मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 98

3
क्रीडाखण्डः · 98

शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः

क उवाच

एवं गतं सप्तमेऽब्दे त्वष्टमे स गुणेश्वरः ।

उषःस्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयम्

॥१॥

कस्तूरीतिलको नानाभूषणैः सुविराजितः ।

दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः

॥२॥

ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।

तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः

॥३॥

तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।

सर्वेषां मस्तके हस्तं न्यधात् तत्समये विभुः

॥४॥

त्रिचतुः पञ्चवर्षाणां वेदस्फूर्तिस्ततोऽभवनत् ।

विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते

॥५॥

चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।

नाभक्षयन् पशुगणा ग्रासं मुखगतं तदा

॥६॥

श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।

समाप्ते वेदद्वितये सामगानमथारभन्

॥७॥

हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।

गानस्य श्रवणे सक्ता अश्रुपातान् प्रसुस्रुवुः

॥८॥

अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।

आनन्दहृदसम्मग्नाः शेरते स्म यथा निशि

॥९॥

प्रमथाद्या गणाः सर्वे शिवाद्या हर्ष निर्भराः ।

अस्रवच्चामृतं चन्द्रः शिवभालस्थितस्तदा

॥१०॥

तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।

लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः

॥११॥

स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।

तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः

॥१२॥

यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा ।

हलदन्तो वापिनासस्तडागनयनोऽरिहा

॥१३॥

स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।

पञ्चनेत्रश्चतुःश‍ृङ्गो वसुपादश्चतुःश्रुतिः

॥१४॥

त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।

पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशुन् विभुः

॥१५॥

अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।

ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद् भुवि

॥१६॥

क्षणं लीनः क्षणं तिष्ठन् दृश्यादृश्यस्वरूपधृक् ।

ध्रीयता ध्रीयतामेष इत्युवाच शिशून्विभुः

॥१७॥

इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।

पलायति महादैत्यो याति पृष्ठे स बालकैः

॥१८॥

महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।

गर्जन्तिसिंहशार्दूला गजसूकरवानराः

॥१९॥

तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुङ्गवः ।

क्वापि यातो दूरदेशं ततः खिन्नो गजाननः

॥२०॥

क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।

चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा

॥२१॥

न्यपतन् भानि खात्पृथ्वीं ककुभो व्यनदन्स्वनात् ।

स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम्

॥२२॥

श्वासरोधात् पपातोर्व्यां लुण्ठन्पादौ भुजौ मुखम् ।

नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि

॥२३॥

पतितो रूपमास्थाय चतुर्विंशतियोजनन् ।

सपाशकण्ठं तं केचिद् विचकर्षुरितस्ततः

॥२४॥

गुदे काष्ठं मुखे धूलिं प्राक्षिपन्चपरेऽर्भकाः ।

केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः

॥२५॥

गुणेशनिकटे याताः सवे बालाः क्षुधातुराः ।

रसालानि बभक्षुस्ते केच्चित्तन्मस्तके गताः

॥२६॥

आजघ्नुः फलघातेन भूमिस्था उपरिस्थितान् ।

पतितान्यपरे खादन् ददृशुर्विनतां ततः

॥२७॥

अण्डमाच्छाद्य तिष्ठन्ती साऽधावद् बालकान्प्रति ।

पलायमानाँस्तान्दृष्ट्वा विनता पृष्ठतो ययौ

॥२८॥

निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।

गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे

॥२९॥

ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।

दधार हस्ते सहसा गुणेशो बलवत्तरम्

॥३०॥

अस्फुटत्तत्र ददृशे पतत्त्री नीलकण्ठवान् ।

दीर्घपक्षो विशालाक्षो वमन् ज्वालाकणान्मुखात्

॥३१॥

व्याधूनयदुभौ पक्षौ कम्पयन् जगतीतलम् ।

चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः

॥३२॥

चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।

पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन्

॥३३॥

तद् दृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।

जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत

॥३४॥

पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुङ्गवः ।

आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः

॥३५॥

अतिदार्ढ्यं तस्य दृष्ट्वा चतुर्भिरप्यथायुधैः ।

गुणेशस्तं जघानाशु तानि पेतुर्धरातले

॥३६॥

उड्डीय स पपालाशु बालानादाय सत्वरः ।

गुणेशस्तान्समुन्मुच्य समारूढोऽण्डजे ततः

॥३७॥

वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।

ततस्तमाययुर्बाला विनतापि समाययौ

॥३८॥

तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।

त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः

॥३९॥

विष्णुस्त्वमसि तमसा संहरन् शङ्करोऽपि च ।

न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह

॥४०॥

निर्गुणस्य तु को वेद चराचरगुरोरपि ।

एवं स्तुत्वाऽवदत् सा तं प्रणता भक्तितत्परा

॥४१॥

कश्यपस्य मुनेर्भार्यां विनतां विद्धि मामिह ।

तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति

॥४२॥

मुनिना पूर्वमुक्तं मे योऽण्डमेतद् भिनत्ति च ।

सोऽस्य स्वामी न सन्देहो मोचयिष्याति ते सुतान्

॥४३॥

प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरन्तव ।

जटायुः श्येनसम्पाती नीता कद्रूसुतैस्त्रयः

॥४४॥

तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।

गणेश उवाच ।

मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुताँस्तव

॥४५॥

क उवाच

एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।

शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह

॥४६॥

मयूर उवाच

यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।

तदा मन्नामपूर्वं ते नामाख्यातं भवेद्भुवि

॥४७॥

एतत्मे देहि सर्वेश तव भक्तिं दृढां तथा ।

देव उवाच ।

साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना

॥४८॥

त्वन्नामपूर्वं मन्नाम मयूरेश्वर इत्यथ ।

विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत्

॥४९॥

क उवाच

एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।

शिखण्डिनं समारूढो मयूरेशो निजं गृहम्

॥५०॥

मयूरेश मयूरेश मयूरेशेति चासकृत् ।

गृह्णद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः

॥५१॥

मातरं प्रणिपत्याह वृत्तान्तं सर्वमञ्जसा ।

वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान्ययुः

॥५२॥

इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः

॥५३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥