दशाधिकशततमोऽध्यायः
क उवाच
जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः ।
पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः
॥१॥गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः ।
गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च
॥२॥योजनावधि गण्डक्या अवरुह्य शिखण्डिनः ।
अतिष्ठत् स मयूरेशो महार्घासनमुत्तमम्
॥३॥ततः सर्वानुपावेश्य शिवं गणमुनीश्वरान् ।
वाद्यत्सु सर्ववाद्येषु तानाह स मयूरराट्
॥४॥सिन्धुना निहिताः कारागृहे शक्रादिदेवताः ।
विना तन्मोचनं लग्नसिद्धिर्नैव भविष्यति
॥५॥अतस्तन्मोचनार्थाय प्रेष्यतां सिन्धवे महान् ।
बुद्धिमान् स गृहीत्वा चेदागच्छेत् तान् सुरानथ
॥६॥तदा साम्नैव सर्वेषां कुशलं हि भविष्यति ।
नो चैद्युद्धेन जष्यामो रणे सिन्धु महाबलम्
॥७॥मोचयिष्याम तान् देवाँस्ततो लग्नं भविष्यति ।
क उवाच ।
एवं तद्वचनं श्रुत्वा प्राहुः सर्वे गुणेश्वरम्
॥८॥सम्यगुक्तं मयूरेश सुधया सदृशं वचः ।
बालभाऽवेपि ते बुद्धिर्बृहस्पतिसमा शुभा
॥९॥पुष्पदन्तं महाबुद्धिं नीतिशास्त्रविशारदम् ।
प्रेष्यतां सिन्धुनिकटे देवमोचनहेतवे
॥१०॥वक्तारं बलिनं श्रेष्ठं स्तोत्रसन्तोषितेश्वरम् ।
क उवाच ।
तत ऊचे पुष्पदन्तो मयूरेशं सुरेश्वरमः
॥१॥महिमा ते मयूरेश मनोवाचामगोचरः ।
जानन्ति न जना मायामोहितास्तव नित्यदृक्
॥१२॥भूभारहरणार्थं त्वमवतीर्णः शिवालये ।
न मां प्रेषय तत्र त्वमन्यं प्रेषय साम्प्रतम्
॥१३॥अपारसेनया युक्तं सिन्धुदैत्यं महाबलम् ।
उद्धृतं बलिनं द्रष्टुमहं शक्क्ष्यामि न क्वचित्
॥१४॥युद्धमेव करिष्यामि ततो दोर्दण्डतेजसा ।
यदि साम्ना भवेत्कार्यं युद्धं तत्र वृथा मतम्
॥१५॥दानं भेदो वृथा दण्डो नीतिरेषा सनातनी ।
एवमाकर्ण्य तद्वाक्यमुवाच पार्वतीपतिः
॥१६॥सम्यगुक्तः पुष्पदन्त नीतिमार्गः पुरातनः ।
क्रोधवान् क्षमः साम्नि केवलं बलवान् परः
॥१७॥धरिष्यति महादुष्टं प्रेषितश्चेत् षडाननः ।
प्रेषितो वीरभद्रश्चेत्क्रोधमेव करिष्यति
॥१८॥शृङ्गी चेत्प्रेषितस्तत्र संहारं स विधास्यति ।
प्रमथः प्रेषितो मत्तो न जाने किं करिष्यति
॥१९॥प्रेषितश्चेद् भूतराजो भाषयिष्यति तां सभाम् ।
स्त्रीसम्भोगरतः स्यात्तु प्रेषितो रक्तलोचनः
॥२०॥ततोऽब्रवीन्मयूरेशो निरस्तेषु च तेषु च ।
नन्दी समुद्रगम्भीरो धैर्ये पर्वतसन्निभः
॥२१॥बुद्ध्या बृहस्पतिसमो जम्भारिसदृशो बलम् ।
धूर्तः पराशयज्ञाता प्रेष्यतां सामहेतवे
॥२२॥शिव उवाच
सम्यगुक्तं मयूरेश ज्ञातासि गुणदोषयोः ।
नन्दिने दीयतां वस्त्रं रत्नानि विविधानि च
॥२३॥ततो ददौ मयूरेशस्तानि तस्य शिवाज्ञया ।
आज्ञापयामास च तं गच्छ सिन्धुं महाबलम्
॥२४॥यथा देवा विमुच्यन्ते तथा नीतिर्विधीयताम् ।
स तु नत्वा मयूरेशं स शिवां शिवमेव च
॥२५॥गणान्सर्वान्महावाक्यैः स्तुत्वा तं च शिवं शिवाम् ।
उवाच बुद्धिसम्पन्नो दिष्टयोचितमिदं वचः
॥२६॥नन्द्युवाच
स महान् जायते लोके यस्य वः स्यादनुग्रहः ।
अतोऽहं श्रेष्ठतां नीतः साधयिष्ये प्रयोजनम्
॥२७॥वः प्रसादेन भूगोलं विधास्ये न्युब्जमञ्जसा ।
शेषं सूर्यं वो निकटे आनयिष्ये न संशयः
॥२८॥क उवाच
एवमुक्त्वा ययौ नन्दी सिन्धुदैत्यं बलान्वितः ।
गतः स नगरद्वारं मनोवेगेन धैर्यवान्
॥२९॥ध्यायन्गणेशं शम्भुं च शिवां सर्वार्थसाधिकाम् ।
ऋतां कर्तुं प्रतिज्ञां तां प्रार्थयामास चेतसि
॥३०॥इति श्रीगणेशपुराणे क्रीडाखण्डे दूतप्रेषणं नाम दशाधिकशततमोऽध्यायः ॥ ११० ॥