मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 139

3
क्रीडाखण्डः · 139

कर्मयोगोनाम द्वितीयोऽध्यायः २ नवत्रिशदधिकशततमोऽध्यायः

वरेण्य उवाच

ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।

अवधार्य वदैकं मे निश्रेयसकरं नु किम्

॥१॥

गजानन उवाच

अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।

साङ्ख्यानां बुद्धियोगेन वैधयोगेन कर्मणाम्

॥२॥

अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।

न सिद्धिं याति सन्त्यागात् केवलात् कर्मजान्नृप

॥३॥

कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।

अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते

॥४॥

कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन् पुमान् ।

तद्गोचरान्मन्दचित्तो धिगाचारः स भण्यते

॥५॥

तद्ग्रामं सन्नियम्यादौ मनसा कर्म चारभेत् ।

इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप

॥६॥

अकर्मणः श्रेष्ठतमं कर्मानीच्छाकृतं तु यत् ।

वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति

॥७॥

असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।

कुर्वीत सततं कर्माऽनाषङ्गो हि मदर्पणम्

॥८॥

मदर्थं यानि कर्माणि तानि बध्नन्ति न क्वचित् ।

सवासनमिदं कर्म बध्नाति देहिनं बलात्

॥९॥

वर्णान्सृष्ट्वाऽवदं चाहं सयज्ञांस्तान्पुरा प्रिय ।

यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत्

॥१०॥

सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।

लभध्वं परमं स्थानमन्योन्यप्रीणनात् स्थिरम्

॥११॥

इष्टा देवाः प्रदास्यन्ति भोगानिष्टान् सुतर्पिताः ।

तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः

॥१२॥

हुतावशिष्टभोक्तारो मुक्ताःस्युः सर्वपातकैः ।

अदन्त्येनो महापापा आत्महेतोः पचन्ति ये

॥१३॥

उर्जो भवन्ति भूतानि देवादन्नस्य सम्भवः ।

यज्ञाच्च देवसम्भूतिस्तदुत्पत्तिश्च वैधतः

॥१४॥

ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।

अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप

॥१५॥

संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।

स मुदा प्राणिति भूपेन्द्रियक्रीडोऽधमो जनः

॥१६॥

(मुदा प्रीण ते) अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।

आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते

॥१७॥

कार्याकार्यकृतीनां स नैवाप्नोति शभाशुभे ।

किञ्चिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा

॥१८॥

अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।

सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः

॥१९॥

परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।

सङ्ग्रहाय हि लोकानां तादृशं कर्म चारभेत्

॥२०॥

श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।

मनुते यत्प्रमाणं स तदेवानुसरत्यसौ

॥२१॥

विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।

अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम्

॥२२॥

न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।

करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते

॥२३॥

भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः ।

हन्ता स्यामस्य लोकस्य विधाता सङ्करस्य च

॥२४॥

कामिनो हि सदा कामैरज्ञानात् कर्मकारिणः ।

लोकानां सङ्ग्रहायैतद्विद्वान्कुर्यादसक्तधीः

॥२५॥

विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।

योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत्

॥२६॥

अविद्यागुणसाचिव्यात् कुर्वन्कर्माण्यतन्द्रितः ।

अहङ्कारान्मन्दबुद्धिरहं कर्तेति योऽब्रवीत्

॥२७॥

यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद् गुणकर्मणोः ।

करणं विषये वृत्तमिति मत्वा न सज्जते

॥२८॥

कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।

अविश्वज्ञाः स्वात्मद्रुहो विश्वविन्नैव लङ्घयेत्

॥२९॥

नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद् द्बुधः ।

त्यक्त्वाऽहं ममताबुद्धिं परां गतिमवाप्नुयात्

॥३०॥

अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।

अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः

॥३१॥

ये चैव नानुतिष्ठन्ति अशुभा हतचेतसः ।

ईर्ष्यमाणान् महामूढान्नष्टांस्तान्विद्धि मे रिपून्

॥३२॥

तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।

अनुयाति च तामेवग्रहस्तत्र मुधा मतः

॥३३॥

कामश्चैव तथा क्रोधः खानामर्थेषु जायते ।

नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः

॥३४॥

शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः ।

निजे तस्मिन्मृतिः श्रेयो परत्र भयदः परः

॥३५॥

वरेण्य उवाच

पुमान् यत् कुरुते पापं सहि केन नियुज्यते ।

अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव

॥३६॥

श्रीगजानन उवाच

कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।

नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ

॥३७॥

आवृणोति यथा माया जगद्बाष्पो जलं यथा ।

वर्षामेघो यथा भानुं तद्वत् कामोऽखिलांश्च रुट्

॥३८॥

प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा ।

इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा

॥३९॥

आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।

तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ

॥४०॥

तस्मानियम्य तान्यादौ स मनांसि नरो जयेत् ।

ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम्

॥४१॥

यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।

ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः

॥४२॥

बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।

हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात्

॥४३॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मयोगो'' नाम द्वितीयोऽध्यायः

॥२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मयोगोनाम नवत्रिशदधिकशततमोऽध्यायः ॥ १३९ ॥