बालचरित्रे चतुर्दशोऽध्यायः
क उवाच
ततः प्रभात उत्थाय शौचं कृत्वा यथाविधि ।
चकार मज्जनं सोऽथ सन्ध्यां चक्रे यथाविधि
॥१॥होमं चकार समिधं स्थाप्य कृष्णाजिनं शुभम् ।
निधाय दण्डं चिक्रीड बालकैः स विनायकः
॥२॥निशम्य कीर्तिं तत्रत्यो ब्राह्मणो वेदशास्त्रवित् ।
धर्मदत्त इति ख्यातो मनिपुत्रदिदृक्षया
॥३॥आगतो नृपवर्यस्य काशिराजस्य वेश्म सः ।
राज्ञा सम्मानितः सोऽथ प्रपच्छ नृपसत्तमम्
॥४॥क्वासौ महाबलः पुत्र कश्यपस्य वदस्व मे ।
ततो लोका जगुरयं क्रीडते बालकैः सह
॥५॥तत उत्थाय विप्रोऽसौ पाणौ धृत्वाऽवदच्च तम् ।
मम मित्र सुतस्त्वं हि श्रुता कीर्तिर्मया तव
॥६॥अतस्त्वां स्वगृहे नेतुमागतोऽहं न संशयः ।
पुनीहि पादरजसा सर्व नः सफलीकुरू
॥७॥परब्रह्मस्वरूपोऽसि परमात्मा परात्परः ।
भूभारहरणार्थाय जातोऽसि कश्यपालये
॥८॥क्रीडामानुषरूपोऽसि जाने त्वां तत्त्वतोऽर्भक ।
ततो विनायकः प्राह किमर्थं त्वमिहागतः
॥९॥आज्ञामात्रेण ते तात कथं नायामि तेऽन्तिकम् ।
इत्युक्त्वा त्वरया यायाद् धर्मदत्तपुरः सरः
॥१०॥धूलिमुद्धूलयद्भिस्तैर्बालकैरनुगैर्बली ।
मार्गे तु गच्छतस्तस्य नरान्तक समीरितौ
॥१॥कामसंज्ञश्च क्रोधश्च द्वावेतौ राक्षसाधमौ ।
परस्परं युध्यमानौ हन्तुमन्तिकमागतौ
॥१२॥युध्यमानौ निपतितौ बालके दुष्टमानसौ ।
खररूपौ यथा वह्नि पतङ्गाविव दुर्मदौ
॥१३॥ततस्ते बालकाः सर्वे दुद्रुवुस्ते दिशो दश ।
ततो विनायको धृत्वा तयोः पादौ बलेन सः
॥१४॥भ्रामयामास बहुधा पोथयामास भूतले ।
ततस्तौ पतितौ भूमौ व्यसू लोका व्यलोकयन्
॥१५॥समकम्पत् त्रिभुवनं पतद्देहरवात् तदा ।
लोकवार्तासु विश्वासं धर्मदत्तोऽन्वपद्यत
॥१६॥दृष्ट्वा तस्य महत्कर्म प्रत्यक्षेण महामुनिः ।
ततो ययौ धर्मदत्तस्तेन साकं पुरःसरः
॥१७॥ददर्श कुञ्जरं मत्तं गूढरूपं महाबलम् ।
इतस्ततो विद्रवन्तं जनं हन्तुं समुद्यतम्
॥१८॥इतस्ततो महावीराः पलायनपरा ययुः ।
कोलाहलो महानासीज्जनानां तत्र धावताम्
॥१९॥रजसाऽव्यापि सकलं नीहारेणेव पर्वताः ।
गजो यातो राजगजान् मत्तान् हन्तुं महाबलः
॥२०॥गजयुद्धं महाघोरं प्रासादस्था व्यलोकयन् ।
बभञ्जुरश्वशालां ते दृष्ट्वा बद्धान् हयानपि
॥२१॥उद्बन्धना हया याता गजाश्च ककुभो दश ।
धर्मदत्तो गृहीत्वा तं गृहान्तर्गन्तुमुद्यतः
॥२२॥आस्फाल्य तत्करं बालो रुरोह करिणं बलात् ।
बिभेद गण्डं सृणिना वारं वारं विनायकः
॥२३॥असृक्प्रवाह परितो निपपात महीतले ।
स गजो बृंहितं कृत्वा सर्वलोकभयावहम्
॥२४॥पतता तेन भग्नानि विस्तीर्णेनायतेन च ।
सङ्ख्यातीतान्यगाराणि सर्वोपस्करवन्ति च
॥२५॥च कम्पे पृथिवी सर्वा सपर्वतवनाकरा ।
ततोऽन्धकारे विगते तत्रेयुर्नागराजनाः
॥२६॥भीतभीता महारौद्रे मृते तस्मिन् निरीक्ष्य तम् ।
बालं तु बलिनो गत्वा तस्मादुत्तारयन्बलात्
॥२७॥धर्मदत्तः पुनश्चैनं कटावेवाऽभ्यधारयत् ।
गृहमध्ये निनायाशु पुनरुत्पातशङ्कया
॥२८॥निवृत्ते स्वनिमित्ते स द्विजातिभ्यो ददौ धनम् ।
पूजयामास चैवैनमुपचारैः पृथक्पृथक्
॥२९॥वस्त्रालङ्कारकुसुमैर्नानानैवेद्य सञ्चयैः ।
भोजयामास विधिवत् सिद्धिबुद्धि उभे ददौ
॥३०॥दक्षिणार्थं धर्मदत्तो ननाम दण्डवत् क्षितौ ।
उवाच च प्रसन्नात्मा हर्षगद्गदया गिरा
॥३॥मम भाग्यं तु फलितं यद्दृष्टं चरणाम्बुजम् ।
जगदीशो जगत्कर्ता जगत्साक्षीजगद्गुरूः
॥३२॥मम वाक्यादिहायात उद्धर्तुं मम पूर्वजान् ।
एवं ब्रुवन्नेव मुनिः स्वासने सन्निवेशितः
॥३३॥विनायकेन देवेन पूजितो बहुभक्तितः ।
ततोऽतिशुशुभे बालः सिद्धिबुद्धियुतो भृशम्
॥३४॥गङ्गागौरियुतो यद्वच्छूलपाणिस्त्रिलोचनः ।
एतस्मिन्नन्तरे तत्र जृम्भानाम्न्यागताऽशुभा
॥३५॥पीताम्बरधरा चारूकङ्कणा चारूभूषणा ।
अतिदुष्टमनाः सा तु पत्नी धूम्राक्षरक्षसः
॥३६॥सोवाच मधुरां वाचं निधानमिदमुत्तमम् ।
इत्यरिष्टानि जायन्ते तानि नश्यन्तयत्नतः
॥३७॥कथं चारू भवेद् भोगो मातापित्रोरमुष्य वै ।
एवमुक्त्वा स्त्रियः सर्वा उवाच च विनायकम्
॥३८॥महद्भाग्यं मम विभो यज्जातं तव दर्शनम् ।
परिश्रान्तोऽसि देवेश नानादुष्ट विनाशनात्
॥३९॥अभ्यङ्गं कुरू तैलेन सुगन्धेन महामते ।
अङ्गं ते मर्दयिष्यामि तैलमुद्वर्तनं तथा
॥४०॥ओमित्युक्ते ततस्तेन विषहस्ता समादधे ।
तैलेन चरणौ तस्य विषोत्कर्षविधायिना
॥४१॥ममदं जृम्भती जृम्भा लोकास्तां साधु मेनिरे ।
सा सिषेवे भावदुष्टाऽशुभभावा पतिं यथा
॥४२॥ततस्तस्य शरीरस्य दाह एवा भवन्महान् ।
ततो ज्ञानेन बुद्धवा तां दुष्टभावां निशाचरीम्
॥४३॥नारिकेलफलेनाशु मस्तके तां जघान सः ।
ततः सा पतिता भूमौ निजरूपं समास्थिता
॥४४॥असृक् प्रवाहमध्ये सा विस्तीर्णा योजनद्वयम् ।
धर्मदत्तश्च लोकाश्च तदाश्चर्ययता बभुः
॥४५॥पूजयामास विधिवद्भोजयामास तं पुनः ।
पक्वान्नं विविधं स्वादुरसैः षड्रभिः समन्वितम्
॥४६॥अस्मिन्नवसरे देवाः पुष्पवर्षं प्रचक्रिरे ।
नीराजनं लाजवर्षमङ्गनाः पूजनानि च
॥४७॥ततः स काशिराजस्तमाकारयितुमागमत् ।
रथोपरि निवेश्यैनं वाद्यघोषसमन्वितः
॥४८॥गन्धर्वा गानसहिता नृत्यन्त्यप्सरसः पुरः ।
निनाय स्वगृहं राजा विनायकमनामयम्
॥४९॥गच्छन् स ददृशे बालः सिंहारूढो धृतायुधः ।
अनेकवीरसंयुक्तो देवैरिव शतक्रतुः
॥५०॥सिद्धिबुद्धियुतो भाति गङ्गोमाभ्यां यथा शिवः ।
नानाबन्दिस्तूयमानः प्रविवेश नृपालयम्
॥५१॥एवं बालचरित्रं यः शृणुयाज्जगदीशितुः ।
सर्वान् कामानवाप्नोति नारिभिर्बाध्यते क्वचित्
॥५२॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरित्रे जृम्भावधो नाम चतुर्दशोऽध्यायः ॥ १४ ॥