गन्धर्वपराजयो नामकत्रिशत्तरशततमोऽध्यायः
क उवाच
ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकम् ।
तज्ज्ञात्वा प्राह तं नन्दी स्वामिन् युष्मत्प्रसादतः
॥१॥शोषयिष्ये समुद्रांस्तु चूर्णयिष्ये गिरीनपि ।
आज्ञापय ततो मह्यं भवान्कार्यं हृदि स्थितम्
॥२॥क उवाच
भणितं तस्य तच्छुत्वा तुष्टः प्राह हरः स तम् ।
हर उवाच ।
साधु साधु त्वया प्रोक्तमाशयं मे विवृण्वता
॥३॥पौरुषं ते मया ज्ञातं शतशो नन्दिकेश्वर ।
इदानीमथ यत्कार्यं वदामि तत्कुरुष्व भोः
॥४॥माहिष्मत्यां महापुर्यामास्ते राजा महाबलः ।
वरेण्य इति विख्यातो नाना धर्मपरायणः
॥५॥यस्य पत्नी महाभागा पुष्पिका नाम नामतः ।
तस्यां सद्यः प्रसूतायां सुप्तायां कापि राक्षसी
॥६॥निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु ।
नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्राति सा शुभा
॥७॥क उवाच
एवमाज्ञां समाकर्ण्य शङ्करेण समीरिताम् ।
शीघ्रं बालं समादाय नभोमार्गेण सत्वरः
॥८॥प्राक्षिपत्पुरतो बाल सा न सुप्ता बुबोध तम् ।
शीघ्रमुड्डीय स प्रायान्नन्दिकेशो महेश्वरम्
॥९॥उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् ।
अकस्माद्गगनादेवं राक्षसी घोरदर्शना
॥१०॥भक्षयन्ती बालमांसं मामाश्रित्य स्थिता विभो ।
तव प्रसादात्पुच्छेन वेष्टिता राक्षसी मया
॥११॥भ्रामयित्वा विनिक्षिप्ता महापर्वतमस्तके ।
शतधा खण्डिता सा तु त्वन्नामोच्चारणात्प्रभो
॥१२॥ततोऽपश्यं महाव्रातं गन्धर्वाणां दुरात्मनाम् ।
कथं मया तैर्योद्धव्यं रक्षितव्यः कथं शिशुः
॥१३॥इति चिन्ताकुलतया स्मृतस्त्वं हृदि शङ्कर ।
ततः पुच्छेन शृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया
॥१४॥हुङ्कारेण च तान्सर्वान्निवार्य बलवत्तरान् ।
मृताः केचिद् हताः केचित् केचिद्भग्नशिरोङ्घ्रयः
॥१५॥पतिताः शतधा भूमौ पुष्पवृष्टिस्ततोऽपतत् ।
ततोऽहमगमद्देव कृत्वा कार्यं त्वयेरितम्
॥१६॥तवेच्छाविषयं को नु हन्यात् त्रैलोक्यमण्डले ।
अतस्त्वन्नामतो देव जयं प्राप्तः स बालकः
॥१७॥ततः शिवो हर्षयुतो लिलिङ्ग नन्दिकेश्वरम् ।
उवाच च प्रसन्नात्मा ज्ञातं ते पौरुषं दृढम्
॥१८॥नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर ।
क उवाच ।
ततः प्रणम्य विश्वेशं पार्वतीमगमच्च सः
॥१९॥प्रणम्य तां योज्य हस्तौ प्रोचे मधुरया गिरा ।
मातः शिवाज्ञया बालो नीतो माहिष्मतीं पुरीम्
॥२०॥वरेण्यपत्न्याः पुरतः पुष्पिकाया न्यधायि सः ।
यतस्तेन पुरा दत्तो वरस्तस्य बभूव ह
॥२१॥अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः ।
निशम्य वचनं तस्य सर्वज्ञा पार्वती तदा
॥२२॥जहर्ष जननी तस्य शिशोर्वीर्यमनन्तकम् ।
उवाच परया भक्त्या ज्ञातं ते पौरुषं सुत
॥२३॥हता त्वया महाघोरा राक्षसी घोरनिस्वना ।
गन्धर्वाश्च हता दुष्टा रक्षितश्चैव बालकः
॥२४॥अज्ञातस्थापितस्तत्र महाकार्यमिदं कृतम् ।
इत्युक्त्वा विससर्जामुं विश्रान्तिं चाकरोत्तदा
॥२५॥इति श्रीगणेशपुराणे क्रीडाखण्डे गन्धर्वपराजयो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥