क्रौञ्चशापवर्णनं नाम पञ्चत्रिंशोत्तरशततमोऽध्यायः
व्यास उवाच
किमनेन कृतं पूर्वं पुण्यं पापं च पद्मज ।
येनायं मौषकं जन्म पाप देवस्य वाहताम्
॥१॥क उवाच
सम्यक्पृष्टं त्वया वत्स ममापि मनसः प्रियम् ।
ब्रवीमि सकलं तच्च तदिहैकमनाः शृणु
॥२॥सुमेरुशिखरे रम्यः सौभरेराश्रमो महान् ।
अभूद् वृक्षसमाकीर्णो नानापक्षिगणान्वितः
॥३॥वसिष्ठाद्या मुनिगणा देवा इन्द्रपुरोगमाः ।
आयान्ति सौभरेस्तस्य दर्शनार्थं दिने दिने
॥४॥महत्तपोवृद्धिदीप्तेरत्यग्निरवितेजसः ।
ख्यातस्य सर्वलोकेषु ध्याननिष्ठस्य चेश्वरे
॥५॥तस्य पत्नी महाभागा मनोमयीति विश्रुता ।
पतिव्रतासुसर्वासु विख्याता भर्त्तृवल्लभा
॥६॥रम्यता तु रतेस्तस्या जिता रम्यतयाऽखिला ।
शचीप्रभृतयः सर्वा न प्रापुः समतालवम्
॥७॥कदाचित् सौभरिर्होमशालायां प्रातरुत्थितः ।
कृत्वा होमं वनं यातः समिदर्थं गृहे स्थिता
॥८॥मनोमयी सुशीला सा गृहकार्यरताऽभवत् ।
तदा दुष्टस्तु गन्धर्वः क्रौञ्चनामा समागतः
॥९॥विश्रान्तिरभवत्तस्य दृष्ट्वाश्रममनुत्तमम् ।
नानाशालासमाकीर्णं बहुच्छायं सुशीतलम्
॥१०॥एतादृशो रम्यतर आश्रमो यस्य स प्रभुः ।
धन्यं जपस्तपस्तस्य क्षणेनायं सुखप्रदः
॥११॥चिरस्थानान्मुक्तिदः स्यादित्युक्त्वा तद्गृहं ययौ ।
ददर्श मुखचन्द्रं स मनोमय्या मनोरमम्
॥१२॥यस्यादर्शनमात्रेण हरोऽपि स्मरसाद्भवेत् ।
तस्याः कटाक्षपातेन मदनानिलविव्हलः
॥१३॥स बभूव तदासक्तो दधार सहसा करे ।
तत्करस्पर्शमात्रेण च कम्पे सा मुमूर्च्छ च
॥१४॥मनोमयी न शशाप भर्तृस्मरणतत्परा ।
म्लाना च शुष्ककण्ठा च सस्वेदाक्षिस्रवज्जला
॥१५॥बभूव परमोद्विग्ना मुमोह च शुशोच च ।
कमद्य शरणं यामि कोऽस्माद्दुष्टात्प्रमोक्ष्यते
॥१६॥न कृतं दुष्क्रतं किञ्चिदिह जन्मनि संस्मरे ।
जन्मान्तरीयपापेन सुखदुःखमुपस्थितम्
॥१७॥दुष्टभावं तु तं ज्ञात्वा सान्त्वयन्त्यब्रवीदिदम् ।
अहं दुहितृतुल्या ते जनकेन समोऽसि मे
॥१८॥ज्ञानवानसि पापे त्वं मा वर्तस्व गतत्रप ।
पापिनो यान्ति नरकं वर्षकोटिगणान्बहून्
॥१९॥तस्मान् मुञ्च महाभाग कृपणां पुत्रिकोपमाम् ।
नो चेदहं करिष्यामि प्राणत्यागं न संशयः
॥२०॥स्त्रीहत्यादोषसम्भूतं पापं ते स्यान्महत्तरम् ।
मम भर्ता महाभागो वनादायास्यतेऽधुना
॥२१॥तस्य क्रोधानलस्त्वां हि भस्मत्वं नेष्यते क्षणात् ।
विज्ञानां तस्य नो किञ्चित्कार्यं कार्यं मया लघु
॥२२॥नो चेत्त्वां भस्मसात्कुर्यां सृष्टिं च ब्रह्मणोऽपि च ।
एवं वदन्त्यां तस्यां तु सौभरिः समुपागतः
॥२३॥तं दृष्ट्वा स्वाङ्गणगत मध्यान्हरविसन्निभम् ।
मुमोच तेजसा तत्र धर्षितोऽसौ करं तदा
॥२४॥अधोऽपश्यच्चकम्पे च मम्लाय च बिभाय च ।
मुनिः प्रोवाच सहसा प्रलयाग्निरिव ज्वलन्
॥२५॥उत्ससर्ज तदा शापं गन्धर्वं प्रति दुःसहम् ।
मुनिरुवाच ।
असमक्षं यतो मे त्वं पत्नीं धर्षितवानसि
॥२६॥असमक्षचरो मूढ मूषकस्त्वं भविष्यसि ।
चौरवत्पृथिवीं दार्य स्वोदरं पूरयिष्यसि
॥२७॥क्रौञ्च उवाच
न मया बुद्धिपूर्वं ते धर्षितेयं मनोमयी ।
प्रसङ्गादभवत्सङ्गो दृष्ट्वेमां चाररूपिणीम्
॥२८॥करमात्रधृता चेयं तावत्त्वमपि दृष्टवान् ।
तेजसा ते प्रभीतेन मया मुक्ताऽनघा मुने
॥२९॥अतोऽपराधं मे क्षन्तुमर्हसि त्वं कृपानिधे ।
कुरुष्वानुग्रहं मह्यं शरणागतवत्सल
॥३०॥अहं त्वा शरणं यामि कृपां कुरु ममोपरि ।
त्रैलोक्ये नेदृशी दृष्टा पतिव्रत्यगुणान्विता
॥३१॥मुनिरुवाच
प्लवते सागरे मेरुरुदियात् पश्चिमे रविः ।
न मे वचोऽन्यथा भूयाद् वह्निः शीतत्वमाप्नुयात्
॥३२॥अथापि प्रब्रवीम्यद्य दुष्ट तच्छृणु सादरम् ।
पराशरगृहे देवी द्वापरेऽवतरिष्यति
॥३३॥गजानन इति ख्यातस्तस्य वाहत्वमेष्यसि ।
तदा ब्रह्मादयो देवा मानयिष्यन्ति सादरम्
॥३४॥तस्य हस्तगतः स्वर्गं पुनरेष्यसि सत्वरम् ।
एवमाकर्ण्य तद्वाक्यं दुःखहर्षसमन्वितः
॥३५॥क उवाच
पपात पृथिवीपृष्ठे महामूषकरूपधृक् ।
पराशरस्याश्रमे तु द्वापरे समुपस्थिते
॥३६॥महाबलो महावीर्यो महापर्वतसन्निभः ।
मुनेराशीर्बलेनासौ गजाननसमीपगः
॥३७॥अभवद्वाहरूपेण मूषकोऽसौ महाबलः ।
एतत्ते कथितं सर्व यन्मे पृष्टं त्वयाऽनघ
॥३८॥गजाननस्य वाहत्वं मूषकस्य यथाऽभवत् ।
मुनिरुवाच ।
सिन्दुरस्य वधं ब्रह्मन् कथं स कृतवान्विभुः
॥३९॥गणेशस्तन्ममाचक्ष्व विस्तराच्चतुरानन ।
श्रुत्वा वचो न मे तृप्तिर्जायतेऽमृतपानवत्
॥४०॥भक्त्या शृणोमि देवेश सर्वज्ञस्त्वं वदस्व मे
॥४१॥इति श्रीगणेशपुराणे क्रीडाखण्डे क्रौञ्चशापवर्णनं नाम पञ्चत्रिंशोत्तरशततमोऽध्यायः ॥ १३५ ॥