मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 112

3
क्रीडाखण्डः · 112

द्वादशाधिकशततमोऽध्यायः

क उवाच

शिखण्डिनं समारुह्य मयूरेशः परे दिने ।

आयुधानि च चत्वारि प्रगृह्य करपङ्कजे

॥१॥

जगर्ज घनवद् घोरं ययौ रणचिकीर्षया ।

शिवोऽपि गर्जन् सहसा वृषारूढो ययौ तदा

॥२॥

सप्तकोटिगणाः पश्चात्सन्नद्धा ययुरोजसा ।

ततो नन्दी प्राह तत्र न गन्तुं सहसाऽर्हथ

॥३॥

गणानां नायके वीरभद्रे च मयि तिष्ठति ।

प्रमथे वा विद्यमाने शक्ते हन्तुं सुरद्विषाम

॥४॥

पश्यन्तु सेवकमहस्ततो यान्तु सुसंयुगम् ।

क उवाच ।

भारतीमेवमाकर्ण्य देवो नन्दीरितां तदा

॥५॥

उवाच परमप्रीतः साधु साधु त्वयोदितम् ।

पराक्रमवतः सिन्धोर्द्रष्टव्यस्तु पराक्रमः

॥६॥

इति यामि पुरो नन्दिन् यूयं यान्तु सहैव नः ।

ततस्तु भूतराजोऽथ पुष्पदन्तोऽपि वीर्यवान्

॥७॥

ईयतुः पुरतस्तस्य कोटिसङ्ख्यायुता गणाः ।

वीर्यश्रिया दीप्यमानाः सर्वे वीरा मदान्विताः

॥८॥

आक्रमन्तो दिगन्तान् वै गर्जन्तो घनवद् भृशम् ।

भारेण शेषशीर्षाणि नामयन्तो धरामपि

॥९॥

क्रोधानलं वमन्तस्ते प्रापुस्तां गण्डकीं पुरीम् ।

दैत्यगुल्मे निपेतुस्ते दशकोटयसुरैर्युते

॥१०॥

ततस्तत्राभवद्युद्धं तुमुलं रोमहर्षणम् ।

शस्त्रास्त्रैर्बाणनिचयैर्भिण्डिपालपरश्वघैः

॥११॥

केषाञ्चिन्मस्तका भिन्नाः पादा हस्तास्तथोरवः ।

जानुजङ्घाश्च गुल्फाश्च भग्नाः केऽपि गतासवः

॥१२॥

निपत्य पुनरुत्थाय प्रायुध्यन् स्वपरैः सह ।

एवं निपतिता दैत्या असङ्ख्याता गतासवः

॥१३॥

पलाय्य निर्गताः केचिदाचख्युः सिन्धवेऽखिलम् ।

सभामध्ये वीरगणैरुपविष्टाय केचन

॥१४॥

शस्त्राघतैः स्रवद्रक्ताः पुष्पिता इव किंशुकाः ।

तत्रागत्य मृताः केचित् केचित् धैर्यात्तमब्रुवन्

॥१५॥

नगरद्वारगुल्मे तु दशकोटिनिशाचराः ।

निवृत्ताः शस्त्रसङ्घातैर्युद्धं कृत्वा परस्परम्

॥१६॥

यदा शैलभिदो युद्धमभूत्तत्र जयोऽभवत् ।

उपविष्टोऽसि किं तूष्णीं सिन्धो स्वहितमाचर

॥१७॥

आरामा रिपुभिर्दग्धा गृहाणि च प्रतोलिकाः ।

अन्धकारे धूलिकृते प्रापलन्वह्नितेजसा

॥१८॥

भुञ्जन्तो निद्रिताः केचिन्निर्ययुर्नगराद्बहिः ।

बालानादाय पपलुस्त्यक्त्वा भोगं च केचन

॥१९॥

विस्रस्तवसनाः केचिद्ध्यानस्था वह्निना हुताः ।

तत्रापि निधनं जग्मुर्नानाशस्त्रप्रहारतः

॥२०॥

धनञ्जयं सर्वदिक्षु वीक्ष्य पौरा भयातुराः ।

मेनिरे प्रलयं प्राप्तं दह्यते सकला पुरी

॥२१॥

क उवाच

एवं दूतमुखाच्छुत्वा सिन्धुर्जृम्भामथाकरोत् ।

खादन्निव मृगान्सिंहः पर्वतेन्द्रविनिर्गतः

॥२२॥

उवाच दुर्धरा सेना दृश्यते किं भविष्यति ।

दिदीपे क्रोधानलतो ग्रसन्निव त्रिविष्टपम्

॥२३॥

सिंहस्याग्रे किं शशकः करिष्यति पराक्रमम् ।

मेरोः किं शलभः कुर्याच्चालनं जम्बुकोऽपि वा

॥२४॥

कालस्य मम किं कुर्याद्बालोऽयं तु मयूरराट् ।

इत्युक्त्वा क्ष्वेडितेनासौ नादयन्विदिशो दिशः

॥२५॥

चिन्तातुरः क्षणं तस्थौ मुनिर्मौनमिवास्थितः ।

ततो वीरा सिन्धुदैत्यं प्राब्रुवन्क्रोधमूर्छिताः

॥२६॥

आज्ञां देहि मयूरेश जेष्यामः क्षणमात्रतः ।

तव प्रतापात्त्रैलोक्यं वशं नेष्याम साम्प्रतम

॥२७॥

सिन्धुरुवाच

सम्यगुक्तं महावीरा ममापि रिपुदर्शने ।

मन उत्कण्ठितं यस्मात्सैन्येन युद्धयतामिह

॥२८॥

ततः सर्वे पुरो याता गर्जन्तो वीरसत्तमाः ।

असङ्ख्याताः शस्त्रधराश्चतुरङ्गबलान्विताः

॥२९॥

हयारूढः सिन्धुदैत्यः क्रोधहर्षसमन्वितः ।

वमन्क्रोधानलं वक्त्रान्नेत्राभ्यां रणदुर्मदः

॥३०॥

ययावश्वं पुरोधाय मनोवेगं महाधनम्

॥३१॥

इति श्रीगणेशपुराणे क्रीडाखण्डे द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥