तृतीयोऽध्यायः
क उवाच
ततः प्रातः समुत्थाय गुरून्ध्यात्वा सभाज्य च ।
स्मृत्वा नत्वाऽखिलान्देवान् जग्मतुर्नैऋतीं दिशम्
॥१॥कृत्वा मुत्रपुरीषे तु दन्तजिव्हा विशोध्य च ।
स्नात्वा सन्ध्यामुपास्यैताविष्टान् देवान् पुपूजतुः
॥२॥सम्पूज्य बाह्मणान् भक्त्या ददतुर्धनवाससी ।
आज्यमालोक्य कांस्यस्थं ददतुर्ब्राह्मणाय तत्
॥३॥सदक्षिणं समालोक्य दर्पणं निर्मलं तथा ।
परिधाय च वासांसि विचारं चक्रतुस्तु तौ
॥४॥ज्येष्ठ उवाच
अहं विजेष्ये स्वर्लोकान् वरदानान्महेशितुः ।
मृत्युलोकं च पातालं जय त्वं तत्प्रसादतः
॥५॥क उवाच
एवं तौ निश्चयं कृत्वा विलोक्य शुभवासरम् ।
एको ययौ स्वर्गलोकं वायुवेगसमो जवे
॥६॥यातोऽमरावतीं तत्र बभञ्जाराममण्डलम् ।
बद्ध्वा परिकरं तस्थौ शक्रस्य पुरतो बली
॥७॥कोलाहलो महानासीद् देवानां धावतां भृशम् ।
कोऽयं कोऽयं कथं यातोऽकस्मादिन्द्रसमीपतः
॥८॥घ्नन्तु बध्नन्तु सुदृढं दूरीकुर्वन्त्वमुं नरम् ।
इति ते धावमानास्ते सर्वे तेन निराकृताः
॥९॥उड्डीयोड्डीय सहसा निपत्य च पुनःपुनः ।
तदुड्डानान्निपतिताः स्त्रीगर्भाश्च महाद्रुमाः
॥१०॥कम्पिता पृथिवी सर्वा सपर्वतवनाकरा ।
तदङ्गदीप्त्या श्यामास्ते जाता विबुधसत्तमाः
॥११॥यथाऽऽमयजितो मर्त्यो याति सद्यो विवर्णताम् ।
तद्वत् तद्दर्शनात्सर्वे विवर्णत्वं गताः सुराः
॥१२॥इन्द्रोऽपि विव्हलो जातो विवर्णश्च तदा मुने ।
केचिद्दश दिशो याताः सन्नद्धा केऽपि चाभवन्
॥१३॥केचित्तं शरणं याता अत्यधीराः सुराधमाः ।
तत इन्द्रश्चतुर्दन्तं वज्रहस्तः समारुहत्
॥१४॥जगर्ज सुमहाभीमं चकम्पे भुवनत्रयम् ।
किं पश्यतेत्युवाचैनान् सन्नद्धान् सुरसत्तमान्
॥१५॥पौरुषं क्व गतं तावद् यवदत्रागतोऽसुरः ।
ततस्ते पुरतो जग्मुः सङ्ग्रामाय कृतोद्यमाः
॥१६॥सद्योत्सुकान् सुरान्प्रेक्ष्य प्रोचे देवान्तको हरिम् ।
किमर्थं श्रमसे शक्र विचारय वरान्मम
॥१७॥अन्तको भयसन्त्रस्तः पलायनपरो गतः ।
तृणप्रायं तु ते वज्रं मन्येऽहं शङ्कराज्ञया
॥१८॥मच्छ्वासात्सर्वतो यान्ति देवास्त्वद्दृष्टिवर्तिनः ।
श्रूयतां मद्वचः शक्र साम्नैव दीयतां मम
॥१९॥पदानि स्वानि सर्वाणि स्थीयतां यत्र कुत्रचित् ।
अन्यथा सकलं हित्वा वृथा मृत्युं प्रयास्यसि
॥२०॥देवान्तकेति मन्नाम न जानासि कथं सुर ।
क उवाच ।
इति तद्वचनं श्रुत्वा बिभिदे हृदयं हरेः
॥२१॥शक्रस्य च मुखादग्निः प्रबलो निर्गतो बहिः ।
अतितप्ते यथा तैले जलपाताद् यथा भवेत्
॥२२॥तत ऊचे महेन्द्रस्तं क्रोधावेशसमन्वितः ।
त्वादृशाः कति कति न निहता दानवा मया
॥२३॥त्वमिदानीं वराद् गर्वादागतोऽस्यसुराधम ।
वज्रपाताद्धतो नूनं धरण्यां निपतिष्यसि
॥२४॥अन्यपदप्रधानो हि समासो नाम्नि ते बली ।
ततः शक्रोऽहनत् तं तु वज्रेण दृढमुष्टिना
॥२५॥वज्रं तच्छतधा भिन्नमामभाण्डं च्युतं यथा ।
देवान्तकोऽच्छिन्नरोमाऽऽतिष्ठदाजौ निराकुलः
॥२६॥ततोऽसौ मुष्टिना पृष्ठे जघान सुरसत्तमम् ।
तेनासौ पतितो भूमौ वाताहत इव द्रुमः
॥२७॥पौरुषं तस्य बुद्ध्यैव पपाल बलसूदनः ।
अधावद्वेगतः पृष्ठे सिंहो मृगगणानिव
॥२८॥व्यादाय भीषणं वक्त्रं पलयन्तमुवाच सः ।
पलायसे किमधुना वल्गना क्व गता तव
॥२९॥सम्मुखो भव शक्र त्वं सर्वदेवगणैः सह ।
असम्मुखं पलायन्तं न हन्ति वीरसत्तमः
॥३०॥स्वयं तत्पुरतो भूत्वा मारयामास तान्सुरान् ।
मुखे चपेटिकां दत्त्वा गतासूंस्तानपातयत्
॥३१॥भ्रामयित्वा ततश्चैकं पोथयामास भूतले ।
लत्तया मुष्टिना कांश्चित्कूर्पराघाततोऽपरान्
॥३२॥कण्ठेगृहीत्प्राणघातं चकर्ष चापरान्सुरान् ।
केषाञ्चिज्जानुनी भित्त्वा केषाञ्च्चिच्च भुजावपि ।
उरुयुग्मं च केषाञ्च्चिक्षेप दूरतोऽपि तान्
॥३३॥उत्तानाः पतिताः केचित्केचिन् न्युब्जास्तथा सुराः ।
केचिन्मुखप्रहारं च चक्रर्गन्तुमनीश्वराः
॥३४॥केचित्तु तर्कयामासुर्मनसा दुःखितेन च ।
अकस्मात्प्रलयं किं नु प्रारभज्जगदीश्वरः
॥३५॥सुविशीर्णाः सुराः सर्वे गजाः सिंहार्दिता यथा ।
ततः स्वयं जगर्जाशु जयशाली सुरान्तकः
॥३६॥यथा मेघेषु गर्जत्सु गर्जते बर्हिमण्डली ।
भास्करीं भास्करस्त्यक्त्वा यातो दूरतरं ततः
॥३७॥सर्वेऽपि पपलुर्देवास्त्यक्त्वा स्वस्वपदानि च ।
ततः स्वयं शक्रपदे तस्थौ निर्भयचेतसा
॥३८॥सर्वे सुरा गता हेमगिरिगव्हरमुत्तमम् ।
कन्दमूलफलान्यादन्निन्युर्दुःखेन वासरान्
॥३९॥ततोऽगुर्भूतलाद् दिग्भ्योऽसङ्ख्येया दैत्यदानवाः ।
चक्रुर्नानाविधैर्द्रव्यैर्नानातीर्थाहृतैर्जलैः
॥४०॥नानर्षिमन्त्रनिचयैरभिषेकं सुरान्तके ।
शङ्खभेरिमृदङ्गादिदुन्दुभीनां च निस्वनैः
॥४१॥उचुस्तं स्वामिनं दैत्यास्त्वादृग्दैत्यकुले न च ।
जातो वा भविता वापि भवानाज्ञां करोतु नः
॥४२॥क उवाच
एवमेकाकिना तेन जिताः शक्र पुरोगमाः ।
राज्यं चकार देवानामरक्षच्चामरावतीम्
॥४३॥ततोऽयात् सत्यलोकं स दैत्यकोटिसमन्वितः ।
ब्रह्माऽपि प्रययौ तत्र यत्र देवाः पुरा गताः
॥४४॥तत्रैकं नायकं स्थाप्य वैकुण्ठमगमच्च सः ।
ब्रह्मणो यानमारुह्य कदाचिच्छाक्रमेव च
॥४५॥लक्ष्म्या सह ततः पूर्वं क्षीराब्धिमगमद्धरिः ।
अत्याप्तं परमं दैत्यं तत्र स्थाप्य व्यचारयत्
॥४६॥किं मया न जितं दैत्या ब्रुवन्तु यामि तत्र वै ।
तेऽब्रुवन्नैव शेषोऽस्ति देवानां विषयःक्वचित्
॥४७॥लोकपालपदे स्थाप्य नानादैत्यान् जनस्य च ।
निरातङ्को निरुद्योगः संरक्षस्वामरावतीम्
॥४८॥इत्यमात्यवचः श्रुत्वामुदा परमया युतः ।
देवान्तकश्चकाराऽसौ तद्वाक्यं सम्यगीरितम्
॥४९॥इति श्रीगणेशपुराणे क्रीडाखण्डे देवलोकविजयोनाम तृतीयोऽध्यायः ॥ ३ ॥
आदित श्लोकानां समष्ट्यङ्काः = ४१८५ + ४९ = ४२३४