मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 141

3
क्रीडाखण्डः · 141

``कर्मसंन्यास''योगोनाम चतुर्थोऽध्यायः

४ एकचत्वारिंशादधिकशततमोऽध्यायः ।

वरेण्य उवाच ।

संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया ।

उभयोर्निश्चितं त्वेकं श्रेयो यद् वद मे प्रभो

॥१॥

श्रीगजानन उवाच

क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने ।

तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते

॥२॥

द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किञ्चन ।

मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान् सुखम्

॥३॥

वदन्ति भिन्नफलकौ कर्मणस्त्यागसङ्ग्रहौ ।

मूढाल्पज्ञानतश्चैकं संयुञ्जीत विचक्षणः

॥४॥

(मूढाल्पज्ञानस्तयोरेकं) यदेव प्राप्यते त्यागात्तदेव योगतः फलम् ।

सङ्ग्रहं कर्मणो योगं यो विन्दति स विन्दति

॥५॥

केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।

कुर्वन्ननिच्छया कर्मयोगी ब्रह्मैव जायते

॥६॥

निर्मलो यतचित्तात्मा जितखो योगतत्परः ।

आत्मानं सर्वभूतस्थं पश्यन् कुर्वन् न लिप्यते

॥७॥

तत्त्वविद् योगयुक्तात्मा करोमीति न मन्यते ।

एकादशानीन्द्रियाणि कुर्वन्ति कर्मसङ्ख्यया

॥८॥

तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः ।

न लिप्यते पुण्यपापैरभ्रैर्भानुर्यथाभ्रगः

॥९॥

कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा ।

त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये

॥१०॥

योगहीनो नरः कर्म फलेहया करोत्यलम् ।

बद्ध्यते कर्मबीजैः स ततो दुःखं समश्नुते

॥११॥

मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् ।

न कुर्वन् कारयन् वापि नन्दन् स्वभ्रे सुपत्तने

॥१२॥

न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया ।

न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम्

॥१३॥

कस्यचित् पुण्यपापानि न स्पृशामि विभुर्नृप ।

ज्ञानमूढा विमुह्यन्ति मोहेनावृतबुद्धयः

॥१४॥

विवेकेनात्मनो ज्ञानं येषां नाशितमात्मना ।

तेषां विकाशमायाति ज्ञानमादित्यवत्परम्

॥१५॥

मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।

अपुनर्भवमायान्ति विज्ञाननाशितैनसः

॥१६॥

ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु ।

समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि

॥१७॥

वश्यःस्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।

यतोऽदोषं ब्रह्मसमं तस्मात् तैर्विषयीकृतम्

॥१८॥

(तैस्तद्वशीकृतम्) प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।

ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञाः समबुद्धयः

॥१९॥

वरेण्य उवाच

किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।

भगवन्कृपया तन्मे वद विद्याविशारद

॥२०॥

गणेश उवाच

आनन्दमश्नुते सक्तः स्वात्मारामो निजात्मनि

॥२०॥

अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥

विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः

॥२१॥

उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥

कारणे सति कामस्य क्रोधस्य सहते च यः

॥२२॥

तौ जेतुं वर्ष्मविरहात् स सुखं चिरमश्नुते ॥

अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तोरतिर्लभेत्

॥२३॥

असन्दिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥

जेतारः षड् रिपूणां ये शमिनो दमिनस्तथा

॥२४॥

तेषां समं ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥

आसनेषु समासीनस्त्यक्त्वेमान् विषयान्बहिः

॥२५॥

संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥

प्राणायामं तु संरोधं प्राणापानसमुद्भवम्

॥२६॥

वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥

प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम्

॥२७॥

दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुःस्मृतः ॥

चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः

॥२८॥

षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥

सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा

॥२९॥

नयन्ति प्राणिनस्तद्वत् प्राणापानौ सुसाधयेत् ॥

पीडयन्ति मृगांस्ते न लोकान् वश्यं गता नृप

॥३०॥

दहत्येनस्तथा वायः संस्तब्धो न च तत्तनुम् ॥

यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत्

॥३१॥

तथा तथा वशीकुर्यात् प्राणापानौ हि योगवित् ॥

पूरकं कुम्भकं चैव रेचकं च ततोभ्यसेत्

॥३२॥

अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥

प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता

॥३३॥

योगस्तु धारणे द्वे स्याद् योगीशस्ते सदाऽभ्यसेत् ॥

एवं यः कुरुते राजं त्रिकालज्ञः स जायते

॥३४॥

अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ॥

ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि

॥३५॥

एवं योगश्च संन्यासः समानफलदायिनौ ॥

जन्तूनां हितकर्तारं कर्मणां फलदायिनम्

॥३६॥

मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम्

॥३७॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मसंन्यास''योगोनाम चतुर्थोऽध्यायः

॥४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मसंन्यासयोगोनाम एकचत्वारिंशादधिकशततमोऽध्यायः ॥ १४१ ॥