मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 122

3
क्रीडाखण्डः · 122

द्वाविंशोत्तरशततमोऽध्यायः

क उवाच

सिंहासनस्थे देवेश मयूरेशे गणैर्वृते ।

गौतमाद्या मुनिगणाः प्रशशंसुर्गुणेश्वरम्

॥१॥

ऋषय ऊचुः

येन शक्रो जितः सङ्ख्ये नागैः शेषो धरातले ।

तस्य का गणनान्येषां सोऽपि युद्धे जितस्त्वया

॥२॥

रक्षिता बहवस्तस्मात् सिन्धोर्दुष्टात्सुरेश्वर ।

गणानां सर्वलोकानामन्यथा जीवनं कथम्

॥३॥

क उवाच

इत्थं तेषु वदत्स्वेव तत्कीर्तिं गिरिजऽऽययौ ।

आलिङ्ग्य प्राह पुत्रं सा श्रान्तोऽसि युद्धलालसः

॥४॥

ततः शीघ्रं समायातो भर्गो देवं स सस्वजे ।

उवाचेन्द्रादिभिर्देवैरसाध्यं कृतवानसि

॥५॥

परब्रह्मस्वरूपस्य चराचरगुरोरपि ।

सर्वज्ञस्य धराभारोद्धरणे निरतस्य ते

॥६॥

महिमानं स्वरूपाणि ब्रह्माद्या न विदुः सुराः ।

गौतमाद्याश्च मुनयः शक्तिः का तत्र नो भवेत्

॥७॥

क उवाच

इत्थं वदति देवेशे शिवेऽथ पार्वतीं जगौ ।

नारदो मुनिवर्योऽसौ मातः श‍ृणु वचो मम

॥८॥

बहवो वासरा जाता अत्र स्थाने कदा शिवे ।

मोक्षमेष्यति दैत्योऽसौ सिन्धुर्दुष्टतमोऽनघे

॥९॥

कदा विवाहो भविता मयूरेशस्य सुव्रते ।

वासवाद्या जिता येन नाशं स कथमेष्यति

॥१०॥

आज्ञां देहि गमिष्यामः पुनरेष्याम सत्वरम् ।

कदा स्युः सिन्धुदैत्यात्ते देवाश्च मुक्तबन्धनाः

॥११॥

दैत्यस्य मरणं मातरसाध्यं दृश्यते मया ।

क उवाच ।

सुरर्षेर्वाक्यमाकर्ण्य प्रोचुस्तं ते गणास्तदा

॥१२॥

षडाननादयो वीरा नारदं देवदर्शनम् ।

उद्दीपयन्तं तं देवं मयूरेशं सुरेश्वरम्

॥१३॥

आश्चर्यं नारदमुने सर्वज्ञस्यापि तेऽनघ ।

एतदर्थं समायातो निजधाम्नो भुवं विभुः

॥१४॥

अवाप्तसकलार्थोऽसौ मयूरेशोऽखिलार्थकृत् ।

अगुणस्य गुणेशस्य गुणक्षोभविधायिनः

॥१५॥

स्वरूपं किं न जानासि ब्रह्माद्यैरनिरूपितम् ।

मयूरेशस्य वीर्यं च भूभारोत्तारणैषिणः

॥१६॥

इन्द्राद्यवध्यानसुरन्निघ्नतो बलशालिनः ।

अनन्तकोटिब्रह्माण्डनायकस्याखिलात्मनः

॥१७॥

उत्पत्तिस्थितिसंहारकारिणो जगतामपि ।

क उवाच ।

इति तद्भारती श्रुत्वा पुनः प्रोवाच नारदः

॥१८॥

यदा द्रक्ष्यामि तं दैत्यं निहतं मुक्तिमागतम् ।

तदा सर्वं वचः सत्यं मन्येऽहं नान्यथा क्वचित्

॥१९॥

निशम्यत्थं वचस्तस्य चुक्रोध स मयूरराट् ।

जगर्ज क्रोधदीप्तोऽसौ नादयन्भुवनत्रयम्

॥२०॥

दहन्निव त्रिलोकीं स शीर्णयन् पृथिवीमपि ।

मेघगम्भीरया वाचा बभाण तं मुनिं तदा

॥२१॥

मयूरेश उवाच

मान्योऽसि ब्रह्मपुत्रत्वात् सर्वज्ञत्वान्मुनीश्वर ।

अतस्त्वां प्रब्रवीम्यद्य मर्यादां परिपालयन्

॥२२॥

तव प्रसादात् ब्रह्माण्डं प्राशयिष्येऽन्तकं क्षणात् ।

भूगोलं न्युब्जतां नेष्ये शोषयिष्येऽम्बुधीनपि

॥२३॥

चालयिष्ये तथा मेरुं मुने निश्वासवायुना ।

श‍ृणु नारद सत्यां मे प्रतिज्ञामद्य सर्वग

॥२४॥

हनिष्ये सिन्धुदैत्यं तं नात्र कार्या विचारणा ।

क उवाच ।

इत्युक्त्वा प्रययौ योद्धुं बर्ह्यारुढो विनायकः

॥२५॥

आहतुस्तं तदा नन्दी भृङ्गी चौभौ विनायकम् ।

आवां युद्धं करिष्यावो पश्य नौ रणकौशलम्

॥२६॥

इत्युक्त्वा वायुवेगेन गतौ तौ गण्डकीं पुरीम् ।

वीरभद्रो भूतराजो ययौ श्रुत्वा तयोर्गतिम्

॥२७॥

तदा च कम्पे धरणी शेषो विव्हलतां ययौ ।

ददृशुस्ते च चत्वारो दुर्गं दुर्गं सुरेश्वरैः

॥२८॥

पर्यङ्के सुखमासीनं सिन्धुं चारा न्यवेदयन् ।

चत्वारः पर्वताकारा गर्जयन्तो दिशो नभः

॥२९॥

वीरास्तव पुरीं याताः किं स्थितोऽसि महासुर ।

श्रुत्वेत्थं वचनं सिन्धुर्मग्नश्चिन्तार्णवे क्षणात् ।

दुर्गापि चिन्तयाविष्टा सा सोऽपि श्यामतामियात्

॥३०॥

अधोमुखतया चोभौ दुःखं प्रापतुरञ्जसा ।

दुर्गा प्रोचे महाराज मयोक्तं न कृतं त्वया

॥३१॥

तस्येदं हि फलं प्राप्तमिदानीं किं नु चिन्तया ।

एवं वदति सा वाक्यं तावत्ते वीरसत्तमाः

॥३२॥

नानाश्चर्ययुतं नानारत्नकाञ्चननिर्मितम् ।

अनेक शिखरं तस्य सभामण्डपमाययुः

॥३३॥

उडीय सहसा भृङ्गी तस्थौ क्रुद्धस्तु मण्डपे ।

बभञ्ज मण्डपं सद्यः स बलेन महाबलः

॥३४॥

अङ्गणे तस्य खण्डानि पतितानि समन्ततः ।

तत्तस्त्रयोऽपि ते वीरा भृङ्गिनं समुपागताः

॥३५॥

युद्धावेशारुणमुखाः ससैन्यं तं ग्रसिष्णवः ।

दृष्ट्वा तत्कर्म तेषां तु सिन्धुसेना ययौ पुरः

॥३६॥

खड्गचर्मधनुर्बाणकुन्तमुद्गरधारिणी ।

घ्नन्तु घ्नन्तु महावेगांश्चतुरो वीरपुङ्गवान्

॥३७॥

इत्युक्त्वा चतुरो हन्तुमागता दैत्यसैनिकाः ।

असङ्ख्याताश्चतुर्भिस्तैर्युयुधुर्जातसम्भ्रमाः

॥३८॥

हन्मि त्वां जहि मह्यं चेत्यत्र कोलाहलोऽभवत् ।

ततोऽभूत्तुमुलं युद्धं चतुर्भिदैत्यसेनया

॥३९॥

रजोऽन्धकारे शस्त्रांणां प्रकाशनावलोकयन् ।

शतकोटि हता दैत्याश्चतुर्भिः संयुगे तदा

॥४०॥

असङ्ख्यातान् महावीरान् पोथयामासुरोजसा ।

गृहीत्वा पादयोस्ते तान् भ्रामयित्वा पुनः पुनः

॥४१॥

नभोऽक्षिपन्महावीरास्ते भूमौ शतधाऽपतन् ।

शरैरस्त्रैश्च शस्त्रैश्च पादेन करघाततः

॥४२॥

नाशिता सर्वसेना सा दैतेयी रणमण्डले ।

ततस्ते तद्गृहं गत्वा सिन्धुं पर्यङ्कसंस्थितम्

॥४३॥

रणस्तम्भं समानिन्युर्धृत्वा केशेषु वेगतः ।

ततः सिन्धुर्महास्त्रैः स चक्रे युद्धं तु तैः सह

॥४४॥

व्यसृजत् पन्नगास्त्रं स भुजगैर्वेष्टितास्त्रयः ।

गरुडास्त्रं च सहसा भृङ्गिणाऽमोचि तत्क्षणात्

॥४५॥

अग्न्यस्त्रे मोचिते तेन पर्जन्यास्त्रं च सोऽसृजत् ।

वाय्वस्त्रे मोचिते तेन पर्वतास्त्रं च तेऽसृजन्

॥४६॥

ततस्ते मल्लयुद्धेन योधयामासुरादरात् ।

नन्दी तु पातयामास मुकुटं दैत्यमस्तकात्

॥४७॥

भृङ्गी तु ताडयामास पृष्ठे दैत्यं महारुषा ।

वीरभद्रोऽग्रहीद् भार्यां कचे तस्याथ पश्यतः

॥४८॥

भूतराजो जघानैनं लत्तया वैरभावतः ।

दुर्गा नेत्रे निमील्यैव नापश्यत्तं तथाविधम्

॥४९॥

निन्दन्ती तस्य कर्माणि पपाल निजमन्दिरम् ।

आवेशात्सिन्धुदैत्योऽपि वीरभद्रं पदेऽग्रहीत्

॥५०॥

मुष्टिना नन्दिनं हत्वा शिखामाक्रम्य भृङ्गिणः ।

अपातयद् भूमितले भूतराजो मुमूर्छ ह

॥५१॥

मुकुटं मस्तकेन्यस्य मुक्ताहारं गले तथा ।

तुरङ्गवरमारुह्य शेषानाहूय सैनिकान्

॥५२॥

हनिष्येऽद्य मयूरेशमित्युक्त्वा युयुधे पुनः ।

जगर्ज सहसा दैत्यो गर्जयन्विदिशो दिशः

॥५३॥

गतेषु तेषु वीरेषु चतुर्षु गणनायकम् ।

वदत्सु दैत्यसेनायां सर्वेषां नाशनं कृतम्

॥५४॥

आनीतः सिन्धुदैत्योऽपि रणभूमिं गणेश्वर ।

अल्पसेनाचरैर्युक्तं मोचयैनं भवार्णवात्

॥५५॥

वयमेव हनिष्यामो नाज्ञासीत् तव विघ्नराट्

॥५६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं नाम द्वाविंशोत्तरशततमोऽध्यायः ॥ १२२ ॥