बालचरिते एकचत्वारिंशोऽध्यायः
क उवाच
एवं प्रशंसितो देव्या देवैश्च स विनायकः ।
उवाच पार्वतीं प्रीत्या प्रणिपत्य मुदा युतः
॥१॥गणेश उवाच
देवानां सर्वलोकानां कर्तुं पालनमुत्तमम् ।
दुरासदं निहन्तुं च हर्तुं भूभारमेव च
॥२॥मातस्त्वां सेवितुं धर्मं कर्तुं कर्म च वैदिकम् ।
अवतीर्णोऽस्मि सर्वज्ञे यदब्रवीषि करोमि तत्
॥३॥एवं ब्रुवति विघ्नेशे सुराः सर्वे तमूचिरे ।
पुनः स्तुत्वा च नत्वा ज जगत्कारणकारणम्
॥४॥रजांसि विममेद्भूमेरुडूनि मिहिका अपि ।
जानीयात्स गुणांस्ते यो विममेत्सागरे जलम्
॥५॥धन्यं चक्षुर्हि देवानां यद् दृष्टौ चरणौ विभोः ।
इदानीं नो गतं दुःखं प्राप्तं च स्वस्वकं पदम्
॥६॥दुरासदं हरस्वैनं भूभारं चाखिलेश्वर ।
क उवाच ।
इति देववचः श्रुत्वा जहास स विनायकः
॥७॥ऊचे सर्वं करिष्यामि दशायुधधरः प्रभुः ।
एवमुक्त्वा सुरान् देवो हर्षगद्गदया गिरा
॥८॥सिंहारूढो ययौ शीघ्रं पुरीं वाराणसीं तदा ।
तमन्वयुर्देवगणा गिरिजा गिरिशोऽपि च
॥९॥ज्ञात्वा दुरासदो दैत्यो विनायकमुपागतम् ।
देवसेनायुतं वीरो निर्ययौ नगराद् बहिः
॥१०॥दृष्ट्वा सेनां तु दैत्यस्य सामात्यां सायुधां दृढाम् ।
नानाविधायुधवतीं गर्जन्तीं घनवन्मुहुः
॥११॥गुहाविदारयन्सर्वाः स जगर्ज विनायकः ।
उवाच तं महादैत्यं भ्रान्तोऽस्यद्यापि रे कथम्
॥१२॥त्वया बलाद्देवगणा निर्जिताश्च महीभुजः ।
मुनयो धिक्कृताः सर्वे तदाऽहं नाभवं खल
॥१३॥निर्भयेन त्वया दोषा बहवः सञ्चिताः पुरा ।
तेषां फलमिदानीं त्वं गणेशात् प्राप्तुमर्हसि
॥१४॥उपद्रुतास्त्वया लोकास्त्रैलोक्यवासिनोऽखिलाः ।
तदर्थमवतीर्णोऽहमुद्धर्तुं त्वां भुवो भरम्
॥१५॥शरणं याहि रे त्यक्त्वा मानं लज्जा सुदुस्त्यजाम् ।
यासी सङ्ग्रामशिरसि चेदिदानीं मरिष्यसि
॥१६॥शिवप्राप्तवरात्सर्वं त्रैलोक्यं पीडितं त्वया ।
एवमुक्त्वा दुष्टबुद्धिं गणेशो रणसंभ्रमः
॥१७॥परशुं तोलयामास ज्वालामालासुशोभितम् ।
आच्छाद्य भास्करं क्षोभात् प्रलयानलसन्निभः
॥१८॥जवेन हृदये तस्य त्यक्त्वा शस्त्रं कृतान्तवत् ।
परशुना हतस्तस्य रोमापि न चचाल ह
॥१९॥क्रोधसंरक्तनयन उदतिष्ठद्ग्रसन्निव ।
त्रैलोक्यं तमुवाचाथ देवदेवं दुरासदः
॥२०॥न देवा देवराजो वा दिक्पाला वा न मे पुरः ।
यातास्त्वं तु कथं यातो बालभावाद् व्रजाधुना
॥२१॥न बिभेम्यन्तकान्मूढ किमर्थं मर्तुमिच्छसि ।
एवमुक्त्वा ततः कोशान्निष्काश्यासिं महोज्ज्वलम्
॥२२॥क्षुरधारं यदाघातादद्रयश्चूर्णतां ययुः ।
दैत्यस्तेनाहनद्देवमङकुशेन न्यवारयत्
॥२३॥सोऽसिः परशुघातेन शतधा खण्डितोऽपतत् ।
भग्नासिर्मल्लयुद्धाय ययौ दैत्यो महाबलः
॥२४॥त्यक्त्वायुधानि देवोऽपि ववृधे तादृशो बलात् ।
ततो युद्धं तयोरासीत्तुमुलं रोमहर्षणम्
॥२५॥बाहुभ्यां कूर्पराभ्यां च मुष्टिभ्यां तौ प्रजघ्नतुः ।
पादाभ्यां जानुजङ्घाभ्यां पृष्ठाभ्यां च निजघ्नतुः
॥२६॥उड्डीय पेततुर्देहे पर्यायेण महास्वनौ ।
पार्ष्णिघातान् प्रकुर्वन्तौ घातान्कूर्परयोरपि
॥२७॥सक्थ्नोश्च जानुघातांस्तौ स्कन्धाघातान्परस्परम् ।
लुलुण्ठतुर्धरण्यां तौ धूलिधूसरितौ भृशम्
॥२८॥परस्परं जयन्तौ च लपन्तौ साधु साध्विति ।
एवं बहुदिनं युद्धं दृष्ट्वा देवा विसिस्मिरे
॥२९॥चेतसा बहु लज्जन्तौ ज्ञात्वा सामर्थ्यमस्य ह ।
तता विनायको मुष्टिं ललाटे दृढमाहनत्
॥३०॥स्फुटितं मुखमस्याशु धरण्यां पतितस्य ह ।
द्विमुहूर्तं निपतितो वज्राहत इवाचलः
॥३१॥स कथञ्चित्प्रबुद्धोऽभूत्त्यक्त्वा मूर्च्छां चिरागताम् ।
तदात्मानमशक्तं स मनुते स्म भृशातुरः
॥३२॥आययौ सैन्यमध्ये स दिनान्ते स विनायकः
॥३३॥य इदं शृणुयाद्युद्धं युद्धकाले उपस्थिते ।
स जयं प्राप्नुयान्मर्त्यो यथा देवो विनायकः
॥३४॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते श्रीगणेशदुरासदयुद्धवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥