राजमोक्षणं नामैकोनषष्टितमोऽध्यायः
मुनिरुवाच
विनायकेन बालेन कुतः स पुरुषः कृतः ।
येन तद्भक्षितं सैन्यमानीतः स नरान्तकः
॥१॥एतन्मे प्रकटं ब्रूहि संशयोऽत्र महान्मम ।
क उवाच ।
यन्निर्गुणं परं ब्रह्म तदेतत् सगुणं बभौ
॥२॥विनायकस्वरूपेण ब्रह्मविष्णुशिवात्मकम् ।
भूभारहरणार्थाय दुष्टानां निधनाय च
॥३॥पालनाय स्वधर्मस्य बिभ्रतेऽनन्तरूपताम् ।
स एव सृजते विश्वं पाति हन्ति स्वतेजसा
॥४॥अपेक्षते स लोकानां निमित्तं नियतिं पराम् ।
न चात्र संशयः कार्योऽनेकमायामये विभौ
॥५॥तदिच्छया सर्वमिदं जगद्धि परिवर्तते ।
इदानीं तस्य मायां ते कथयिष्यामि विस्तरात्
॥६॥अमात्यपुत्रसहितो नरान्तकधृतो नृपः ।
यावन्न पत्तनं प्राप तावत्कालं पुमानसौ
॥७॥भक्षयामास तां सेनां दैत्येन परिपालिताम् ।
विनायकेन पुरुषो मुखेऽसौ निहितस्तदा
॥८॥राजामात्यकुमारौ च सोऽपि ते सर्व एव तु ।
जठरे तस्य देवस्य ददृशुः सकलं जगत्
॥९॥सप्तद्वीपवतीं पृथ्वीं पर्वतद्रुमसंयुताम् ।
सरित्सागरवापीभिस्तडागैर्मानवैः श्रिताम्
॥१०॥देवगन्धर्वमुनिभिः सिद्धयक्षनिशाचरैः ।
पन्नगैरप्सरोभिश्च शोभितं स्वर्गमण्डलम्
॥११॥पातालानि च सप्तानि भ्रमन्तो ददृशुस्तदा ।
एवं ते जठरे तस्य कोष्ठे कोष्ठे पृथक्पृथक्
॥१२॥ददृशुर्भ्रान्तमनसो ब्रह्माण्डनिचयान्बहून् ।
खिन्नास्ते शरणं जग्मुर्देवदेवं विनायकम्
॥१३॥मनसा प्रार्थयामासुस्तदा देवं विनायकम् ।
भ्रान्तानां खिन्नचित्तानां कृपां कुरू कृपानिधे
॥१४॥ततस्तान्बालरूपेण मार्गमादर्शयद्विभुः ।
ततो रोमाञ्चमार्गेण बहिर्याता यथा पुरा
॥१५॥ददर्श काशिराजः स्वं नगरं भद्रमेव च ।
कश्यपस्यात्मजं बालं क्रीडन्तं तं विनायकम्
॥१६॥तत्प्रसादादाप्तबुद्धिर्नुनाव परया मुदा ।
ज्ञाता ते परमा माया मया कुक्षिगतेन च
॥१७॥त्वमेव कर्ता देवानां मनुष्याणां दिशामपि ।
सर्गाणां सागराणां च सरितां बलिसद्मनाम्
॥१८॥यतस्ते रोमकूपेषु ब्रह्माण्डानां हि कोटयः ।
दृष्ट्वा भ्रान्तेन च मया प्रसादात्तव नाथ भो
॥१९॥आश्चर्यं बहुधा दृष्टं मया तव च विश्ववित् ।
अहं युद्धाय सम्प्राप्तो ध्वजिनी पुनरागता
॥२०॥नरान्तकस्य सैन्येन सा जिता तत्क्षणादनु ।
अमात्यपुत्रसहितो नरान्तकमुपाद्रवम्
॥२१॥विधृतस्तेन सहसा सैन्यं जित्वा ममक्षणात् ।
दग्धा च नगरी सर्वा दृष्टः स कालपूरुषः
॥२२॥तेनापि भक्षिता तस्य सेना नानाविधा क्षणात् ।
धृत्वा नरान्तकं यातः पुरुषः स तवान्तिकम्
॥२३॥सर्वे त्वदुदरं यातास्तत्र दुष्टोऽसि मे प्रभो ।
सर्व दृष्टं च तत्रापि जम्बुद्वीपं सविस्तरम्
॥२४॥एवं कोष्ठान्तरे दृष्टं भूतलं च सविस्तरम् ।
ततो हि खिन्नास्त्वां याताः शरणं जगदीश्वर
॥२५॥त्वदाज्ञया तु रोमाञ्चद्वारेण निर्गता बहिः ।
पुनर्दष्टोऽसि बालस्त्वं निजं च भवनं महत्
॥२६॥किमिदं कौतुकं देव मायाजालमिदं विभो ।
कश्चासौ पुरुषो देव येनाभक्षि महाचमूः
॥२७॥केनासौ विधृतो दैत्यो रक्षितश्चापि केन च ।
केनादर्शि च रोमाञ्चद्वारं निर्गमनाय च
॥२८॥इति मे संशयं देव नुद भक्तस्य यत्नतः ।
क उवाच ।
एवं तेन कृतः प्रश्नो मस्तके तस्य धीमतः
॥२९॥विनायकः करतलं कृपया निदधार ह ।
दिव्यज्ञानोऽभवद्राजा काशीराजस्तु तत्क्षणात्
॥३०॥तुष्टाव परया भक्त्या देवदेवं विनायकम् ।
राजोवाच ।
त्वमेव ब्रह्मा विष्णुश्च महेशो भानुरेव च
॥३१॥त्वमेव पृथिवि वायुरन्तरिक्षं दिशो द्रुमाः ।
पर्वतैः सहिताः सिद्धा गन्धर्वा यक्षराक्षसाः
॥३२॥मुनयो मानवाश्चापि स्थावरं जङ्गमं जगत् ।
त्वमेव सर्वं देवेश सचेतनमचेतनम्
॥३३॥जन्मान्तरीयपुण्येन दृष्टोऽसि कश्यपात्मज ।
क उवाच ।
एवं ब्रुवति राजेन्द्रे मोहयामास तत्क्षणात्
॥३४॥ततो राजा पुपूजैनं विनायकमनामयम् ।
ततः पौरा हर्षयुता राजानं द्रष्टुमाययुः
॥३५॥नत्वा नत्वा ददुस्तस्मै वस्त्राण्याभरणानि च ।
राजाऽपि दापयामास तेभ्यो वस्त्राण्यनेकशः
॥३६॥विसृज्य लोकांस्तान्सर्वान् जननीमभ्यगात्ततः ।
तव प्रसादान्मातस्ते दृष्टं पादयुगं मया
॥३७॥गृहीतो दैत्यराजेन देवदेवेन रक्षितः ।
ततो हर्षयुता माताऽऽलिलिङ्ग तं चिरागतम्
॥३८॥अमात्यौ राजपत्नीं तां नत्वाहतुरुभौ तदा ।
तव पुण्यप्रभावेण दृष्टं ते चरणाम्बुजम्
॥३९॥विनायकस्य मायाभिर्मोहिता मोचिताश्च ह ।
ततस्तत्र ययौ राजा भार्यामम्बा जगाद च
॥४०॥निवृतेषु च लोकेषु हर्षगद्गगया गिरा ।
राजोवाच ।
परमं कष्टमापन्नो धृतो दैत्येन तत्क्षणात्
॥४१॥मोचितो माययाऽनेन प्रापितो नगरं निजम् ।
क उवाच ।
शुशुभे नगरं तच्च नानावादित्रनिस्वनैः
॥४२॥पताकाभिरनेकाभिर्विविधैश्च महोत्सवैः ।
प्रत्यानीतैः सर्वलोकैर्विनायकबलेन च
॥४३॥कुमाराः कन्यकाश्चापि योषितः पतयोऽपि च ।
जनकाश्च जनन्यश्च पुत्राश्च भ्रातरस्तथा
॥४४॥लिलिङ्गुश्च जहर्षुश्च ददुर्दानान्यनेकशः ।
बुभुजुर्भोजयामासुर्लुलोकुश्च पपुर्जगुः
॥४५॥इति श्रीगणेशपुराणे क्रीडाखण्डे राजमोक्षणं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥