मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 85

3
क्रीडाखण्डः · 85

गणेशकवचं नाम पञ्चाशीतितमोऽध्याययः

क उवाच

श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलम् ।

पञ्चमे मासि सम्प्राप्ते मरीचिर्वीक्षितुं ययौ

॥१॥

भूतभव्यभविष्यज्ञः समलोष्ठाश्मकाञ्चनः ।

वेदशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः

॥२॥

संहारे रक्षणे सृष्टौ मनसा जगतः क्षमः ।

तं दृष्ट्वा पादयोस्तस्य पतिता सखिभिः सह

॥३॥

उपवेश्यासने पादौ क्षालयामास भक्तितः ।

तज्जलं पावनं पीत्वा सिषेचान्तर्गृहं मुदा

॥४॥

उपचारैः षोडशभिः पुपूजेश्वरभावना ।

उवाच पार्वती तुष्टाऽलभ्यं दृष्टं पदं हि ते

॥५॥

मुनिरुवाच

अहमात्ममना देवि न व्रजामि हि कुत्रचित् ।

अकस्माद्ध्यानविषयस्तव पुत्रो बभूव मे

॥६॥

तस्य ते दर्शनाकाङ्क्षी शिवस्याप्यहमागतः ।

क उवाच ।

एवमाकर्ण्य सा वाक्यं तस्यर्षेस्तनयं स्वकम्

॥७॥

अतिप्रीतिमना गौरी तस्याङ्के संन्यवेशत् ।

ऊचे सा तं महाभाग्यं फलितं दर्शनात्तव

॥८॥

पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति ।

मुनिरुवाच ।

गौरि तेऽयं सुतो ब्रह्मस्वरूपो भासते मम

॥९॥

षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।

वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः

॥१०॥

गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।

यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम्

॥११॥

अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।

चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत्

॥१२॥

युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।

द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः

॥१३॥

मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।

तृतीये तु युगे देवो रक्तवर्णश्वतुर्भुजः

॥१४॥

गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।

धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा

॥१५॥

एतस्य रक्षणं गौरि दैत्येभ्यः कुरु सर्वदा ।

गौर्युवाच ।

एषोऽतिचपलो बालो दैत्यान् हन्ति बहूनपि

॥१६॥

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ।

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।

अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि

॥१७॥

मुनिरुवाच

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेत्रायां तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् ।

द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा

॥१८॥

विनायकः शिखां पातु परमात्मा परात्परः ।

अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः

॥१९॥

ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः ।

नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ

॥२०॥

जिव्हां पातु गणक्रीडश्चुबुकं गिरिजासुतः ।

वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः

॥२१॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।

गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः

॥२२॥

स्कन्धौ पातु गजस्कन्धः स्तनो विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरम्बो जठरं महान

॥२३॥

धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः ।

लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः

॥२४॥

गणक्रीडो जानुजङ्घा ऊरूमण्डलमूर्तिमान् ।

(जानुजङ्घे ऊरूमङ्गलमूर्तिमान्) एकदन्तो महाबुद्धिः पादौ गुल्फो सदाऽवतु

॥२५॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।

अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः

॥२६॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।

अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु

॥२७॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः

॥२८॥

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।

प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः

॥२९॥

कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः ।

दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्

॥३०॥

राक्षसासुरवेतालग्रहभूतपिशाचतः ।

पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम्

॥३१॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् ।

वपुर्धनं च धान्यं च गृहं दारान् सुतान्सखीन्

॥३२॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।

कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु

॥३३॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।

न भयं जायते तस्य यक्षरक्षः पिशाचतः

॥३४॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।

यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत्

॥३५॥

युद्धकालेपठेद्यस्तु विजयं प्राप्नुयाद्ध्रुवम् ।

मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि

॥३६॥

सप्तवारं पठेद् यस्तु दिननामेकविंशतिम् ।

तत्तत्फलमवाप्नोति साधको नात्र संशयः

॥३७॥

एकविंशतिवारं च पठेत् तावद्दिनानि यः ।

कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत्

॥३८॥

राजदर्शनवेलायां पठेद्यस्तु त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत्

॥३९॥

इदं गणेशकवचं मुद्गलेन समीरितम् ।

कश्यपाय च तेनाऽथ माण्डव्याय महर्षये

॥४०॥

सर्वरक्षाकरं सर्वकाम प्रपूरकम् ॥

मुद्गलायचते नाथ माण्डव्यायमहर्षये

॥४०॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।

न देयं भक्तिहीनाय देयं श्रद्धावते शुभम्

॥४१॥

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।

राक्षसासुरवेतालदैत्यदानवसम्भवा

॥४२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशकवचं नाम पञ्चाशीतितमोऽध्याययः ॥ ८५ ॥