मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 55

3
क्रीडाखण्डः · 55

दूतमोचनं नाम पञ्चपञ्चाशत्तमोऽध्यायः

मुनिरुवाच

तयोस्तु गतयोः पश्चान्मोहापन्नो महानृपः ।

काशिराजो हयारूढो भ्रमति स्म गृहे गृहे

॥१॥

विनायकमचक्षाणः क्व गतो भोक्त्युमित्युत ।

विहाय मां कथं यातो मिष्ठान्नं भोक्तुमेकशः

॥२॥

गृहे गृहे पर्यपृच्छत् क्व गतोऽसौ विनायकः ।

इदानीं बहिरायातो भुक्त्वा क्रीडितुमुत्सुकः

॥३॥

काशिराजेन सहितो वृथा त्वं पृच्छसे कथम् ।

एवं निराकृतः सर्वेः पुरवासिजनैरसौ

॥४॥

परमं श्रममापन्नो कुटुम्ब्यकिञ्चनो यथा ।

केचिदूचुः शुक्लगृहे क्रीडतेऽसौ विनायकः

॥५॥

ततो हर्षयुतः शुक्लगृहं यातो नृपस्तदा ।

ददर्श चाङ्गणे तस्य बालं वृषगतं विभुम्

॥६॥

दृष्ट्वा तं वृषभारूढं त्रिनेत्रमिव चापरम् ।

प्रणम्य परया भक्त्या बद्धाञ्जलिपुटोऽब्रवीत्

॥७॥

नृप उवाच

न बाले साधुचरितं न ज्ञानं स्नेह एव च ।

विहाय मां कथं भुक्तं मिष्टान्नं विविधं त्वया

॥८॥

क उवाच

एवमाकर्ण्य तद्वाक्यमुवाच स विनायकः ।

यत्र यत्र मया भुक्तं तत्र भुक्तं त्वयाऽपि च

॥९॥

मिथ्या त्वं भाषसे मन्द बालस्त्वमसि बुद्धितः ।

वदिष्यन्ति जनाः सर्वे पृच्छेति च ससाक्षिकम्

॥१०॥

श्रुत्वा वैनायकं वाक्यं जना ऊचुर्नुपं तदा ।

इदानीं हि त्वया भुक्तं विनायकसमीपतः

॥११॥

कथं मिथ्या भाषसे त्वं वृद्धः सन्नृपसत्तम ।

ततः प्रकृतिमापन्नो ज्ञातवान्स नृपोऽब्रवीत्

॥१२॥

अज्ञेया ते परा माया योगिनामपि मोहिनी ।

धन्योऽसि सर्वरूपेण सर्वत्र मानितो यतः

॥१३॥

क उवाच

रोमाञ्चाञ्चितगात्रः स ध्यानमेवान्वपद्यत ।

ततो वैनायकं रूपं स्वयमेवान्वपद्यत

॥१४॥

यथा जले जलं क्षिप्तं जलत्वं प्रतिपद्यते ।

पुनर्मायाबलेनासौ भिन्नमूर्तिर्नृपोत्तमः

॥१५॥

स तु तं शिबिकारूढं निनाय निजमन्दिरम् ।

नानावादित्रनिर्घोषैर्नृत्यैर्गीतैरनेकशः

॥१६॥

शुशुभे बालकोऽतीव देवेषु मदनो यथा ।

अनुयाति सपत्नीको भक्त्या शुक्लः शनैः शनैः

॥१७॥

परावर्त्य मुखं दृष्टो बालेन व्रीडता भृशम् ।

कथं प्रयातोऽदत्त्वाऽस्मैःवरं कं च न तोषकम्

॥१८॥

इत्येवं मनसा तस्मै ददौ सम्पत्तिमुत्तमाम् ।

कुबेरसम्पदः श्रेष्ठां सर्वाश्चर्यकरीं विभुः

॥१९॥

शुक्लः परावृतो दीनः सपत्नीको महामनाः ।

कदन्नभक्षणाद् देवो रुष्टः किन्त्विति चिन्तयन्

॥२०॥

नापश्यत् तां पर्णकुटीं चिन्तां परमिकां ययौ ।

ततस्तु सेवकाः शुक्लं सुगन्धतैलमर्दनैः

॥२१॥

स्नापयित्वाऽप्यलञ्चक्रुर्भूषणैः काञ्चनाशुकैः ।

तथैव तस्य पत्नीं च बलादिव नियोजिताः

॥२२॥

अत्याश्चर्ययुतौ चोभौ पश्यतः सर्वसम्पदः ।

रत्नकाञ्चनभित्तीश्च मञ्चान् नानासनानि च

॥२३॥

मुक्तामणिगणैश्चित्राण्यनेकानि स्थले स्थले ।

काञ्चनानि च भाण्डानि वस्त्राण्याच्छादनानि च

॥२४॥

भक्ष्याण्यनेकरूपाणि खाद्यानि विविधानि च ।

दृष्ट्वेत्थं सकलं चौभौ परस्परमभाषताम्

॥२५॥

किमिदं भवनं क्षुद्रं जातमिन्द्रगृहोपमम् ।

ततः शुक्लोऽब्रवीत् पत्नीं विनायकप्रसादतः

॥२६॥

सर्वं जानीहि सुभगे न समक्षं महाविभुः ।

ददाति तु पराक्षेऽसौ अल्पमात्रेण तोषयन्

॥२७॥

स्वयं दत्तं बहुतरमल्पमेव हि मन्यते ।

भक्त्योपपादितं स्वल्पं मन्यते बहुलं विभुः

॥२८॥

तस्माद् भयेन कामेन स्नेहेन रिपुभावतः ।

स्मर्तव्यो नमनीयश्च स्तव्यः पूज्यो हिताय च

॥२९॥

मुनिरुवाच

ततस्तु नगरे गुप्तौ नरान्तकसमीरितौ ।

आस्तां दूतौ चिरं कालं शूरश्च चपलस्तथा

॥३०॥

यच्चण्डशब्दात् त्रैलोक्यं कम्पतेऽश्वत्थपत्रवत् ।

यच्छिरःकम्पतः कम्पं यान्ति देवाः सवासवाः

॥३१॥

पराक्रमे बले शब्दे त्रैलोक्ये न समस्तयोः ।

अयं तु शिबिकामध्ये हन्तव्यो मुनिदेहजः

॥३२॥

यतोऽनेन हता दैत्या बलिनः पूर्वमागताः ।

तेषां प्रतिकृतिः कार्येत्येवमूचुः परस्परम्

॥३३॥

विद्युद्रूपं समास्थाय गर्जतः स्म महारवौ ।

तत्तेजसा प्रतिहतचक्षुषा वीरसञ्चयाः ।

किमिदं किमिदमिति चुक्रुशुर्भृशविव्हलाः

॥३४॥

एतस्मिन्नन्तरे प्राप्तौ शिबिकानिकटं तु तौ ।

वाहाः पलायिताः सर्वे त्यक्त्वा तं च विनायकम्

॥३५॥

धृतौ विनायकेनोभौ हस्ताभ्यां बलिनौ बलात् ।

उत्पाटितुं धरण्यां स भ्रामयामास तावुभौ

॥३६॥

करुर्णाद्रमनाः पश्चात् स्थापयामास भूतले ।

हन्तव्यः पुरुषेणासौ यः पराक्रमतोऽधिकः

॥३७॥

मशके निहते कः स्यात् पुमर्थः पुरुषस्य ह ।

ततः पप्रच्छ तौ कस्य दूतौ वा कथ्यतामिति

॥३८॥

स्वशक्त्या तु कृते यत्ने न दोषः पुरुषस्य ह ।

एवं तद्वचनं श्रुत्वा प्रोचतुः पुरतः स्थितौ

॥३९॥

करुणाब्धिर्भवान्ख्यातो दिननाथः पिताऽसि नः ।

सेककृच्चोपनेता च विद्यादोऽभयदोऽपरः

॥४०॥

अन्नदः पञ्च पितरो विख्याता भुवनत्रये ।

आवां दूतौ गुप्तरूपौ नरान्तकसमीरितौ

॥४१॥

तव विघ्नकरौ देव रक्षितौ कृपया त्वया ।

भूतं भव्यं भवच्चैव सर्वं जानासि सर्ववित्

॥४२॥

ये ये वैरेण त्वां याता हतास्ते क्षणमात्रतः ।

एतस्मिन्नन्तरे पौरा विनायकमथाब्रुवन्

॥४३॥

किमेतौ रक्षितौ देव दुष्टौ लोकभयङ्करौ ।

अनयोरुपकारस्तु कृतोऽपकृतये भवेत्

॥४४॥

पन्नगाय पयो दत्तं विषमेव हि जायते ।

मुनिरुवाच ।

तानुवाच ततो देवः पूर्वमेवानयोर्मया

॥४५॥

अभयं दत्तमधुना विपरीतं कथं भवेत् ।

इत्युक्त्वाऽमोचयत् तौ स ततो राजाऽब्रवीत् पुनः

॥४६॥

अपराधानसङ्ख्यातान् क्षान्त्वा तौ मोचितौ रिपू ।

मरणे जीवने जन्तोरिच्छा ते कारणं मता

॥४७॥

इत्युक्त्वा मन्दिरं प्राप्तौ काशिराजविनायकौ ।

नत्वा तौ सर्वलोकाश्च स्वं स्वं भवनमागमन्

॥४८॥

प्रशंसन्तो नृपं नानारूपिणं च विनायकम्

॥४९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे दूतमोचनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥