साङ्ख्ययोगसारार्थयोगोनाम प्रथमोऽध्यायः
अष्टत्रिशदधिकशततमोऽध्यायः ।
क उवाच ।
एवमेव पुरा पृष्टः शौनकेन महात्मना ।
स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम्
॥१॥सूत उवाच
अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत् पातुमिच्छाम्यमृतमुत्तमम्
॥२॥येनामृतमयो भूत्वा पुमान् ब्रह्मामृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद
॥३॥व्यास उवाच
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या
॥४॥वरेण्य उवाच
विघ्नेश्वर महाबाहो सर्वविद्याविशारद ।
सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि
॥५॥गजानन उवाच
सम्यग्व्यवसिता राजन् मतिस्तेऽनुग्रहान् मम ।
शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप
॥६॥न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रादिभिस्तथा
॥७॥योगो यः पितृमात्रादेर्न स योगो नराधिप ।
यो योगो बन्धुपुत्रादेर्यश्चाष्ट भूतिभिः सह
॥८॥न स योगः स्त्रिया योगो जगदद्भुतरूपया ।
राज्ययोगश्च नो योगो न योगो गजवाजिभिः
॥९॥योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकस्य न स योगो मृतो मम
॥१०॥शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता
॥११॥नानिलत्वं नानलत्वं नामरत्वं न कालता ।
न वारुण्यं न नैरृत्यं योगो न सार्वभौमता
॥१२॥योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्तुतम् ।
भवन्ति वितृषा लोके जिताहारा विरेतसः
॥१३॥पानयन्त्यखिलाँन्लोकान्वशीकृतजगत्त्रयाः ।
करुणापूर्णहृदया बोधयन्ति च काँश्चन
॥१४॥जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम्
॥१५॥ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् ।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते
॥१६॥येन केनचिदाच्छिन्ना येन केन चिदाहताः ।
येन केन चिदाकृष्टा येन केनाचिदाश्रिताः
॥१७॥करुणापूर्णहृदया भ्रमन्ति धरणीतले ।
अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः
॥१८॥देहमात्रभृतो भूप समलोष्ठाश्मकाञ्चनाः ।
एतादृशा महाभागाः स्युश्चक्षुर्गोचराः प्रिय
॥१९॥तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात्
॥२०॥शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम
॥२१॥अहमेव जगद् यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं संहरामि स्वलीलया
॥२२॥अहमेव महाविष्णुरहमेव सदाशिवः ।
अहमेव महाशक्तिरहमेवार्यमा प्रिय
॥२३॥अहमेको नृणां नाथो जातः पञ्चविधः पुरा ।
अज्ञानान्मां न जानन्ति जगत्कारणकारणम्
॥२४॥मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ ।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश
॥२५॥वसवो मनवो गावो मुनयः पशवोऽपि च ।
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि
॥२६॥तथैकविंशतिस्वर्गा नागाः सप्तवनानि च ।
मनुष्याः पर्वताःसाध्याः सिद्धा रक्षोगणास्तथा
॥२७॥अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः ।
अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः
॥२८॥अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप ।
मोयत्यखिलान् माया श्रेष्ठान्मम नरानमून्
॥२९॥सर्वदा षड्विकारेषु तानियं योजयेद्भृशम् ।
हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः
॥३०॥विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ।
अच्छेद्यं शस्त्रसङ्घातैरदाह्यमनलेन च
॥३१॥अक्लेद्यं भूपभुवनैरशोष्यं मारुतेन च ।
(अक्लेद्यं पञ्च पवनैरशोष्यं) अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप
॥३२॥यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतोऽपि न
॥३३॥कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः
॥३४॥सम्पादयन्ति ते भूयः स्वात्मना निजबन्धनम् ।
संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः
॥३५॥यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः
॥३६॥चित्तशुद्धिश्च महती विज्ञानसाधका भवेत् ।
विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः
॥३७॥तस्मात् कर्माणि कुर्वीत बुद्धियुक्तो नराधिप ।
नत्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा
॥३८॥जहाति यदि कर्माणि ततः सिद्धिं न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते
॥३९॥कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति ।
स च योगः समाख्यातोऽमृतत्वाय हि कल्पते
॥४०॥योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने
॥४१॥बहिर्दृष्टया च समया हृत्स्थया लोकयेत्पुमान् ।
सुखे दुःखे तथामर्षे हर्षे भीतौ समो भवेत्
॥४२॥रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृतावपि
॥४३॥समो मां वस्तुजातेषु पश्यन्नन्तर्बहिः स्थितम् ।
सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथाऽनिले
॥४४॥द्विजे हृदि महानद्यां तीर्थ क्षेत्रेऽघनाशिनि ।
विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च
॥४५॥गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च ।
सततं मां हि यः पश्येत् सोऽयं योगविदुच्यते
॥४६॥सम्परीहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ।
सर्वत्र समताबुद्धिः स योगो भूप मे मतः
॥४७॥आत्मनात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचित्तस्य तद् योगो योग उच्यते
॥४८॥धर्माधर्मौ जहातीह तया त्यक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम्
॥४९॥धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्दियः ।
जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम्
॥५०॥यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति ।
तदाऽसौ याति वैराग्यं वेदवाक्यादिषु क्रमात
॥५१॥त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा ।
परात्मन्यचला बुद्धिस्तदा स योगमाप्नुयात्
॥५२॥मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते
॥५३॥वितृष्णाः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे ।
गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते
॥५४॥यथाऽयं कमठोऽङ्गानि सङ्कोचयति सर्वतः ।
विषयेभ्यस्तथा खानि सङ्कर्षेद्योगतत्परः
॥५५॥व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः ।
विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति
॥५६॥विपश्चिद् यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः
॥५७॥युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् ।
संयतानीन्द्रियाणीह यस्य स कृतधीर्मतः
॥५८॥सञ्चिन्तयतो विषयान्सङ्गस्तेषूपजायते ।
कामःसञ्जायते तस्मात्ततः क्रोधोऽभिवर्द्धते
॥५९॥क्रोधादज्ञानसम्भूतिर्विभ्रमस्तु ततः स्मृतेः ।
भ्रंशात्स्मृतेर्मतेर्ध्वं सस्तद्ध्वंसात् सोऽपि नश्यति
॥६०॥विना द्वेषं च रागं च गोचरान् यस्तु खैश्चरेत् ।
स्वाधीनहृदयो वश्यैः सन्तोषं स समृच्छति
॥६१॥त्रिविधस्यापि दुःखस्य सन्तोषे क्षेपणं भवेत् ।
प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत्
॥६२॥विना प्रसादं न मतिर्विना मत्या न भावना ।
विना तां न शमो भूप विना तेन कुतः सुखम्
॥६३॥इन्द्रियाश्वान् विचरतो विषयाननुवर्तते ।
यन्मनस्तन्मतिं हन्यादप्सुनावं मरुद्यथा
॥६४॥(हन्यादश्वो नावं) या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः ।
न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप
॥६५॥सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति तं तथा कामाः स नाशान्तिं क्वचिल्लभेत्
॥६६॥(स न शान्तिं सदा लभेत्) अतस्तानीह संरुद्ध्य सर्वतः खानि मानवः ।
स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरातथा
॥६७॥ममताऽहङ्कृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् ।
नित्यं ज्ञानरतो भूयात् ज्ञानान्मुक्तिं प्रयास्यति
॥६८॥एनां ब्रह्मधियं भूप यो विजानाति दैवतः ।
तुरीयावस्थां प्राप्यापि शीलान्मुक्तिं स ऋच्छति
॥६९॥(शीलान्मुक्तिं प्रयास्यसि) ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदार्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे साङ्ख्ययोगसारार्थयोगोनाम प्रथमोऽध्यायः
॥१॥इति श्रीगणेशपुराणे क्रीडाखण्डे साङ्ख्ययोगसारार्थयोगोनाम अष्टत्रिशदधिकशततमोऽध्यायः ॥ १३८ ॥