अविजयवधो नाम नवतितमोऽध्यायः
क उवाच
ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् ।
उपविष्टालिभिःसार्धमङ्के कृत्वा स्वलङ्कृतम्
॥१॥कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् ।
ततस्तस्या महानासीदुत्सवो नृत्यदर्शने
॥२॥बालकानां हरस्याऽथ ज्ञात्वा वाञ्छां शिशुस्तदा ।
थेथीथेयीति शब्देन ननर्त गिरिजासुतः
॥३॥श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः ।
शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च
॥४॥तत इन्द्रादयो देवास्तत्र नर्तितुमागताः ।
स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम्
॥५॥दर्शयन्ति तथा भावं स यथा दर्शयत्यपि ।
मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः
॥६॥मुनयो मनवो भूपा भुवनानि चतुर्दश ।
एकविंशतिस्वर्गस्थाः सचेतनमचेतनम्
॥७॥बालप्रभावान्ननृते बालच्छन्देन भूतलम् ।
मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया
॥८॥नूपुराणां सिञ्जितेन क्षुद्रघण्टारवेण च ।
पादाघातस्य शब्देन दिशो विदिश एव च
॥९॥गगनं पर्वता आसन् नादयुक्तास्तदा मुने ।
चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः
॥१०॥ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् ।
न चक्रे बालको वाक्यं यदा गौरीसमीरितम्
॥११॥नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढः ।
पातालचरणो व्योमसंस्पर्शिदृढमस्तकः
॥१२॥नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ ।
स बालस्तं बबन्धाशु मायया बलवत्तरम्
॥१३॥शृन्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् ।
अङ्के जग्राह तं बालं पुनरेवाद्रिकन्यका
॥१४॥तद्भारेण पिपीडाऽथ भूभारेण समेन सा ।
उवाच वचसा गौरी कथं गुरुतरो भवान्
॥१५॥इदानीमेव जातोऽसि तस्मादुत्तर मेऽङ्कतः ।
मम प्राणा गमिष्यन्ति तव भारेण बालक
॥१६॥क उवाच
श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा ।
उत्ततार बलादङ्काद् दधावाङ्घ्रियुगं शिशुः
॥१७॥ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् ।
तमसाऽव्यापि भूः सर्वा तेन सञ्छादिते रवौ
॥१८॥सोऽकस्मान्निपपातोर्व्यां शतधा चाभवत्खलः ।
ततस्ते मुनयो देवाः परमानन्दनिर्वृताः
॥१९॥तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् ।
देवर्षय ऊचुः ।
न जानीमो वयं देव रूपाणि तव यन्महः
॥२०॥लीलामायाश्च विविधा दैन्यदानवनाशिकाः ।
चरणात्याजितोदैत्यो रविमण्डललोपकः
॥२१॥भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् ।
संहृत्य जीवसङ्घातान् वृक्षानाश्रमपर्वतान्
॥२२॥तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे ।
क उवाच ।
ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् ।
नृत्योत्सवे निवृत्ते तु गौतमादीन् विसृज्य सा
॥२३॥पार्वती बालमादाय लालयित्वा स्तनं ददौ ।
स्त्रियः सर्वा विसृज्यार्थ विवेश निजमन्दिरम्
॥२४॥ततः पुनः कदाचित्स मुनिबालैः समन्वितः ।
गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया
॥२५॥मल्लयुद्धं च ते चक्रुर्द्वन्द्वशोऽनेकधा बहु ।
पातयामासुरागृह्य शिखायां ते परस्परम्
॥२६॥जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा ।
कूर्परं कूर्परेणैव चरणं चरणेन च
॥२७॥रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् ।
लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च
॥२८॥केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः ।
केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा
॥२९॥नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् ।
अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः
॥३०॥यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः ।
स्वबलेन जघानारींस्तीक्ष्णधारनखो बली
॥३१॥बिरुदं बाहुदेशे स जित्वा सर्वान्न्बबन्ध ह ।
विशालाक्षो बृहच्छृङ्गो महागोत्रविदारणः
॥३२॥पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः ।
उन्मूलयामास द्रुमान् शृङ्गाघातेन पर्वतान्
॥३३॥पृष्ठलग्नो मनुष्याणां बलान्मारयते बली ।
स ययौ पार्वतीबालं हन्तुकामो महासुरः
॥३४॥पृष्ठतो धावयित्वा स यावन्मारयते तु तम् ।
दधार शृङ्गयोर्बालो हस्ताभ्यां तावदेव हि
॥३५॥रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः ।
ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन्
॥३६॥केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुङ्गवम् ।
सोऽवमत्य तु तान् जघ्ने पुच्छान्तेन स सत्वरम्
॥३७॥निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः ।
दृष्टवा तस्य बलं बालोऽवतरच्च दधार तम्
॥३८॥आस्फालयत्तदा पृष्ठे भ्रामयित्वा चिरं तु तम् ।
सहस्रधा विशीर्णाङ्गो ममार सहसाऽसुरः
॥३९॥अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् ।
वमन् रक्तं बहुमुखात्प्रसार्य विकृतं मुखम्
॥४०॥ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् ।
अनेन निधनं नीत अविजेयो महासुरः
॥४१॥निहन्तुं नः समायातः क्रीडता बलशालिना ।
क उवाच ।
अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम्
॥४२॥आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् ।
दध्योदनं भ्रामयित्वा बालोपरि जलेन ह
॥४३॥तत्याज दूरतो गेहात् स्तनपानं ततो ददौ ।
तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः
॥४४॥मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च ।
प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः
॥४५॥आशिषोऽपि ददुर्विप्रा नृत्यन्तेस्माप्सरोगणाः
॥४६॥इति श्रीगणेशपुराणे क्रीडाखण्डे नूपूरासुर-मेषासुरवधो नाम नवतितमोऽध्यायः ॥ ९० ॥