सिन्धुवैरुप्यकरणं नाम पञ्चदशाधिकशततमोऽध्यायः
क उवाच
श्रुत्वा सेनाजयं दैत्यौ ययौ चिन्तां महत्तराम् ।
अत्यन्तम्लानवदनो निमग्नो दुःखसागरे
॥१॥मनसा परितप्तेन चिन्तयामास दैत्यराट् ।
सिन्धुरुवाच ।
विपरीतमिदं कस्माज्जातं न ज्ञायते मया
॥२॥पिपीलिका ग्रसेत् किं नु ब्रह्माण्डं लोकसङ्कुलम् ।
यस्याग्रे मशका देवा आसन्निन्द्रादयो मम
॥३॥शिवार्भकेन तस्याद्य कथं सेना विनिर्जिता ।
क उवाच ।
इत्युक्त्वा हयमारुह्य धनुर्बाणासिचर्मभृत्
॥४॥अहत्वा तं मयूरेशं दर्शयिष्ये मुखं न च ।
इत्युक्त्वाऽभिययौ सिन्धू रणभूमौ पतङ्गवत्
॥५॥सज्जं चकार च धनुर्नादयन् गगनं दिशः ।
व्यसृजद् बाणजालानि तीक्ष्णान्यग्निमुखानि सः
॥६॥च कम्पे पृथिवी सर्वा मूर्छिता जन्तवोऽखिलाः ।
प्राक्षिपद् देवसेनायामसङ्ख्याताँश्च पत्रिणः
॥७॥छिन्ना भिन्नाः सुराः पेतुस्तच्छस्राघातपीडिताः ।
पलायन्तः सुराः पेतुस्तेऽपि पृष्ठे शरैर्हताः
॥८॥ततः सर्वा मयूरेशवाहिनी व्यग्रतामियात् ।
द्विधाभूता जानुपादाः केषाञ्चिन्मस्तका अपि
॥९॥शरवृष्टया सिन्धुहस्तमुक्तया रणमूर्धनि ।
अभवत् तुमुलं युद्धमनिवार्यं भयावहम्
॥१०॥सिन्धोश्चैव गणेशस्य सेनयोरुभयोरपि ।
कोलाहले महाघोरे ध्वान्ते गाढे रजःकृते
॥११॥पुरोगान् जघ्निरे सर्वे परान् स्वानपि ते तदा ।
शस्त्राघातैर्हता सेना देवसेनाचरैः परा
॥१२॥ततः सिन्धुर्हयात् तस्मादवरुह्य पदेऽग्रहीत् ।
पातयामास सहसा वीरभद्रं च वेगतः
॥१३॥अहनन्मस्तके सोऽथ नन्दिनं बलवत्तरम् ।
भूतराजं च खड्गेन मारयन्सहसाकटौ
॥१४॥पुष्पदन्तस्योदरं च बिभेद बलवत्तरम् ।
शिखामाक्रम्य प्राकर्षद्धिरण्यगर्भमोजसा
॥१५॥श्यामलस्य ललाटं स बिभेद शरघाततः ।
चपलस्य हनू रोषाज्जघान विकटं रणे
॥१६॥लम्बकर्णस्य कण्ठं स बिभेद बाणसञ्चयैः ।
धृत्वा तु चरणौ रक्तलोचनं च न्यपातयत्
॥१७॥हस्तान्निस्तीर्य सहसा सुमुखः प्रापलज्जवात् ।
सोमं लत्ताप्रहारेण रणभूमावपातयत्
॥१८॥जठरं दारयामास भृङ्गिणोऽसिप्रहारतः ।
दावानलस्य च शिरो भेदयामास सायकैः
॥१९॥पञ्चाननस्य पृष्ठे सोऽवधीच्च चपलो युधि ।
एवं सर्वे महावीरा निहता रणमूर्धनि
॥२०॥द्रुतं पलायिताश्चान्ये ततः सिन्धुः पुरो यरौ ।
जगर्ज घनवद् घोरं नादयन् भुवनत्रयम्
॥२१॥स विव्याध मयूरेशं शरजालैरनेकधा ।
तस्य देहं समालोक्य विकरालं भयानकम्
॥२२॥विरूपाक्षादयः सर्वे पलायनमकुर्वत ।
मुनियुक्तो गणेशश्च युयुधे संयुगे तदा
॥२३॥स चकम्पे करिशिशुः सिंहस्येवास्य दर्शनात् ।
ततोऽब्रवीद् रोषवशात् सिन्धुस्तं तु गुणेश्वरम्
॥२४॥सिन्धुरुवाच
दुरात्तेऽश्रावि बहुशः पुरुषार्थः शिवार्भक ।
प्रत्यक्षं दृश्यसे रे त्वं जम्बूक इव दुर्बलः
॥२५॥कथं मे सहसे मूढ तलाघातं शिलाभिदम् ।
त्वया मातुः स्तनं पीत्वा नर्तव्यं हि गृहाङ्गणे
॥२६॥शक्रादयो जिता येन तस्य ते गणनाऽत्र का ।
निवारयति मां मूढ कृपा त्वां हन्तुमुत्सुकम्
॥२७॥कथं ते कोमलाङ्गेषु विध्ये तीक्ष्णेतरान् शरान् ।
देव उवाच ।
किमर्थं वल्गसे मूढभावेनाधम पामर
॥२८॥नावतारं गृहिष्येऽहं यदि जानेऽल्पकं वपुः ।
तवेदानीं हनिष्यामि क्षणेन देहमल्पकम्
॥२९॥सूर्यदत्ताद् वराद् दुष्ट दुष्कर्मनिरतो भवान् ।
इदानी स गतः कालो मत्युकाल उपस्थिते
॥३०॥वल्गनाकुशलस्त्वं किं युद्धमद्य करिष्यसि ।
त्वा हन्तुं मोचितुं देवान्धृतं रूपमिदं मया
॥३१॥अन्तकाले सन्निहिते पुरुषार्थो वृथा भवेत् ।
मया हते महास्थानं मम प्राप्स्यसि दुर्लभम्
॥३२॥सिन्धुरुवाच
यावन्नच्छेद्मि ते मूढ कोमलं देहमुत्तमम् ।
तावद्वल्गसि यो यस्य भक्तः स्यात् स मृतो व्रजेत्
॥३३॥तस्य लोकं वृथा हि त्वं न प्रशंसां वदात्मनः ।
क उवाच ।
एवमुक्त्वा महादैत्यः सायकं परभेदिनम्
॥३४॥न कदाचित् प्रकटितमतितीक्ष्णं जयावहम् ।
स्मृत्वा सूर्यं धनुर्गृह्य सज्जं कृत्वा न्ययोजयत्
॥३५॥टणत्कारेण धनुषो नादितं भुवनत्रयम् ।
मुमोच बाणं तं देवे मयूरेशे बलात्खलः
॥३६॥स जज्वाल दिशः सर्वा गगनं विदिशोऽपि च ।
तं दृष्ट्वा स मयूरेशस्तत्याज परशुं निजम्
॥३७॥वज्रात् सारतरं सर्ववैरिदर्पहरं परम् ।
अदहत् सोऽपि त्रींल्लोकान्प्रलयानलसन्निभः
॥३८॥परशुः खण्डयामास नभस्येव च तं शरम् ।
धरायां पात्य शतधा दैत्यहस्तमथाच्छिनत्
॥३९॥धनुर्भारसहं घोरं नभस्यैव गतं करात् ।
ततः क्रोधेन दैत्यः स चक्रं तत्याज शस्त्रवे
॥४०॥शतहृदेव तच्छब्दं चकार गर्जयन्दिशः ।
(शतधारञ्च) दृष्ट्वा तत्र मयूरेशः शूलमुग्रं मुमोच ह
॥४१॥ददाह भुवनं तच्च पपात दैत्यमस्तके ।
मुकुटं कुण्डले कर्णौ खण्डयित्वा ययौ पुनः
॥४२॥मयूरेशकरं शीघ्रं यथा न त्याजितं तथा ।
ततः क्रोधादुवाचैनं छिन्नकर्णो महासुरः
॥४३॥पौरुषं दर्शितं तेऽद्य दर्शयिष्ये तवापि च ।
इदानीं शरघातेन छिनद्मि नासिकां तव
॥४४॥इत्युक्त्वा खड़गहस्तोऽसौ तं जगाम गुणेश्वरम् ।
मयूरेशस्तदा चक्रे नाना रूपाणि सर्वतः
॥४५॥आयुधानि च चत्वारि बिभ्रत् करचतुष्टये ।
ततः स विस्मयाविष्टो दशदिक्षु व्यलोकयत्
॥४६॥ददर्श तत्र तं देवं चतुरायुधभूषितम् ।
ततः स लज्जितो गेहं निजं गन्तुं मनोदधे
॥४७॥तथापि पुरतोऽपश्यन्मयूरेशं तथाविधम् ।
आच्छाद्य नेत्रे स ययौ हृद्येनं समलोकयन्
॥४८॥उन्मीस्य नेत्रे सोऽपश्यत्पुर एनं शिखण्डिनि ।
ततो दैत्यो बुबोधैनं स्वान्ते रविप्रसादतः
॥४९॥रणस्थलात्पुरीं यात आच्छाद्य वदनाम्बुजम् ।
हतशेषैश्च वीरैश्च तादृशैः परिवारितः
॥५०॥पर्यङ्के न्यपतच्चिन्तापर्याकुलितमानसः ।
विरास्ते स्वगृहं याताश्चिन्ताव्याकुलचेतसः
॥५१॥इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवैरुप्यकरणं नाम पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥