बालचरिते भक्तिप्रशंसा कथनं नाम पञ्चविंशतितमोऽध्यायः
तावूचतुः
सर्वेषां कारणानां त्वं कारणं कारणातिगः ।
ब्रह्मस्वरूपो ब्रह्माण्डकारणं व्यापकः परः
॥१॥पासीदं सृजसे विश्वं त्वमेव हरसेऽनघ ।
नानारूपैररूपस्त्वं नानामाया बलान्वितः
॥२॥त्वमेव पञ्चभूतानि यक्षगन्धर्व राक्षसाः ।
कस्त्वां स्तोतुं समर्थः स्याच्चराचरस्वरूपकम्
॥३॥नेति नेति ब्रवीति स्म त्वद्रूपाज्ञानतः श्रुतिः ।
आवां विमोहितौ ज्ञातुं नेशाथे रूपमुत्तमम्
॥४॥महिमानं न जानीवोऽनेकरूपस्य ते विभो ।
कृतकृत्यौ भवत्पाददर्शनात्स्वः प्रभोऽधुना
॥५॥नानावतारैर्भूभारं हरसेऽनन्तशक्तितः ।
क उवाच ।
एवं तयोः स्तुति श्रुत्वा प्रीत्या प्रोवाच तावुभौ
॥६॥विनायको बालरूपी कौतुकी मायिकोऽपि च ।
तत्त्वज्ञौ मत्प्रसादाच्च सर्वज्ञौ च भविष्यथः
॥७॥एवं दत्वा वरं देवस्तत्रैवान्तरधीयत ।
ततस्तौ मूर्त्तिमतुलां कृत्वा सम्यग्विनायकीम्
॥८॥कृत्वा प्रासादामतुलं रत्नकाञ्चनसंयुतम् ।
स्थापयामासतुरुभौ सनकश्च सनन्दनः
॥९॥आख्यां च चक्रतुस्तस्या वरदोऽयं विनायकः ।
गणेशकुण्डमिति च कृतं ताभ्यां सरोवरम्
॥१०॥अत्र स्नात्वा पूजयेद्यो वरदं तं विनायकम् ।
स कामानखिलान् प्राप्य भुक्त्वा भोगाननेकशः
॥११॥अवाप्यपुत्रान् पौत्राश्च विद्यामायुर्यशो महत् ।
धनं धान्यं यशश्चापि तत्त्वज्ञानं च शाश्वतम्
॥१२॥अन्ते वैनायकं धाम याति नास्त्यत्र संशयः ।
क उवाच ।
यत्र देवाःसगन्धर्वा यक्षाश्चाप्सरसां गणाः
॥१३॥दृष्ट्वा सम्पूज्य देवेशं तत्रैवान्तर्हिताः क्षणात् ।
सम्प्राप्तविस्मयौ तौ च जग्मतुर्दिवमुत्तमम्
॥१४॥काशिराजोऽपि तत्रैत्य सामात्यःसप्रजस्तुतम् ।
नानाद्रव्यैरलङ्कारैर्वस्त्रैरुच्चावचैरपि
॥१५॥पक्वान्नैश्चाप्यनेकैश्च फलैर्नानाविधैरपि ।
रत्नैर्मुक्ताफलैः पुष्पैर्दक्षिणाभिरनेकशः
॥१६॥पुपूज परया भक्त्या ब्राह्मणैः सह मन्त्रतः ।
ब्राह्मणान् पूजयामास वस्त्रालङ्कारकाञ्चनैः
॥१७॥आशिषः परिगृह्यैव नगरं पुनरागमत् ।
तथैव ताः प्रकृतयः पुपूजुस्तं विनायकम्
॥१८॥तथैव ब्राह्मणान् पूज्य जगृहुराशिषः पराः ।
ततः प्रजास्तं पुपूजुर्यथाशक्ति विनायकम्
॥१९॥सर्वे तेहृष्टमनसः पुरं प्रविविशुस्तदा ।
इति ते सर्वमाख्यातं विनायकविचेष्टितम्
॥२०॥सर्वपापपहरं पुण्यं किमन्यच्छ्रोतुमिच्छसि ।
मुनिरुवाच ।
श्रुतं चरित्रं शुक्लस्य शुक्लभिक्षारतस्य च
॥२१॥धातुस्पर्शविहीनस्य गृहं यातौ विनायकः ।
भुजैर्दशभिरादाय ह्योदनं शिथिलं जलैः
॥२२॥जग्ध्वा त्यक्त्वा श्रमं तृप्तो दारिद्र्यञ्चव्यनाशयत् ।
दत्तं गृहं तु शुक्लस्य शक्रस्य नगराद्वरम्
॥२३॥सम्पदोऽपि तथा दत्ता याः सन्ति ह्यलकाधिपे ।
स्वरूपं च तथा दत्तं यन्नास्ति मकरध्वजे
॥२४॥ज्ञानं तस्मै तथा दत्तं यन्नास्ति चतुरानने ।
अत्र किं कारणं ब्रह्मन् तन्मे व्याख्यातुमर्हसि
॥२५॥क उवाच
सम्यक् पृष्टं त्वया व्यास परमेशकथा यतः ।
पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितःश्रुता
॥२६॥मनो मे हि स्थितं वक्तुं तत् पृष्टं हि त्वया विभो ।
सम्यक् तेऽहं वदिष्यामि भक्तिगम्यस्य चेष्टितम्
॥२७॥सर्वज्ञः सर्वदर्शी च सर्वगः सर्वचित्तवित् ।
भक्त्यैव तुष्यते देवो भावो हि तोषकारणम्
॥२८॥भक्त्या हृतं पलाशं च जलं पुष्पं मनोहरम् ।
तेनैव परितुष्टोऽसावात्मानं च प्रयच्छति
॥२९॥दम्भेन हेलया वापि लज्जयाऽपि परस्य वा ।
महाधनं महावित्तं रत्नानि विविधानि च
॥३०॥काञ्चनं राजतं मुक्ता दत्तं सर्वं वृथा भवेत् ।
शमीपत्रेण तुष्टोऽसौ व्याधायाऽदात् सलोकताम्
॥३१॥प्रसङ्गतोऽपि दत्तेन भावं कृत्वा दृढं हृदि ।
अनायासेन लब्धेन तस्माद् भक्तिर्गरीयसी
॥३२॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भक्तिप्रशंसाकथनं नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥