बालचरिते षट्त्रिंशत्तमोऽध्यायः
गृत्समदुवाच
सहयाद्रिपर्वते देवो न्यवसद् गिरिजायुतः ।
स्वगणैर्मुनिभिर्युक्तः पुण्यक्षेत्रे महाबले
॥१॥दिदृक्षुः प्रययौ तत्र ब्रह्मा लोकपितामहः ।
पत्नीद्वयसमायुक्तो देवगन्धर्वकिन्नरैः
॥२॥दृष्टवा तु शङ्करं पूज्य स्वाभिप्रायं न्यवेदयत् ।
आकारयामास तदा परमर्षीन् सदाशिवः
॥३॥जमदग्निं वसिष्ठं च मार्कण्डेयं च नारदम् ।
कपिलं पुलहं कण्वं विश्वामित्रं त्रितं द्वितम्
॥४॥त आययुः शिवाहूता अन्ये सर्वे दिदृक्षवः ।
उषःकाले मुहूर्तं ते निष्कास्य प्रारभन् मखम्
॥५॥त्वरावन्तोऽथ विस्मृत्य पूजां वैनायकीं शुभाम् ।
सावित्रीं गृहकार्येषु सक्तां त्यक्त्वा मुनीश्वराः
॥६॥गायत्रीमुपवेश्यैव पुण्याहवाचनं च ते ।
कारयित्वाऽभ्युदयिकं मातपूजनपूर्वकम्
॥७॥अस्थापयन्नग्निकुण्डे यावद् वैश्वानरं च ते ।
सावित्री तावदायातारम्भं दृष्ट्वा रुषान्विता
॥८॥उवाच क्रोधरक्ता सा वीक्ष्य सर्वान् सभासदः ।
सावित्र्युवाच ।
मामनादृत्य यागोऽयं समारब्धो न सेत्स्यति
॥९॥ऋषिरुवाच
मुञ्चन्ती मुखतो ज्वाला दग्धुकामा चराचरम् ।
शशाप सा देवमुनीन् जडा यूयं भविष्यथ
॥१०॥नियुक्त्वाऽनधिकारां तां गायत्रीं सर्व एव यत् ।
ततो देवाः प्रणम्यौच्चैः प्रार्थयामासुरुत्सुकाः
॥११॥सावित्रीं सर्वजननी डलयोरैक्यतः शुभे ।
जलरूपा भविष्यामो नदीनदस्वरूपिणः
॥१२॥तथेत्युक्ते तया देव्या नदीरूपत्वमागताः ।
वेण्या नाम्ना महेशोऽभूत्कृष्णः कृष्णाऽभवन्नदी
॥१३॥तत्तन्नाम्ना बभूवुस्ते सरितः सर्वदेवताः ।
यत्र पूर्वं विघ्नराजो नार्च्यते ज्ञानदुर्बलैः
॥१४॥तत्र विघ्ना भवन्त्येवं शङ्करस्य यथा पुरा ।
पुरत्रयवधे जाता विघ्नास्तस्याप्रपूजनात्
॥१५॥ब्रह्मा चिन्तां परां प्राप मखविघ्न उपस्थिते ।
मन्निमित्तं सुराः सर्वे धुनीरूपमुपागताः
॥१६॥विमानं सर्वलोकेषु गमितः केन कर्मणा ।
सङ्कल्पबाधश्व कथमद्य प्राप्तो दुरत्ययः
॥१७॥विघ्नहर्ता जगन्नाथो न स्मृतो न च वाऽर्चितः ।
सर्वेषां चैव देवानां यतो मोहः समाविशत्
॥१८॥तं प्रसन्नं करिष्यामि ततो यज्ञो भविष्यति ।
एवं यावच्चिन्तयते ब्रह्मा तावत्सुराङ्गनाः
॥१९॥देवान् वै तादृशान् ज्ञात्वा समीयुर्ब्रह्मणोऽन्तिकम् ।
पुलोमजा च गिरिजा छायाऽपि कमलाऽपि च
॥२०॥अन्या अपि समूचुस्तं सर्वास्ताः कमलाननम् ।
कथं यज्ञः समारम्भि मान्या नो मानिता कथम्
॥२१॥नापूजि च कथं विघ्नहर्ता पूर्वं गजाननः ।
त्वयि विस्मरणं चैव न वाऽस्मारि सुरैः कथम्
॥२२॥किमस्माभिरनुष्ठेयं देवैर्वा जलरूपिभिः ।
कं याम शरणं देव त्वदृते कमलोद्भव
॥२३॥इति तासां वचः श्रुत्वा मा भयं कुरुतेति कः ।
ता उवाच यजिष्येऽहं यथा सर्वं भवेच्छुभम्
॥२४॥किमसाध्यं हि भक्तानां सुप्रसन्ने गजानने ।
सर्वाः कुरुध्वं तद्भक्तिं स वः सर्वप्रियं चरेत्
॥२५॥प्रसादयिष्येऽहमपि जगदीशं विनायकम् ।
अनादिनिधनं देवं सर्वकारणकारणम्
॥२६॥इत्युक्तास्ता गता दूरं देशं कर्णाटकं शुभम् ।
मन्दारमूलं विघ्नेशं स्थित्वा ध्यातुं तदीरिताः
॥२७॥रामेण स्थापितं पूर्वं वक्रतुण्डेति नामतः ।
यद्वरैर्विजयी रामो हत्वा राक्षसपुङ्गवान्
॥२८॥दशाननं च विख्यातं ययौ पत्न्या निजं पदम् ।
तेपुस्तत्र तपो घोरं सर्वास्ताः सुरयोषितः
॥२९॥काचिन्नामजपं चक्रे काचिन्मन्त्रजपं तथा ।
काचित्पद्मासनं तस्थौ ध्यायन्ती परमेश्वरम्
॥३०॥काचिद् वीरासनगता निराहारा तथाऽपरा ।
सम्मार्जयन्ती द्वाराणि चत्वराणि गृहाणि च
॥३१॥प्रदक्षिणानमस्कारैः कुर्वन्ती भक्तिमुत्तमाम् ।
काचिदेकाङ्गुष्ठगता तस्थौ ध्यात्वा विनायकम्
॥३२॥काचिन्निमील्य नयने स्तोत्राण्येवाऽपठत्तदा ।
बहुकाले व्यतिक्रान्ते न तुतोष विनायकः
॥३३॥तदा चिन्तां परां जग्मुः किं कुर्म इति विव्हलाः ।
ततः सुमनसां भारान् दूर्वाभारांस्तथाऽपराः
॥३४॥समर्प्य पुपुजुर्दैवं धूपदीपान्नकाञ्चनैः ।
मन्दारपुष्पैरन्याश्च शमीपतत्रैरथापराः
॥३५॥नभोवाणीं ततः श्रुत्वा शमीपत्रं विना विभुः ।
न सन्तुष्येदिति तदा सर्वा एव शमीदलैः
॥३६॥पुपूजः परया भक्त्या देवदेवं गजाननम् ।
ततःपरमकारुण्यात्सुप्रसन्नः शमीदलैः
॥३७॥आविरासीत्पुरस्तासां लसच्चारुचतुर्भुजः ।
किरीटकेयूरधरो हारकुण्डलमण्डितः
॥३८॥लम्बकर्णो लसद्गण्डो विषाणद्वयमण्डितः ।
सिद्धिबुद्धियुतश्चाखुवाहनः पीतवस्त्रवान्
॥३९॥सर्वास्ता ददृशुर्देवं कोटिसूर्यसमप्रभम् ।
निमील्य नयने नेमुर्दण्डवत् पृथिवीतले
॥४०॥तुष्टुवुस्ताः करपुटं कृत्वा सौम्य महाव्रतम् ।
अतिप्रसन्नवदनाः परमानन्दनिर्भराः
॥४१॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीपत्रार्पणप्रसन्नेन विनायकेन देवाङ्नाभ्यः स्वरूपदर्शनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥