मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 29

3
क्रीडाखण्डः · 29

बालचरिते विरोचनवधो नामैकोत्रिंशोऽध्यायः

क उवाच

मयाज्ञप्तः कश्यपोऽसौ सृष्टिं नानाविधां कुरु ।

स विनीतो महाज्ञानी भूतभव्यभविष्यवित्

॥१॥

अतिवैश्वानररवितेजाः सुतपसां निधिः ।

सृष्टिसामर्थ्यसम्प्राप्तौ तताप सुमहत् तपः

॥२॥

षडक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।

दिव्यवर्षसहस्रान्ते स देवो वरदोऽभवत्

॥३॥

ईप्सितानस्य सर्वान् स ददौ नानावरान् शुभान् ।

ततोऽसौ मनसा यद् यदकल्पयत लाघवात्

॥४॥

तत्तदग्ने पश्यति स्म वरदानप्रभावतः ।

चतुर्दशसु पत्नीषु ऋतुदानादनेकधा

॥५॥

चकार तेजसा सर्वं जगत्स्थावरजङ्गमम् ।

तासु श्रेष्ठे च द्वे पत्न्यौ दित्यदितीतिनामतः

॥६॥

अदित्याऽपि तपस्तप्तं विष्णुप्रीणनहेतवे ।

संवत्सराणामयुतं ततस्तुष्टो जनार्दनः

॥७॥

जगत्याः पालनायासौ धर्मसंस्थापनाय च ।

शक्रादितत्सुतानां च दुष्टानां निग्रहाय च

॥८॥

पुत्रतामगमत् तस्यास्तया पूर्वं प्रसादितः ।

अथ सा स्वामिनं प्राह दितिर्होमाय सादरम्

॥९॥

ऋतुं मे देहि भगवन् बाधते मदनानलः ।

इत्याकर्ण्य वचस्तस्या मुनिस्तां प्राह सादरम्

॥१०॥

अयं कालो घोररूपो होमकाल उपस्थितः ।

क्षणमाचर धैर्यं त्वं पश्चाद् रंस्ये त्वया सह

॥११॥

अस्मिन् काले भवेद्दुष्टमपत्यं देवधर्मध्रुक् ।

इति स्वामिवचः श्रुत्वा हस्ते धृत्वा ननाम तम्

॥१२॥

उवाच रक्तनयना दग्धुकामा जगत्रयम् ।

इदानीमेव मे वाञ्छा न कृता चेत्त् त्वया मुने

॥१३॥

देहत्यागं करिष्यामि विव्हला मदनाग्निना ।

यथा तथास्तां दैवान्मे ह्यपत्यं देवधर्मध्रुक्

॥१४॥

इति तद्वचनं श्रुत्वा शरणागतवत्सलः ।

ददावृतुं तदा तस्यै होमं स्नात्वा चकार ह

॥१५॥

ततश्चास्याः सुतो जज्ञे हिरण्याक्षो महाबलः ।

हिरण्यकशिपुश्चोभौ चेरतुस्तप उत्कटम्

॥१६॥

पञ्चाक्षरं महामन्त्रं पितुस्तौ बहुवत्सरम् ।

एकाङ्गुष्ठस्थितौ वायुमात्रभक्षौ सवल्मिकौ

॥१७॥

अथाययौ महादेवो वरं दातुं कृपानिधिः ।

तुष्टुवतुस्ततस्तं तौ भक्त्या देवं त्रिलोचनम्

॥१८॥

कृताञ्जलीपुटौ चोभौ प्रणिपातपुरःसरम् ।

यथाशक्ति यथाज्ञानं तद्दर्शनस्फुरन्मती

॥१९॥

यो देवो वृषवाहनो दशभुजश्चन्द्रार्धनागान्वितो नानारूपगणैर्गिरीन्द्रतनयायुक्तो जगत्कारणम् ।

यो व्याघ्राजिनकृत्तिमांस्रिनयनो यः शूलधृक् कामहा भक्तेच्छापरिपूरणैकनिलयो धर्मार्थमोक्षप्रदः

॥२०॥

इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।

नमश्च चतुर्दैवं भक्तवाञ्छासुरद्रुमम्

॥२१॥

तावुवाच ततस्तुष्टो वृणुतं वरमित्यसौ ।

वृणुतस्तौ वरान् देवादमृतिं यक्षरक्षसः

॥२२॥

किन्नरैर्मानुषश्रेष्ठैः पिशाचैश्चारणादिभिः ।

न शस्त्रैर्नार्द्रशुष्कैश्च जन्तुभिर्जलजैरपि

॥२३॥

स्थावरैर्जङ्गमैरन्यैर्न दिवा न निशासु च ।

न पृथिव्यां न चाकाशे नान्तराले तथोषसि

॥२४॥

तथेति तावुवाचेशस्तथा चान्तर्दधे हरः ।

तदैव तावजयतां रोदसी च रसातलम्

॥२५॥

देवस्थानानि सर्वाणि बलादाक्रम्य तौ स्थितौ ।

हिरण्यकशिपोर्जातः प्रल्हादो नाम नामतः

॥२६॥

तनयो विष्णुभक्तेषु गरीयान् वंशकण्टकः ।

जपन्नारायणं देवं पित्रा सन्ताडितो भृशम्

॥२७॥

अनेकयातनायां स रक्षितोऽनेकधाऽमुना ।

जले स्थले विषादग्नेर्विष्णुना करूणावता

॥२८॥

हिरण्यकशिपुः सोऽयं सर्वलोकभयङ्करः ।

नारसिंहेन वपुषा नखरैः स विदारितः

॥२९॥

वाराहेण हतः पूर्वो दंष्ट्रया वसुधा हृता ।

विरोचनसुतस्तस्य बलिस्तस्याऽभवत्सुतः

॥३०॥

विरोचनः सूर्यभक्तो मुकुटं प्राप्तवांस्ततः ।

ऊचिवांस्तं च सप्ताश्वः परहस्तो यदा स्पृश्येत्

॥३१॥

मुकुटस्य तदा ध्वंसो भविता नात्र संशयः ।

स सूर्यवरदानेन चक्रे त्रिभुवनं वशे

॥३२॥

च्युतस्थानास्ततो देवा अच्युतं शरणं ययुः ।

स चिन्तां महतीं कृत्वा निश्चयं नाध्यगच्छत

॥३३॥

ततस्तेन धृतं रूपं सर्वयोषिद्वरं स्त्रियः ।

तेन तं रमयामास बहुकालं विरोचनम्

॥३४॥

ततः स सुरतं कर्तुमुद्यतोऽभूत् कुबुद्धिमान् ।

ततस्तं सुदती प्राह ममैका वासनाऽस्ति भोः

॥३५॥

अभ्यङ्गं कुरु पूर्वं त्वं ततो हि रंस्यसे मया ।

इति श्रुत्वा स तद्वाक्यं कामासक्तोऽन्वमोदत

॥३६॥

उत्तार्य मुकुटं साऽथ मूर्ध्नि तैलं व्यमर्दयत् ।

स तदा शतचूर्णोऽभूत् सारूप्यं स आप्तवान्

॥३७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरोचनवधो नामैकोत्रिंशोऽध्यायः ॥ २९ ॥