शलभासुरवधो नामैकोननवतितमोऽध्यायः
क उवाच
ततस्तु दशमे मासे त्रिमुहूर्तागते रवौ ।
किञ्चिच्च रिङ्गमाणोऽसौ रमते च शिवासुतः
॥१॥पादाभ्यां चालयन्क्वापि गूढं गूढं च भाषते ।
लुण्ठते नर्तते चापि रोदनं कुरुते च ताम्
॥२॥दृष्ट्वा शिवां च सहसा पृष्ठलग्नो व्रजत्यपि ।
दृष्ट्वा तथाविधं बालं जहृषे पार्वती तदा
॥३॥एतस्मिन्नन्तरे दृष्टो दैत्य आजगराभिधः ।
वमदग्निकणान्दृष्ट्या वज्रसारतनुर्दृढः
॥४॥ललज्जिव्हो दीर्घदेहो ग्रसन्निव महागिरिम् ।
उपविष्टो द्रुमतले द्वे जिव्हे लालयन्मुहुः
॥५॥तं बालो बालभावेन रिङ्गित्वा विदधार ह ।
स निनाय च तं शीघ्रमास्यान्तः सह तेन च
॥६॥अन्तःप्रविष्टे ओष्ठौ स न्यमीलयत वायुभुक् ।
नापश्यदङ्गणे बालं गौरी विव्हलमानसा
॥७॥अत्र कीडन्स्थितो बालः केन नीतो हतो नु वा ।
शुशोच परमार्तासौ तताड मस्तकं निजम्
॥८॥तावद् गणैर्निषिद्धा सा मा मातर्विमना भव ।
बालप्रभावो विज्ञातः शतशो बलवत्तरः
॥९॥बालस्तदुदरगतो ववृधे च निरुध्य च ।
श्वासं तस्य तु दैत्यस्य पुच्छान्तं सोऽप्यचालयत्
॥१०॥प्राणवायुस्तु नेत्राभ्यां रुधिरेण विनिर्ययौ ।
विदार्य देहमस्यासौ बहिर्यातोऽम्बिकासुतः
॥११॥चिक्रीड रुधिरार्द्राङ्गः किं नु पुष्पितकिंशुकः ।
ततो गणास्तं निरीक्ष्य लिहन्तं स्वाङ्गुलिं शिशुम्
॥१२॥उच्चैरुचुर्गिरिसुतामयं बालो विनिर्गतः ।
अस्यास्यान्मारयित्वा तं दैत्यमाजगरं खलम्
॥१३॥क उवाच
तद्वधानन्तरं बालमादाय सत्वरं शिवा ।
स्नापयामास सहसा लालयित्वा स्तनं ददौ
॥१४॥क्व गतोऽसि क्षणो बाल त्वां विनाब्दत्वमागतः ।
ततो ददर्शाजगरं विस्तीर्णं शतयोजनम्
॥१५॥भयानकमुखं दुष्टं वमन्तं रुधिरं बहु ।
पतितं वृक्षजालानि पातयित्वा गृहाणि च
॥१६॥गौर्युवाच
अस्मिन्स्थले कियन्तो नु भवेयुर्दैत्यराक्षसाः ।
कियन्तो निधनं प्राप्ता अस्य बालस्य विक्रमात्
॥१७॥ततस्तं चिक्षिपुः सर्वे गणा दूरे महासुरम् ।
ततस्त्वेकादशे मासे द्वारदेशे शिवा ययौ
॥१८॥पश्यन्ति सखीभिर्बालकौतुकानिबहून्यपि ।
कस्यचिद्वदनं बालश्चुम्बते चुम्बयत्यपि
॥१९॥आच्छादते चक्षुषी च कस्यचित्पृष्ठगः स्वयम् ॥
पिबते मातुरन्यस्याः स्तन्यं गत्वा बलादसौ
॥२०॥मुखमाच्छाद्य वस्त्रेण बिभीषयति चापरान् ॥
मुखं केशान्नासिकाञ्च कर्षते भूषणान्यपि
॥२१॥वदते स्खलितां वाणी परान् दृष्ट्वा स्वकानपि ।
एतस्मिन्नन्तरे दुष्टो दानवः शलभासुरः
॥२२॥ब्रह्मादीनागम्योऽसौ पर्वतस्कन्धमण्डलः ।
व्योमस्फोटिमहामूर्धा नीलवर्णो यथा घनः
॥२३॥जपाकुसुमनयनो मेघस्पृक्शृङ्गमण्डलः ।
बालान्तिकमुपायातो ग्रसन्निव जगत्त्रयम्
॥२४॥तं धर्तुं बालको याति यत्र यत्र स गच्छति ।
एवं तौ सुचिरं कालं भ्रमतः स्म महाजवौ
॥२५॥ततः श्रान्तोऽभवद्बालो रुषाऽधावत् तदन्तिकम् ।
दधार सहसा दैत्यं शलभं बलवत्तरम्
॥२६॥सपक्षौ स्फालयामास श्येनो हस्तगतो यथा ।
बाधते चरणाघातैस्तं बालं शलभासुरः
॥२७॥प्रसार्य नयने क्रूरे पश्यती स्म तदा शिशुम् ।
मुमुचे तं तदा बालो दधार च पुनःपुनः
॥२८॥दर्शयामास जननीं धरापृष्ठे व्यपोथयत् ।
शिवोवाच दयाविष्टा तं बालं क्रूरमानसम्
॥२९॥जीवघातो न कर्तव्यो मुञ्चनं प्राणिनं शिशो ।
बलात् पुनः शिलापृष्ठे हठाच्चिक्षेप बालकः
॥३०॥स तदा शतधा जातो निपपात च भूतले ।
गर्जयन् गगनं वृक्षान्पातयन् गृहतोरणान्
॥३१॥वमन् रक्तं बहु मुखाद् दशयोजनविस्तृतः ।
चूर्णयन्नाश्रमान् वृक्षांस्ततो माता निनाय तम
॥३२॥बालं संस्थापयामास प्रादात् स्तन्यं च भोजनम् ।
सख्यो निरीक्ष्य तं बालं मृतं दैत्य तथाविधम्
॥३३॥साधु साध्विति ताः प्रोचुस्तां च पर्वतकन्यकाम् ।
गृहं विवेश गिरिजाताश्च सख्यो मुदान्विताः
॥३४॥चिक्षिपूर्दूरतो दैत्यं तदाज्ञावशगा गणाः ।
मुमुचुः पुष्पवर्षाणि बालं देवगणास्तदा
॥३५॥इति श्रीगणेशपुराणे क्रीडाखण्डे आजगरासुरशलभासुरवधो नामैकोननवतितमोऽध्यायः ॥ ८९ ॥