मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 10

3
क्रीडाखण्डः · 10

नानानामनिरूपणं नाम दशमोऽध्यायः

क उवाच

ततस्तु पञ्चमे वर्षे सचौलं व्रतबन्धनम् ।

चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम्

॥१॥

शुभे मुहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।

आकारिताः शिष्यगणैर्देवदानवराक्षसाः

॥२॥

मुनयो यक्षनागाश्च तथा राजर्षयोऽपि च ।

वैश्याः शूद्रास्तथा याता नानोपायनपाणयः

॥३॥

ववदुर्बहुवाद्यानि नृदेवैराहतानि च ।

गणेशपूजनं चक्रे स्वस्तिवाचनमेव च

॥४॥

मण्डपस्थापनं चक्रे मातृकापूजनं तथा ।

चकाराभ्युदयश्राद्धं ब्राह्मणानां तथाऽर्चनम्

॥५॥

सुहृदां वस्त्रदानं च चकार स यथार्हतः ।

अन्येषां च तथा तेऽपि वस्त्राणि निदधुः पुरः

॥६॥

होमान्ते पुनरानर्च ब्राह्मणान् कश्यपस्ततः ।

अन्तःपटं वेदिकायां धारयित्वा स सत्वरम्

॥७॥

कृत्वाऽग्निस्थापनं पूर्वमुपनिन्युश्च बालकम् ।

सुवासिन्यो ब्राह्मणास्तमक्षताभिरवाकिरन्

॥८॥

तन्मध्ये राक्षसाः पञ्च सुदुष्टा ब्रह्मलिङ्गिनः ।

अस्त्रैस्तमाकिरन् दुष्टास्तत्प्राणहरणेच्छया

॥९॥

विघातश्चैव पिङ्गाक्षो विशालः पिङ्गलस्तथा ।

चपलश्च महापुण्ड्रा अक्षमालाविभूषिताः

॥१०॥

जलपात्रभृतोऽनर्घ्य वस्त्राम्बरधराः शुभाः ।

विशीर्णोऽजायत देहः कुमारस्य तदस्रतः

॥११॥

ज्ञात्वा कुमारस्तान् दुष्टान् मत्रयामास तण्डुलान् ।

महोत्कटः प्रचिक्षेप तण्डुलान् पञ्च पञ्चसु

॥१२॥

तदैव निर्गतप्राणा निजरूपं समाश्रिताः ।

करालाः पतिता भूमौ विशीर्णा दशयोजनम्

॥१३॥

वज्राघातात् यथा पेतुर्गिरयस्तु बिडौजसः ।

कोलाहलो महानासीद् रजसाऽऽच्छादिता दिशः

॥१४॥

कथं व्यापादिताः पञ्च राक्षसाः कूटरूपिणः ।

क्षणेनानेन बालेन न जानीमोऽखिला अमुम्

॥१५॥

अवतीर्णो भुवो भारं हर्तुं किं परमेश्वरः ।

एवं ततो गरिष्ठे ते ब्रह्माद्या देवतागणाः

॥१६॥

ववर्षुः पुष्पवर्षाणि विमानवरमाश्रिताः ।

नीतेषु तेषु प्रेतेषु ब्राह्मणाः कश्यपोऽपि च

॥१७॥

उपनीते तत्र शिशौ वासश्च मेखलामपि ।

उपवीताजिने दण्डं ददुस्तस्मै स्वमन्त्रतः

॥१८॥

ततोंऽजलिं पूरयित्वा प्रोद्वीक्ष्य मण्डलं रवेः ।

होमं सर्वं समाप्यैनं सावित्रीं कश्यपोऽब्रवीत्

॥१९॥

पादमर्धं ततः सर्वां भिक्षां माता पुरा ददौ ।

असङ्ख्यातास्ततो भिक्षा दुदुस्ते सर्व आगताः

॥२०॥

उपदिश्य ततश्चैनं शौचाचाराननेकशः ।

पुनश्च ब्राह्मणान्पूज्य वासांसि काञ्चनं च गाः

॥२१॥

महत्यरिष्टेऽतीतेऽस्मिंस्तेभ्यो भक्त्या ददौ मुनिः ।

वसिष्ठस्तं सभामध्ये निनाय ब्रह्मणोऽन्तिकम्

॥२२॥

सोऽपि कमण्डलुजलैरस्य तीर्थं गृहीतवान् ।

सर्वदा विकसत्पद्मं ददावस्मै करस्थितम्

॥२३॥

ब्रह्मणस्पतिरित्येवं नाम चक्रे तदाऽस्य सः ।

सम्पूज्य नाम चक्रेऽस्य भारभूतिर्बृहस्पतिः

॥२४॥

रत्नमालां ददौ चास्मै कुबेरोऽपि गलस्थिताम् ।

सुरानन्देति नामाऽस्य सम्पूज्य च चकार ह

॥२५॥

सर्वप्रियेति नामाऽस्य दत्त्वा पाशमपां पतिः ।

श‍ृण्वत्सु सुरसङ्घेषु चकार शङ्करोऽपि च

॥२६॥

त्रिशूलं डमरुं दत्त्वा विरूपाक्षेति चाभ्यधात् ।

दत्त्वा चन्द्रकलां नाम भालचन्द्रेति चाकरोत्

॥२७॥

रामस्य जननी चास्मै सखी बालाय चार्पयत् ।

परशुं परशुहस्तेति नाम चक्रे स्फुटं मुदा

॥२८॥

पुनः सम्पूज्य सिंहं सा ददौ वाहनमुत्तमम् ।

सिंहवाहन इत्येवं चक्रे नामाऽतिसुन्दरम्

॥२९॥

उपादिशद् दुष्टनाशं कुरु शीघ्रं विनायक ।

सागरो द्विजरूपेण मुक्तमालां ददावथ

॥३०॥

मालाधरेति नामाऽस्य कृतवान् परिपूज्य च ।

आसनार्थं ततस्तस्मै शेषः स्वात्मानमर्थयत्

॥३१॥

फणिराजासनेत्येवं नाम चक्रे स्वयं मुदा ।

दाहशक्तिं ददौ वह्निर्धनञ्जयेति नाम च

॥३२॥

प्रभञ्जनेति नामास्मै वायुश्च बलमुच्चकैः ।

एवं सर्वे यथाशक्त्या दत्त्वा नामानि चक्रिरे

॥३३॥

तेषां निर्वचने शक्तिर्न कस्यापि भवेन्मुने ।

अपुपूजन्न चैनं स शक्रो मदविमोहितः

॥३४॥

न वा किञ्चिद् ददौ चैनमुपायनवरं शुभम्

॥३५॥

अहं त्रिलोकीनमितः सुरेशो वृद्धोऽमृताशी लघुमर्भकन्तम् ।

गजेन्द्रगामी हरिशूलपाणिप्रपूजितः कश्यपजं नमस्ये

॥३६॥

सिंहो यथा नात्तितृणं समुद्रः पल्वलोदकम् ।

न याचति तथाऽन्यं वा कल्पवृक्षोऽखिलं ददत्

॥३७॥

एवं तस्याशयं बुद्धवा कश्यपः प्रणिधानवान् ।

उवाच धर्मसंयुक्तं वचस्तद्धितकाम्यया

॥३८॥

यत्राऽद्भुतानि कर्माणि यत्र स्युश्च गुणाकराः ।

स नमस्यश्च पूज्यश्च ब्राह्मणोऽपि च निर्गुणः

॥३९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नानानामनिरूपणं नाम दशमोऽध्यायः ॥ १० ॥