मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 50

3
क्रीडाखण्डः · 50

गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः

मुनिरुवाच

कथं च काशीराजेन प्राप्तं तत् स्थानमुत्तमम् ।

मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि

॥१॥

क उवाच

तीर्थयात्राप्रसङ्गेन मुद्गलस्तं नृपं ययौ ।

स पूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः

॥२॥

नृप उवाच

विनायकस्य लोकः कः प्राप्यते स कथं मया ।

मुनिरुवाच ।

स्वानन्दभुवनेत्येवं निजलोकेति च द्वयम्

॥३॥

वैनायकस्य लोकस्य विख्यातं नाम वर्तते ।

उत्पत्स्येते यदा दैत्यौ देवान्तकनरान्तकौ

॥४॥

विनायकोऽपि तौ हन्तुं मानुषेऽवतरिष्यति ।

स तु बालकरूपेण लीला अद्भुतविक्रमाः

॥५॥

करिष्यति नृलोकेऽस्मिन्स्वेच्छाचारी महाबलः ।

शुक्लस्य भक्तियुक्तस्य दरिद्रस्य गृहे यदा

॥६॥

भुक्त्वा दत्त्वामोघलक्ष्मीं शुक्लायेन्द्रस्य दुर्लभाम् ।

विवाहार्थं समानीतो दर्शयिष्यति पौरुषम्

॥७॥

यदा ते गृहमागच्छेत् तदा तद्भक्तितो नृप ।

काशीराज महाबाहो निजलोकमवाप्स्यसि

॥८॥

क उवाच

एवमुक्त्वा गते तस्मिन्काशीराजो महामतिः ।

गणेशभक्तिं कुर्वाणः कालाकाङ्क्षी बभूव ह

॥९॥

ततो बहुतिथे कालेऽवतीर्णोऽसौ विनायकः ।

कश्यपस्य गृहे यो वै लीलाविग्रहवान्विभुः

॥१०॥

हता नानाविधा दैत्याः क्रीडा नानाविधाः कृताः ।

दारिद्र्यं हृतवान्सद्यः शुक्लस्यादत् गृहे तदा

॥११॥

काशिराजस्य भवनं पुनरागान्महाबलः ।

हतौ महाबलौ दैत्यौ देवान्तकनरान्तकौ

॥१२॥

स्वानन्दभुवनं यातः क्षीरसागरमध्यगम् ।

काशीराजस्तु विरहाच्चिन्तयन् सर्वदा तु तम्

॥१३॥

आलिङ्गति नरं कञ्चिदयमेव विनायकः ।

इति मत्वा सभामध्ये सर्वं तादात्मकं जगत्

॥१४॥

पश्यति स्म दिवा रातौ सौऽपि तन्मयतामियात् ।

निराहारः कदाचित् स तिष्ठति स्म नृपस्तदा

॥१५॥

ग्रासमात्रं कदाचित् स भुनक्ति च यथामति ।

कदाचिद्धसते क्वापि नृत्यति स्म नृपस्तदा

॥१६॥

निद्राति बहुकालं तं पश्यन् स्वप्ने विनायकम् ।

एवं नृपे स्थितेऽमात्याश्चिन्तामापुः सुदारुणाम्

॥१७॥

यदिलोका विजानीयुः परचक्रं पतेत् तदा ।

एवं चिन्तयतां तेषाममात्यानां नृपालये

॥१८॥

तदैव मुद्गलो ध्यानं विसृज्य नृपतिं ययौ ।

तद्दर्शनप्राप्तबोधः प्रणनाम नृपो मुनिम्

॥१९॥

उपवेश्यासनं पश्चात् सम्पूज्य च यथाविधि ।

बद्धाञ्जलिरुवाचाथ धन्यो वंशो जनुर्मम

॥२०॥

पितरौ मन्दिरं नेत्रे धन्यं त्वद्दर्शनान्मुने ।

यत्प्रसादात्परं स्थानं संसारतारणं नृणाम्

॥२१॥

अवमानान्महद् दुःखं तं त्वा पुण्येन दृष्टवान् ।

तमुवाच ततो विप्रो वाचा तस्य सुतोषितः

॥२३॥

मुनिरुवाच

त्वादृशस्तु विनीतात्मा नैव दृष्टो न च श्रुतः ।

पूजनात् परितुष्टोऽहं वाञ्छितं ते ददाम्यहम्

॥२३॥

क उवाच

तद्वाक्यपरितुष्टोऽसौ काशीराजो जगाद तम् ।

अनेनैव च देहेन स्वानन्दभुवनं मुने

॥२४॥

इच्छेयं च चिरं तत्र स्थातुं नैव च सम्पदः ।

तत ऊचे मुद्गलोऽसौ परितुष्टस्तया गिरा

॥२५॥

अनेन जडदेहेन स्वानन्दभुवनं नृप ।

प्राप्स्यसे त्वं गणेशस्य पुनरावृत्तिवर्जितः

॥२६॥

भुक्त्वाऽत्रन्नसम्पदः पञ्चसहस्रपरिवत्सरान् ।

ब्रह्मकल्पमयं कालं ततः स्वानन्दमाप्स्यसि

॥२७॥

नृप उवाच

कीदृक् स लोकः किन्नामा वद सत्यं मुने मम ।

केन पुण्येन गम्योऽसौ श्रुता लोका मयाऽखिलाः

॥२८॥

मुद्गल उवाच

श‍ृणु राजन् मयाऽश्रावि महिमा कपिलान्मुनेः ।

सामान्यतः सर्वलोकाः प्रसिद्धा ये श्रुतास्त्वया

॥२९॥

गहना गतिरत्यन्तमस्य लोकस्य भूपते ।

दिव्यलोकेति नामास्य निजलोकेति चापरम्

॥३०॥

स कामदायिनीपीठे सन्तिष्ठति विनायकः ।

विस्तीर्णं पञ्चसाहस्रयोजनानि महामते

॥३१॥

रत्नकाञ्चनभूमौ स राजते भासयन्दिशः ।

स्वानन्दनामा दिव्योऽयमिक्षुसागरमध्यगः

॥३२॥

न वेदैर्न च दानैश्च व्रतैर्यज्ञैर्जपेरपि ।

तपोभिर्विविधैश्चायं प्राप्यते नैव कर्हिचित्

॥३३॥

विनायकस्य कृपया प्राप्यते नित्यभक्तितः ।

समष्टिव्यष्टिरूपोऽत्र सदा तिष्ठति विघ्नराट्

॥३४॥

पादैः स सप्तपातालं व्याप्य शेषशिरांसि च ।

कूर्मं च कमठं चैव श्रोत्राभ्यां च दिशोऽखिलाः

॥३५॥

केशैर्व्योमापि संरोध्य स्थित आधारपङ्कजे ।

भूमध्येऽप्यग्निचक्रे तं द्विपत्रे ध्याति पुण्यकृत्

॥३६॥

खेचरीमुद्रया युक्तो नान्यो ध्यातुं न च क्षमः ।

सहस्रपत्रं ब्रह्माण्डसरोजं विलसत्प्रभम्

॥३७॥

तत्र तेजःस्वरूपोऽस्ति हृदि द्वादशपत्रकम् ।

दशपत्रं नाभिचक्रं लिङ्गे षटपत्रकं शुभम्

॥३८॥

षोडशारं कण्ठदेशे तत्र सर्वत्र विघ्नराट् ।

तेजोरूपी दीप्यमानः सत्यलोके यथा विधिः

॥३९॥

द्वादशारं तु वैकुण्ठं तत्र विष्णुः सदा स्थितः ।

कण्ठाब्जे पञ्चवक्त्रोऽसौ कैलासे सगणो यथा

॥४०॥

सोमसूर्याग्निनेत्रोऽसौ भूमण्डलमहोदरः ।

एकविंशतिस्वर्गान् स व्याप्य चौषधिरोमवान्

॥४१॥

सरितः सागरा यस्य धर्मबिन्दुर्विभात्यसौ ।

ब्रह्माण्डे भान्ति यस्यैव ब्रह्माण्डानि तु रेणुवत्

॥४२॥

त्रयस्त्रिंशत्कोटिदेवा जीवा ये च सहस्रशः ।

औदुम्बरगता भान्ति मशका इव तद्गताः

॥४३॥

रचनां तस्य लोकस्यसङ्क्षेपेण ब्रुवे नृप ।

तुङ्गं यन्मेरुशिखरं तत्कैलासशिरस्पृहम्

॥४४॥

सहस्रयोजनं शून्यमगम्यं मुनिपुङ्गवैः ।

तत्र एका शक्तिरुच्चैर्भ्रामिका नाम नामतः

॥४५॥

यत्सम्मताद् भ्रमन्त्येव भ्रमराः शुभ्र एव च ।

पद्मासनगताधारशक्तिस्तन्मस्तके स्थिता

॥४६॥

चामीकरनिभा या तन्मस्तके कामदायिनी ।

कोटिसूर्यनिभा तस्या मूर्ध्नि पीठं महत्तरम्

॥४७॥

विकरालं जटाभारं बिभ्रती वदनं तथा ।

सहस्रसूर्यसङकाशा भासयन्ती दिशो दश

॥४८॥

विस्तीर्णं दशसाहस्रयोजनं तावदायतम् ।

असङ्ख्यसूर्यसंङकाशं तन्मध्ये योजनायतम्

॥४९॥

स्वानन्दभुवनं भाति यत्र काञ्च्चनरत्नजाः ।

असङ्ख्याता गृहा भान्ति भास्वरा गजमौक्तिकाः

॥५०॥

तस्यैव कृपया प्राप्यो तुःखमोहविवर्जितः ।

तदुत्तरे भाति परं इक्षुसागर एव तु

॥५१॥

सहस्रपत्रसंयुक्ता तन्मध्ये पद्मिनी शुभा ।

सहस्रपत्रं कमलं तस्यां भाति यथा शशी

॥५२॥

तत्कर्णिकागतस्तल्पो रत्नकाञ्चननिर्मितः ।

दिव्याम्बरयुतः शेते नृप तत्र विनायकः

॥५३॥

सिद्धिबुद्धी सदा तस्य पादसंवाहनं मुदा ।

कुर्वाते परया भक्त्या सामवेदस्त्रिमूर्तिमान्

॥५४॥

गानं करोति शास्त्राणि मूर्तिमन्ति स्तुवन्ति तम् ।

पुराणानि च सर्वाणि वर्णयन्त्यस्य सद्गुणान्

॥५५॥

बालरूपधरस्तत्र शुण्डादण्डविराजितः ।

कोमलाङ्गोऽरुणनिभो विशालाक्षो विषाणवान्

॥५६॥

मुकुटी कुण्डली राजत्कस्तूरीतिलकः स्वराट् ।

दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः

॥५७॥

मुक्तामणिगणोपेतं सरत्नं दाम सन्दधत्

॥५८॥

अनन्तकोटिसूर्यौजाश्चन्द्रार्धकृतशेखरः ।

स्मरणात् पापहा सद्यः स्मृता गङ्गा यथा नृणाम्

॥५९॥

तेजोवती ज्वालिनी च शक्ती पर्यङकपार्श्वयोः ।

सहस्रादित्यसङ्काशे तिष्ठतो नृप सर्वदा

॥६०॥

न शीतं न जरा तत्र क्लमः स्वेदोऽथ तन्द्र्यपि ।

क्षुधा तृषा वा दुखं वा न कदाचन जायते

॥६१॥

आनन्दहृदमग्नास्ते तत्रासन् ये सुपुण्यतः ।

विश्वव्यापी बालरूपी यत्र तिष्ठति विश्ववित्

॥६२॥

मुद्गल उवाच

एवं ते कथितो लोको गणेशस्य यथामति ।

तस्मादनन्यभक्त्या त्वं तमेवाराधय प्रभो

॥६३॥

क उवाच

एवमुक्त्वा गतः स्थानं स्वकीयं मुद्गलो मुनिः ।

काशीराजो गणेशस्य भजने तत्परोऽभवत्

॥६४॥

सहस्रपञ्चवर्षाणि कृत्वा राज्यमनेन ह ।

देहेन यानमारुह्य गतः स्वानन्दधाम तत्

॥६५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥