
॥३०॥दृष्ट्वा विशाखविशिखैः सशिखैर्निहतां स्वकाम् ।
सेनां तस्य सुतौ वीरावधर्मो धर्म एव च
॥३१॥युयधाते बहुविधं शस्त्रैरस्त्रैः शरव्रजैः ।
चक्रतुर्मल्लयुद्धं तौ महासेनेन तत्क्षणात्
॥३२॥तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः ।
शिखयोस्तौ दधाराशु षड्बाहुः षट्करैर्बलात्
॥३३॥भ्रामयामास बहुधा पोथयामास भूतले ।
शतखण्डानि जातानि तयोस्तु पततोर्भुवि
॥३४॥जयं प्राप्ते शिवसुते नेदुर्वाद्यानि सर्वशः ।
जय त्वं हि मयूरेश जगुः सर्वेऽपि सैनिकाः
॥३५॥चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् ।
आलिलिङ्गुर्मुदा ते तु परस्परमथाऽब्रुवन्
॥३६॥प्राप्ता इव पुनर्जन्म मुमुदुस्ते परस्परम् ।
शशंसुः सर्व सर्ववृत्तान्तं शिवायै च शिवाय च
॥३७॥सेनां च निहतां सिन्धोः पुत्रौ च बलवत्तरौ
॥३८॥इति श्रीगणेशपुराणे क्रीडाखण्डे धर्माधर्मवधो नामैकोनविंशोत्तरशततमोऽध्यायः ॥ ११९ ॥