मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 107

3
क्रीडाखण्डः · 107

सप्ताधिकशततमोऽध्यायः

क उवाच

ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।

आययुर्गिरिजागेहं नानागणयुतं शिवम्

॥१॥

नमस्कृत्य च तानम्बा नानासनगतान्पुरः ।

पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः

॥२॥

विघ्नभीत्या परित्यक्तं त्रिसन्ध्याक्षेत्रमुत्तमम् ।

अस्य बालस्य मे विघ्ना अत्रापि बहवोऽभवन्

॥३॥

दिशन्तु विघ्नरहितं कर्म वा स्थानमुत्तमम् ।

मुनय ऊचुः ।

इन्द्रयागे कृते देवि सर्वविघ्नं हरिष्यति

॥४॥

क उवाच

तदेव कारयामास मण्डपं बहुविस्तरम् ।

सम्भारान् कारयामास शक्रसन्तोषकारकान्

॥५॥

आज्ञां गृहीत्वा शम्म्भोः सा पार्वती हर्ष निर्भरा ।

कारयामास विधिवदिन्द्रयागं महर्षिभिः

॥६॥

ध्यानमावाहनं चक्रुरिन्द्रस्यैते महर्षयः ।

पुपूजुर्गिरिजादेशात् साङ्गमिन्द्रं गणानपि

॥७॥

कुण्डे वह्निं प्रतिष्ठाप्य मन्त्रैरेव द्विजर्षभाः ।

जपानां तद्दशांशेन जुहुवुस्तिलपायसम्

॥८॥

प्रणवाद्यैर्नमोऽन्तैश्च स्वाहान्तैर्मन्त्रसञ्चयैः ।

शान्तिपाठान् पठन्ति स्म चतुर्वेदभवान् द्विजाः

॥९॥

एतस्मिन्नन्तरे बालाः क्रीडित्वा बालकैः सह ।

यज्ञवाटमुखो याति दैत्यौ तु कलविङ्कलौ

॥१०॥

तावत्सम्मुखतां यातौ माहिषं रूपमास्थितौ ।

महारवौ महाश‍ृङ्गौ भीषयन्तौ जगत्त्रयम्

॥११॥

सटाभिन्नघनौ पुच्छाद् दारयन्तौ गिरीनथ ।

नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि

॥१२॥

उमासुतं हन्तुकामौ यातौ शीघ्रं तदन्तिकम् ।

प्रायुध्येतां तदा द्वौ तौ मत्ताविव महागजौ

॥१३॥

तयोः शब्देन गगनं गर्जति स्म यथा घनैः ।

जयं भङ्गं क्रमेणोभौ प्रापतू रुधिरोक्षितौ

॥१४॥

विद्रुता मुनिबालास्ते ताभ्यां भीता वृकादिव ।

दूराद् ददर्श गिरिजासुतस्तौ दैत्यपुङ्गवौ

॥१५॥

कथमेतौ महादुष्टौ हनिष्यामीति चिन्तयन् ।

पश्यत्सु तेषु बालेषु चिक्षेप गगने च तौ

॥१६॥

पुच्छे गृहीत्वाऽतिबलौ भ्रामयित्वा पुनः पुनः ।

मुहूर्तात् पतितौ पृथ्व्यां तान् विदार्य द्रुमानपि

॥१७॥

शतधा देहखण्डानि तयोरादन् वृकादयः ।

ततस्ते मुनिबालास्तं ययुर्भक्त्या प्रतुष्टुवुः

॥१८॥

यस्य तत्त्वं न जानन्ति ब्रह्माद्या मुनयोऽपि च ।

सर्वान्तर्यामिणस्ते तु कथं विद्यामहे वयम्

॥१९॥

बाल्यात्प्रभृति दैत्यास्ते नाशिताः कोटिशस्त्वया ।

एतौ माहिषरूपेण हन्तुं त्वा समुपागतौ

॥२०॥

मूषकाविव संत्यक्तौ पुच्छे धृत्वा स्वलीलया ।

ययोः श्वासेन चलिताः पर्वताश्च द्रुमाधराः

॥२१॥

क उवाच

मयूरेशस्ततः प्रायाद् यज्ञवाटं रमन्रमन् ।

ददर्शेन्द्रमखं रुष्टो ध्वंसया मास तत्क्षणात्

॥२२॥

दूरे क्षिप्त्वा शक्रमूर्तिं प्रोचे सर्वान्मुनीश्वरान् ।

वृतैर्मुनिसुतैः सर्वैः किं कर्म क्रियतेऽमलाः

॥२३॥

किं तुष्टेन प्रदातव्यं वासवेनाखिलार्थिना ।

अजाप्रार्थनया किं नु कामधेनुफलं लभेत्

॥२४॥

स आदच्छेषसामग्रीं कृत्वा शान्तं हुताशनम् ।

मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तत्

॥२५॥

उमानिविष्टहृदया नाशकन् तं गुणेश्वरम् ।

उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किञ्चन

॥२६॥

उमायै सर्वमाख्याय जग्मुः स्वं स्वं निवेशनम् ।

श्रुत्वेन्द्रे क्षुब्धहृदये यत्स्यात्तच्च भवत्विति

॥२७॥

स्वापमाने परिज्ञाते शक्रश्चुक्रोध वै भृशम् ।

क्रोधसंरक्तनयनो दहन्निव जगत्त्रयम्

॥२८॥

आकार्य देवनिचयानुवाच वाक्यमुत्तमम् ।

इन्द्र उवाच ।

मम यागो मुनिगणैरारब्धः परमादरात्

॥२९॥

स विध्वस्तो गुणेशेन तस्य द्रक्ष्येऽद्य पौरुषम् ।

रुष्टे मयि भवेन्नष्टं त्रैलोक्यं सचराचरम्

॥३०॥

देवा ऊचुः

तवाज्ञा चेन्मयूरेशं बद्ध्वानीमः क्षणेन ह ।

शक्र उवाच ।

मयूरेशपुरे वह्नेः स्थानं मास्तु क्वचित्तव

॥३१॥

सर्वेषां जाठरोऽपि त्वं लीनो भव ममाज्ञया ।

क उवाच ।

इति श्रुत्वा वचस्तस्य शक्रस्य रुषितात्मनः

॥३२॥

वह्निरन्तर्हितस्तत्र पुरेऽपि जठरेऽपि च ।

नापश्यन्मुनयो वन्हिं ममन्थुर्होमहेतवे

॥३३॥

नायातीति परिज्ञाय तेऽपक्वं जक्षुरादरात् ।

न च तत्पच्यते तेन व्यथा भवति दुर्धरा

॥३४॥

ततस्ते मुनयो जग्मुर्मयूरेशं कृपाकरम् ।

नमस्कृत्याब्रुवन्सर्वे शक्राहूतो गतोऽनलः

॥३५॥

जाठरोऽपि गतो वह्निरिन्द्रयागे हते त्वया ।

इत्याकर्ण्य वचस्तेषां प्रत्येकं जठरेऽनलः

॥३६॥

सोऽभवत्क्षुधयाऽऽविष्टाः सर्वे जातास्तु तत्क्षणात् ।

महानसेषु कुण्डेषु तथैव ज्वलितोऽभवत्

॥३७॥

ततो वायुं निनायाशु शक्रः क्रुद्धो महाबलः ।

प्रेतभूता पुरी सर्वा पञ्चप्राणे गतेऽभवत्

॥३८॥

पञ्चप्राणमयो देवस्ततस्तान् समजीवयत् ।

तत इन्द्रोऽब्रवीत्सूर्यं तापयैनां पुरीं बहु

॥३९॥

ततः सूर्योऽतपत् सर्वं द्वादशादित्यरूपवान् ।

वापीकूपतडागेषु नद्यां जलमशोषयत्

॥४०॥

जज्वाल पृथिवी सर्वा पुरग्रामवनाकरा ।

ततः शीघ्रं मयूरेशो मेघो भूत्वा ववर्ष ह

॥४१॥

शमयामास तं वन्हिं मृतांश्च समजीवयत् ।

ततो हर्षयुता लोकाः साधु साध्वित्यपूजयन्

॥४२॥

क उवाच

प्रतिकूलं कृतं यद्य यत् यत् तत् सर्वं निराकृतम् ।

ज्ञात्वा शक्रो ययौ देवं मयूरेशं ननाम च

॥४३॥

बद्धाञ्जलिपुटो भूत्वा स्तोतुं सवेश्वरं विभुम् ।

शक्र उवाच ।

न वेदा नर्षयो जग्मुर्ब्रह्माद्यास्ते गतिं विभो

॥४४॥

सर्वान्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः ।

ब्रह्मादीनां विश्वसृजां कारणानां च कारणम्

॥४५॥

अपराधान् क्षमस्वाद्य त्वामहं शरणं गतः ।

मस्तकं पादयोयर्न्यस्य प्रार्थयामास सादरम्

॥४६॥

क उवाच

निर्विकल्पं मन्नतस्य ज्ञात्वा प्राह गुणेश्वरः ।

उत्तिष्ठोत्तिष्ठ भद्रं ते पदे तिष्ठ सुखं स्वके

॥४७॥

ततः सम्पूज्य तं देवं नमस्कृत्य शचीपतिः ।

प्रदक्षिणीकृत्य ययौ दृष्टः सन्नमरावतीम्

॥४८॥

इति श्रीगणेशपुराणे क्रीडाखण्डे इन्द्रमखभङ्गो नाम सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥