राजनिग्रहनाम सप्तपञ्चाशत्तमोऽध्यायः
क उवाच
तस्मिन्प्रयाते दैत्येन्द्रे प्राग्गुल्मेषु गता नराः ।
धावमाना नृपं प्रोचुर्भुक्तवन्तं नरान्तकः
॥१॥आगतो दैत्यराजोऽसौ चतुरङ्गबलान्वितः ।
पौरा वादित्रनिर्घोषान् श्रुत्वा चक्रुर्महास्वनान्
॥२॥कोलाहलो महानासील्लोकानां नगरे भृशम् ।
पलायिता दश दिशो लोकाः प्राणपरीप्सया
॥३॥राजाऽथ भोजनं त्यक्त्वा प्रोत्तस्थौ स्पर्शवानिव ।
कृत्वा युद्धक्षमं वेषं लोकानाज्ञापयत्पुरा
॥४॥सज्जीभवन्तु युद्धाय भेरीशब्दमकारयत् ।
खङ्गचर्मधरो राजा निषङ्गी चापवान्बली
॥५॥तनुत्राणी च कङ्काली पुपूजे तं विनायकम् ।
जयपूर्वं च तं स्मृत्वा नत्वा चाश्वं समारुहत्
॥६॥तृतीयमानकारावं श्रुत्वा सेनाचरा ययुः ।
सन्नद्धास्त्वरमाणाश्च पत्त्यश्वस्यन्दनैर्गजैः
॥७॥अतिप्रहृष्टास्ते योधास्त्रैलोक्यग्राससाहसाः ।
नगर्याः पूर्वभागे स वेदिकायां स्थितो नृपः
॥८॥अमात्यान् सर्ववीरांश्च ददौ वस्त्रधनानि सः ।
उवाच समयोऽयं वो दर्शयन्तु पराक्रमम्
॥९॥विनायकानुग्रहान्नो न भयं विद्यते कचित् ।
तथापि बलवान् दैत्यो बलाज्जिग्ये वसुन्धराम्
॥१०॥जयस्य नियमो नास्ति दैवाधीनाश्च पूरुषाः ।
न सेना लक्षभागेन विद्यतेऽतोऽब्रवीम्यहम्
॥११॥क्व सागरः क्व कुम्भोदं क्व खद्योतः क्व वा रविः ।
तेनैव रक्षिताः साम्ना स्थिता राज्यश्रिया वयम्
॥१२॥अपराधाः सुबहवो जाता नो मस्तके ततः ।
कियन्तो निहता दैत्या विनायकबलेन च
॥१३॥त्यक्त्वा साम प्रयातोऽसौ विचारः क्रियतां हितः ।
मुनिरुवाच ।
तत्राब्रवीन्महामात्यो राजानं भयविव्हलम्
॥१४॥चतुर्भिर्बुद्धिमद्भिस्त्वं याहि दैत्यं नरान्तकम् ।
शरणं स्वस्वकार्यार्थे नीचानुशरणं शुभम्
॥१५॥बृहस्पतिमतं राजन् ब्रवीमि ते शृणुष्व तत् ।
श्रुत्वा तत्कुरू राजेन्द्र ततः क्षेमं भविष्यति
॥१६॥बृहस्पतिरुवाच
कन्याप्रदानसहभोजनवस्त्रदान-सामाभिधाननमनप्रणयप्रमाणैः ।
तत्कीर्तिकीर्तनतदाप्तजनानुवाद-मुख्यैरुपायनिचयैरहितान्विहंस्यात्
॥१७॥मुनिरुवाच
स चेद् विनायकं याचेद् दत्त्वा राज्यस्य रक्षणम् ।
कर्तव्यमिति मे भाति स्वहितं तद्विचिन्त्यताम्
॥१८॥ततः सर्वजनाः साधु साध्विति प्राब्रुवन्नृपम् ।
सम्यगुक्तममात्येन वैरच्छेदाय भो नृप
॥१९॥विचारयत्सु तेष्येवं दैत्यास्ते बलवत्तराः ।
रुरुधुस्तां पुरीं सैन्यै सर्वे ते शलभा इव
॥२०॥मध्ये गतान् नरान् दृष्ट्वा ददहुस्तां पुरीं खलाः ।
प्रजज्वाल महानग्निश्चतुर्दिक्षु विदिक्षु च
॥२१॥धूमेनाच्छादि तपनो न प्राज्ञायत किञ्चन ।
कल्पान्त इव तत्रासील्लोकानामतिदारुणः
॥२२॥ध्रीयन्ते ते परैर्येऽग्निभयाद् यान्ति बहिर्नराः ।
सबाला योषितश्चापि लिलिङ्गुश्च चुचुम्बिरे
॥२३॥पतिव्रतास्त्यजुः प्राणान् लज्जयाऽतिपरिप्लुताः ।
आरुह्य गोपुरं काश्चिद्देहत्यागं प्रचक्रिरे
॥२४॥अपरास्तत्यजुः प्राणान् शस्त्रैः पाशैर्विषैरपि ।
अतिरन्या धृता दूतैर्नीतास्ता स्वामिनं प्रति
॥२५॥नरान्तकेन भुक्त्वा ताः प्रेषिता नगरं स्वयम् ।
एवं तं प्रलयं दृष्ट्वाऽमात्यानूचे नृपः पुनः
॥२६॥अस्मत्समक्षं योषाश्चेन्नीता दुष्टैर्दुरात्मभिः ।
तदाऽयशो महन्नःस्यात्तस्माद्युध्यामहेऽसुरैः
॥२७॥एवमुक्त्वा स्वमश्वं स प्रेरयन्युद्धदुर्मदः ।
सज्जं कृत्वा धनुः सद्यो बाणवृष्टिमथाकरोत्
॥२८॥आच्छादितो रश्मिमाली दैत्या मोहमुपागमन् ।
धाराधरा यथा धारा विमुञ्चन्ति तथा धनुः
॥२९॥मुञ्चन्ति स्म शरैस्ते ते निहता दैत्य सञ्चयाः ।
केचिन्मृताश्च भग्नाश्च केचिन्निश्चरणाः कृताः
॥३०॥केषाञ्चिदुदरं भग्नं परेषां बाहवो हताः ।
केषाञ्चि त्स्फोटिते नेत्रे केषाञ्चिदुरवोऽपि च
॥३१॥अमात्याः सेनया सार्द्धं काशीराजं समन्वयुः ।
खड्गैः परश्चधैस्ते तान्परवीरान् निजघ्निरे
॥३२॥तदाघातैर्हताः केचित्पतिता भूतले परे ।
तेऽपि दैत्या महाशस्त्रैर्निजघ्नुस्तान् रणाजिरे
॥३३॥अन्धकारे महारौद्रे सेनाधूलिकृते परे ।
निजघ्नुरेव शस्त्रैस्ते वीरान् स्वाँश्च परानपि
॥३४॥मल्लयुद्धं च चक्रुस्ते परस्परजिगीषया ।
अश्वारुढैर्गजारूढै रथारूढैः पदातिभिः
॥३५॥पदाताश्च रथारूढा युयुधुः शस्त्रसायकैः ।
एवं सम्भ्रान्तमभवत् तद् युद्धं तुमुलं परैः
॥३६॥प्रभग्ना दैत्यसेना सा तदा याता पराङ्गमुखी ।
सिंहनादं चकारोच्चैः काशिराजो जयान्वितः
॥३७॥हर्षात् सेनान्तरं यातो निघ्नन् युद्धे वरान्वरान् ।
भिन्दन्सेनां महाघोरां युद्धावेशी गजो यथा
॥३८॥शतं सहस्रं वीराणां सेनामध्ये जघान सः ।
निघ्नन्तं तं तथा दृष्ट्वा रुरुधुः परसैनिकाः
॥३९॥राजाऽयमिति बुद्ध्वा ते सर्व एव समाययुः ।
तच्छराणां महावृष्टिं सोढ्वा दध्रुर्बलादमुम्
॥४०॥अमात्ययोस्तु पुत्राभ्यां सह ते दैत्यपुङ्गवाः ।
सेनाचरा महाशब्दं धृतो राजेति चक्रिरे
॥४१॥ततः सेनाचरा राज्ञो धृताः केचित्पलायिताः ।
मृताः केचित्क्षताः केचिच्छरणं केऽपि तान्ययुः
॥४२॥महावने महोक्षेव बलवद्भिर्वृकैरिव ।
अमात्यपुत्रसहितं निन्युर्दूता नरान्तकम्
॥४३॥दग्धा च नगरी सर्वा निवार्यैः सैनिकैस्तु सा ।
ततो नरान्तकः स्वीयान् जगाद वीरसत्तमान्
॥४४॥यदर्थमागता वीरास्तत्कार्यं सिद्धमेव नः ।
न मेऽस्ति गणना तस्य मुनिपुत्रस्य साम्प्रतम्
॥४५॥जिते प्रभौ जिता सेना जिते दुर्गे जितं पुरम् ।
काशिराजे जिते बालो जित एव न संशयः
॥४६॥अथानेष्यति राजाऽयं बालं निग्रहतोऽधुना ।
एवमुक्त्वा ययौ वाद्यनिर्घोषैः स तथा पुरीम्
॥४७॥काशिराजं पुरस्कृत्य स्तूयमानोऽथ बन्दिभिः ।
यच्छन् वस्तूनि बन्दिभ्यो ददौ विप्रेभ्य एव च
॥४८॥इति श्रीगणेशपुराणे क्रीडाखण्डे राजनिग्रहनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥