बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः
दूता ऊचुः
देवान्तको महारौद्रो रौद्रेर्दैत्यैः समावृतः ।
असङ्ख्यैर्विविधैः कालभीतिदैर्व्योममस्तकैः
॥१॥वयं तद्दर्शनभ्रान्ताः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन् करिष्यसि तत्कुरु
॥२॥क उवाच
श्रुत्वा दूतमुखाद् राजा वृत्तात्तं समकम्पत ।
अतिम्लानतया यातो बालकं स विनायकम्
॥३॥क्रीडन्तं शिशुमध्ये तं वृत्तान्तं सर्वमब्रवीत् ।
राजोवाच ।
परब्रह्मन्नमस्तेऽस्तु लीलामानुषविग्रह
॥४॥चराचरगुरो नानालीलाकर नमोऽस्तु ते ।
अनेकशो वयं त्रातास्त्वया बालस्वरूपिणा
॥५॥इदानीमपि रक्षास्मानस्माद्देवान्तकात्प्रभो ।
क उवाच ।
एवं सम्प्रार्थितस्तेन काशिराजेन बालकः
॥६॥देहं कृत्वा विशालं स सिंहारूढो धनुष्करः ।
सिद्धिबुद्धियुतो गर्जन्नादयन् गिरिकन्दराः
॥७॥तेजसा लोपयन्सूर्यं वमन्नग्निकणान्मुखात् ।
बाणं खड्गं च परशुं धनुर्हस्ते विधारयत्
॥८॥नभोमार्गेण नगराद् बहिर्यातो विनायकः ।
क्ष्वेडितेन स दैत्यानां मनांसि परिकम्पयन्
॥९॥ददर्श दुष्टसैन्यं तं देवान्तकममर्षणम् ।
असङ्ख्यातास्तदा दैत्या बभ्रमुः शलभा इव
॥१०॥दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराट् ।
एकाकिना न साध्येयं सेना नाना विधीयताम्
॥११॥स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः ।
क उवाच ।
ततः सिद्धिर्नमस्कृत्वा परमात्माङ्घ्रिपङ्कजम्
॥१२॥देवान्तकं योधयितुं ययौ चाथ जगर्ज च ।
निनादैः सर्वजन्तूनां दैत्यानां भयदायिनी
॥१३॥चचाल शेषो द्यौश्चापि पर्वता वृक्षसञ्चयाः ।
तद्गर्जितमहारावैः प्रतिशब्दैरनेकशः
॥१४॥सस्मार चाष्टसिद्धीः सा ताश्च याता मुदान्विताः ।
अणिमा प्रथमं प्राप्ता गरिमा तदन्तरम्
॥१५॥महिमा लघिमा चापि सम्प्राप्ते तदन्तरम् ।
प्राप्तिश्चैव तु प्राकाम्यं वशित्वं च समाययौ
॥१६॥ईशित्वं तदनु प्राप्तं तासां सैन्यमभूदनु ।
गजाश्वरथपादान्तं नानायुधविराजितम्
॥१७॥वर्षाकाले यथा नद्यः सागरं यान्ति सर्वतः ।
तथा सैन्यं दश दिशो याति स्म युद्धलालसम्
॥१८॥असङ्ख्यवाद्यनिर्घोषं वीरशब्दैर्नदद्भृशम् ।
कृतान्तसदृशान्वीरान् भूगोलप्राशनोत्सुकान्
॥१९॥दृष्ट्वा देवान्तकः स्वान्तं चिन्तयामास चेतसा ।
बालं क्षणेन जेष्यामीत्येवं युद्धाय चागतः
॥२०॥अकस्मादीदृशं सैन्यं कुत एतद्विनिर्गतम् ।
दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतम्
॥२१॥मरिष्ये मारयिष्ये वा जीवत्स्याज्यो यशो न हि ।
एवं वदति दैत्येन्द्र सेनान्यः प्राब्रुवन् वचः
॥२२॥वयं योत्स्यामहे सैन्यै रक्ष पृष्टं जयो भवेत् ।
पीत्वा वाक्यामृतं तेषां हृष्टो देवान्तकोऽब्रवीत्
॥२३॥सम्यगुक्तं महावीरा यान्तु युद्धाय यामि च ।
जयोऽस्तु मम वाक्येन भवतां पुण्यकर्मणाम्
॥२४॥आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकम् ।
कर्दमो नाम दैत्योऽथ ययौ व्यूहं रथाकृतिम्
॥२५॥दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् ।
गरिम्णा वीरमुख्यैस्तु रचितं वीरमोहनम्
॥२६॥प्रथिम्ना पालितं व्यूहं तालजङ्घो ययौ मुदा ।
महिम्ना रचितं व्यूहं यक्ष्मनामा समाययौ
॥२७॥प्राप्त्या विरचितं व्यूहं ययौ घण्टासुरो महान् ।
प्राकाम्यरचितं व्यूहं रक्तकेशो बलान्वितम्
॥२८॥कालान्तको ययौ व्यूहं वशितारचितं परम् ।
ईशितारचितं व्यूहं दुर्जयोऽभिययौ बली
॥२९॥एतेषां वचसाऽशक्यं वक्तुं सामर्थ्यमञ्जसा ।
अष्टौ व्यूहानयुध्यन्त दैत्या अष्टौ महाबलाः
॥३०॥परस्परं विनिघ्नन्तःपरान् परमदुर्जयान् ।
शरधारा विमुञ्चन्तो जलधारा यथा घनाः
॥३१॥चिच्छिदुरुत्तमाङ्गानि शस्त्रैर्नानाविधैर्भटाः ।
निहतैश्च तदावीरैर्गजैरश्वैर्वसुन्धरा
॥३२॥ऊरुभिर्जानुभिर्हस्तैश्छिन्नैरासीत्सुदुर्गमा ।
खेटानि पुरतः कृत्वा जघ्नुः पादांश्च केचन
॥३३॥उड्डीय गिरिवत् केचित्पेतुर्वीरेषु चूर्णितुम् ।
रजोऽन्धकारे नाज्ञासीत्स्वीयः स्वीयं परस्परम्
॥३४॥ततो निपेतुः सहसा दैत्या देवहता भुवि ।
देवा हताश्च दैत्याश्च कुर्वते भैरवान् रवान्
॥३५॥कबन्धा युयुधुस्तत्र मुमुदुश्चाप्सरोगणाः ।
शुशुभुः शस्त्रसङ्घातैः पुष्पिताः किंशुका यथा
॥३६॥शुक्रस्तत्र मृतान्दैत्यानुज्जीवयति विद्यया ।
अष्टौ व्यूहा ययुश्चिन्तां मृतशेषा बलान्विताः
॥३७॥ईशितायै ततः प्रोचुः सर्वे ते शुक्रचेष्टितम् ।
तस्याः क्रोधवशादेका कृत्या स्यान्निर्गता पुरः
॥३८॥कटाक्षेण तयाऽऽज्ञप्ता भार्गवं तु निजे भगे ।
कृत्वा तदाऽन्तर्दधे सा पश्चात्तत्याज बर्बरे
॥३९॥तेन बर्बरदेशीयं तं वदन्ति मनीषिणः ।
ततो मुमुदिरे देवा युयुधुश्च बलान्विताः
॥४०॥निहन्यमाना दैतेयाः पलायनपरा ययुः ।
केचिच्च शरणं प्राप्ता रक्ष रक्षेति चापरे
॥४१॥प्रत्यूचुर्देवगन्धर्वानणिमादिकृतांस्तदा ।
कदा विजयिनो दैत्याः कदाचिद् देवतागणाः
॥४२॥अभवन् युद्धनिरताः परस्परजयैषिणः ।
द्वन्द्वयुद्धमभूद् घोरं तस्मिन्नुपरते युधि
॥४३॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥