मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 28

3
क्रीडाखण्डः · 28

बालचरिते भीमराक्षसयोर्जन्मवर्णनं नामष्टाविंशतितमोऽध्यायः

क उवाच

स राजकार्यं कुरुते स्वयं भुङ्क्ते वरस्त्रियः ।

राष्ट्रे श‍ृणोति रामां सोऽपति वा सपतिं तथा

॥१॥

बलादानयते भोक्तुं क्रन्दतां रुदतामपि ।

न वा गणयते ज्ञातिभेदं विषयलम्पटः

॥२॥

या चोन्नतकुचा नारी तस्य दृष्टिपथं गता ।

तामालिङ्ग्यत्यसौ कामी चुम्बतीमां यभत्यपि

॥३॥

परद्रव्याणि गृह्णाति स्त्रियोऽपि स बलात् पुनः ।

सोऽपि ताद्द्ग्गुणो मन्त्री दुष्टबुद्धिपथे रतः

॥४॥

एवं दुराचाररतौ न कन्यां न च मातरम् ।

न वर्जयन्तौ सम्भोगे भगिनीमपि निर्घृणौ

॥५॥

न ब्रह्महत्यां मनुतो न स्त्रीबालवधं तथा ।

एवं पापसमाचारौ पापस्य पर्वताविव

॥६॥

आस्तामुभौ दुष्टबुद्धी राजामात्यौ सुदुःसहौ ।

न ब्राह्मणो यतिर्वापि तद्गृहे याति भिक्षितुम्

॥७॥

न राष्ट्रे नाम तस्यापि गृह्णाति प्रकृतेरपि ।

एकदा मृगयार्थं तौ यातः स्म गहनं वनम्

॥८॥

घ्नतः स्म मृगयूथानि पक्षियूथान्यनेकशः ।

तानि प्रापय्य नगरमश्वारूढौ स्वयं पुनः

॥९॥

वैनायकं महास्थानं पथितौ पश्यतः स्म ह ।

यस्मिन् विराजिते मूर्तिर्जीणा वैनायकी शुभा

॥१०॥

स्थापिता रामपित्रा सा पुत्रार्थं कुर्वता तपः ।

भक्त्या साक्षात्कृरो यत्र देवदेवो विनायकः

॥११॥

दशाक्षरेण मन्त्रेण ध्यायता बहुवासरम् ।

दत्त्वा तस्मै वरान् देवो विधते वाञ्छितानपि

॥१२॥

ततो वसिष्ठहस्तेन तेनेयं स्थापिता दृढा ।

वरदेति च नामास्या वसिष्ठेन कृतं ततः

॥१३॥

अस्य दर्शनतो नॄणां पुरूषार्थाश्चतुर्विधाः ।

स्मरणात् पूजनाद् वापि सेत्स्यन्ते नात्र संशयः

॥१४॥

एवं वसिष्ठवाक्येन स्थानं तद् भुवि पप्रथे ।

गणेशभजनेनाऽस्य स्मरणेनाऽर्चनेन च

॥१५॥

रामलक्ष्मणभरताः शत्रुघ्नसहिताः सुताः ।

जाता लोकेषु विख्याताः सर्वज्ञाः शूरसम्मताः

॥१६॥

एवं दृष्ट्वा महारम्यं प्रासादं राजनिर्मितम् ।

उत्तरे तुरश्वपृष्ठाद् राजामात्यौ पुपूजतुः

॥१७॥

पत्रैः पुष्पैर्नेमतुस्तं सर्वपापाहरं विभुम् ।

प्रदक्षिणीकृत्य विभुमीयतुः क्षणमात्रतः

॥१८॥

एतदेव परं पुण्यं दैवाज्जातं तयोस्तदा ।

एवं पापसमाचारौ राज्यं कृत्वाऽथ मम्रतुः

॥१९॥

बध्वा पाशैर्याम्यदूतैर्नीतौ तौ शमनान्तिकम् ।

चित्रगुप्तं समाहूय पप्रच्छ स शुभाशुभम्

॥२०॥

तेनोक्तं न तयोरस्ति पुण्यलेशो रवेः सुत ।

पापानां गणना नास्ति दूतांश्चैवेदमब्रवीत्

॥२१॥

बध्यतां बध्यतामेतौ लोहदण्डेन पात्यताम् ।

कुण्डे वीचिमये पङ्क्ति सहस्रपरिवत्सरान्

॥२२॥

एकैकस्मिन् क्रमेणैतौ कुण्डे भुक्त्वाऽघसञ्चयान् ।

क्षिप्यतां मृत्युलोके च नीचयोनिगतावुभौ

॥२३॥

अनयोः पुण्यलेशोऽस्ति दूताः श‍ृणुत तत्कृतिम् ।

प्रसङ्गादर्चितो दृष्टो देव आभ्यां गजाननः

॥२४॥

तेन पुण्येन सोऽप्येतावुद्धरिष्यती तत्र वै ।

एवमाकर्ण्य तद्वाक्यं दूतैर्बद्धौ हतौ दृढम्

॥२५॥

कुम्भीपाके शोणितोदे निरये रौरवेऽपि तौ ।

निक्षिप्तौ कालकूटे च क्रमशः शतवत्सरान्

॥२६॥

तामिस्रे चान्धतामिस्रे पूयशोणितकर्दमे ।

कण्टके तु क्षताङ्गौ तौ सन्तप्तौ तप्तवालुके

॥२७॥

विक्षतौ कृमिभिस्तत्र भृशं सूचीमुखैरुभौ ।

असिपत्रवने घोरे ततो नीतावुभावपि

॥२८॥

यत्र शस्त्राभिघातेन वर्ष्मभिद्यतिपापिनाम् ।

ततस्तप्तशिलायां तो निष्पिष्टौ घनघाततः

॥२९॥

भुञ्जन्तौ नरकानेकविंशति बहुवासरम् ।

न दुःखं शक्यते वक्तुं शेषेणाऽशेषतस्तयोः

॥३०॥

एवं कति सहस्राणि भुक्त्वा भोगाननेकशः ।

निस्तीर्णभोगौ तौ पापशेषेण भुवमागतौ

॥३०॥

एको जातः काकयोनौ कौशिकोऽभूत् परोऽपि च ।

तत एको दर्दुरोऽभूदपरः सरटोऽभवत्

॥३१॥

तत एको विषधरोऽपरोऽभूद् वृश्चिकोऽपि च ।

तत्रापि कुर्वतः पापं नानालोकान्विदंशतः

॥३२॥

श्वमार्जारयोर्योनौ जातौ नकुलसूकरौ ।

वृकजम्बुकयोर्योनौ जातौ घोटकगर्दभौ

॥३३॥

तत उष्ट्रगजौ जातौ ततो नक्र महाझषौ ।

ततो व्याघ्रमृगौ जातौ ततो वृषभमाहिषौ

॥३४॥

एवं नानायोनिगतौ जातौ चाण्डालकीटकौ ।

राक्षसीभिल्लयोर्योनो ततश्चान्ते समीयतुः

॥३५॥

पिङ्गाक्षो दुर्बुद्धिरिति नाम्ना ख्यातौ च भूतले ।

आजन्मकृतपापस्य कथ्यते बहुदोषता

॥३६॥

यदा तो राजप्रकृती आस्तां पापरतौ पुरा ।

एकं पुण्यं तयोरासीन् मृगयायां प्रसर्पतोः

॥३७॥

विनायकस्य नमनं दर्शनं च प्रदक्षिणा ।

अर्चनं फलपुष्पाद्यैस्तुष्ट आसीद् गजाननः

॥३८॥

अगाधं तत्तयोः पुण्यमासीत् तज्जन्मसञ्चितम् ।

यदा पुरा राक्षसोऽसौ भीमं भक्षितुमागतः

॥३९॥

स आरूढः शमीवृक्षं तत्पत्राणि च मस्तके ।

पतितानि गणेशस्य तुष्टोऽभूत् स द्वयोरपि

॥४०॥

दिव्यदेहं तयोर्दत्त्वा स्वर्लोकं प्राप्रद् विभुः ।

एतत्ते कथितं पूर्वजन्मकर्म मया तयोः

॥४१॥

शमीपत्रार्चनादेव तुष्टोऽभूत् स गजाननः ।

यथाऽयं स्थापितस्तेन वामनेन तदप्यहम्

॥४२॥

कथयामि मुने सर्वं तदनुष्ठानमेव च ।

यथा च गणनाथोऽस्य प्रसन्नो वरदोऽभवत्

॥४३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भीमपिङ्गाक्षयोः पूर्वजन्मवर्णनं नामष्टाविंशतितमोऽध्यायः ॥ २८ ॥