गजाननाविर्भावो नामत्रिंशाधिकशततमोऽध्यायः
क उवाच
ततस्तु नवमे मासि पूर्णे साऽसूत बालकम् ।
चारुचन्द्राननं पद्मशोभाजिन्नयनं शुभम्
॥१॥किरीटकेयूरधरं कोटिसूर्यसमप्रभम् ।
प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितम्
॥२॥मुक्ताहारधरं चारुकङ्कणैरूपशोभितम् ।
परशुं कमलं माला मोदकांश्च करैर्दधत्
॥३॥ध्वजाङ्कुशाब्जविलसत्पादपद्मसमन्वितम् ।
किङ्किणीजालविलसच्चारगुल्फयुतं शुभम्
॥४॥भालचन्द्रं कोटिचन्द्रनिभं वह्निसमप्रभम् ।
एवं दृष्ट्वा स्वरूपं सा चकम्पे हर्षनिर्भरा
॥५॥किमिदं तेज उदितं नयनाच्छादकं महत् ।
कोऽसि त्वं वद मे चेतो नन्दयस्व कृपां कुरु
॥६॥इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं वचः ।
तत ऊचे महोमूर्तिर्मा मातर्विमना भव
॥७॥गुणशोऽहमनेकानां ब्रह्माण्डानां विनायकः ।
असङ्ख्याता मेऽवतारा न ज्ञायन्तेऽमरैरपि
॥८॥इच्छया सृष्टिसंहारपालनानि करोम्यहम् ।
त्रिधा रूपं विधायाहं विश्वस्य शिवनन्दिनि
॥९॥त्रेतायुगेऽवतीर्णेन त्वद्गृहे लीलया पुरा ।
अनेकानि चरित्राणि कृतानि सिन्धुनाशनम्
॥१०॥मयूरेश्वरनामाहं षड्भुजोऽर्जुनवर्णकः ।
तदा मया वचो दत्तं द्वापरे ते सुतः पुनः
॥११॥भवेयं सेवकश्चाहं सिन्दूरान्मोचिता मया ।
द्विजरूपेण सहसा स्मर सर्वं शुचिस्मिते
॥१२॥तदापि तनयस्तेऽहं भवीष्यामीत्यथाब्रुवम् ।
तदिदं वचनं सत्यं मयाऽसम्पादि पार्वति
॥१३॥भूभारं च हरिष्यामि सिन्दूरं च महाबलम् ।
सेवनं च करिष्यामि तव मातर्गजाननः
॥१४॥विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः ।
क उवाच ।
एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनम्
॥१५॥नत्वा तुष्टाव देवेशं विश्वेशं विघ्ननाशकम् ।
गौर्युवाच ।
निर्विकल्पचिदानन्दघनं ब्रह्मस्वरूपिणम्
॥१६॥भक्तप्रियं निराकारं साकारं गुणभेदतः ।
नमाम्यहमतिस्थूलमणुभ्योऽणुतरं विभुम्
॥१७॥अव्यक्तं व्यक्तिमापन्नं रजःसत्त्वतमोगुणम् ।
मायाविनं मायिनं च सर्वमायाविदं प्रभुम्
॥१८॥सर्वान्तर्यामिणं नित्यं सर्वाधारं परात्परम् ।
चतुर्णामपि देवानां मानसस्याप्यगोचरम्
॥१९॥महद् भाग्यं ममविभो स त्वं मे पुत्रतां गतः ।
प्रतीक्षन्त्या मम विभो प्रत्यक्षं दर्शनं गतः ।
इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु
॥२०॥एवं वदन्त्या तस्यां तु देवो रूपान्तरं दधौ ।
चतुर्भुजं भालचन्द्र शुण्डादण्डविराजितम्
॥२१॥अनेकभूषणयुतं चिन्तामणियुतं हृदि ।
दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुतं तदा
॥२२॥रुरोद बालवच्चाज्ञो ददृशे गिरिजा तु तम् ।
शुशोच बहुधा तन्वी निधिः केन हृतो मम
॥२३॥न बालस्त्रिषु लोकेषु दृष्टः शुण्डाविराजितः ।
ब्रह्मादयो हसिष्यन्ति लोकाश्चेक्ष्येदृशं शिशुम्
॥२४॥एवं बहुविध शोकं श्रुत्वाऽगाच्छङ्करो गृहम् ।
सगणस्तं शिशुं गृह्य प्राह तां शृणु मे प्रिये
॥२५॥अनादिनिधनो देवः शुण्डादण्डविराजितः ।
यत्र कुण्ठाश्चतुर्वेदाः शास्त्राणि मुनयोऽमराः (मुनयो वराः)
॥२६॥प्रपञ्चे गुम्फिता येन नानाकार्यवता प्रिये ।
सर्वान्तर्याम्यनेकानां ब्रह्माण्डानां च कारकः
॥२७॥चत्वार्यस्य च रूपाणि चतुर्षु च युगेषु च ।
कृते दशभुजो नाम्ना विनायक इति श्रुतः
॥२८॥त्रेतायुगे शुक्लवर्णः षड्भुजोऽसौ मयूरराट् ।
सिन्धुं हत्वाऽपालयत् सोऽवतीर्य स्वालये प्रिये
॥२९॥स एवायं रक्तवर्णश्चतुर्बाहुविराजितः ।
अवतीर्णो गृहे नौ हि सिन्दूरं निहनिष्यति
॥३०॥आरुह्य मूषकं देवो भूभारं च हरिष्यति ।
नाम्ना गजानन इति त्रैलोक्ये ख्यातिमेष्यति
॥३१॥अयं कलियुगे देवि धूम्रकेतुरिति प्रथाम् ।
चतुर्बाहुश्चारुनेत्रो यास्यते रुचिरां भुवि
॥३२॥निशम्य शिववाक्यं स उवाच बालकः स्फुटम् ।
बाल उवाच ।
सम्यग्बुद्धं स्वरूपं मे सम्यगुक्तं त्वया शिव
॥३३॥अवतीर्णस्तव गृहे सेवा कर्तुं च सिन्दुरम् ।
निहन्तुं च निहन्तारं देवानां सर्वभुभूजाम्
॥३४॥मर्दनं भूधराणां च त्रैलोक्यजयशालिनम् ।
हत्वा तं विश्वसन्तोषं करिष्यामि च शङ्कर
॥३५॥भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः ।
भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः
॥३६॥मयि भक्तिर्भवेत् तस्य मम ध्यानपरायणः ।
देवद्विजातिथीनां च पूजकः पञ्चयज्ञकृत्
॥३७॥पुराणश्रवणे सक्तः स्वाचारः सत्यवान् शुचिः ।
पुष्पिका नाम यस्यापि पत्नी धर्मपरायणः
॥३८॥पतिव्रता पतिप्राणा पतिवाक्य परायणा ।
ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणम्
॥३९॥तयोर्मया वरो दत्त एष्ये वां पुत्रतां ध्रुवम् ।
पुष्पिकायां प्रसूताया मद्यैव राक्षसैः शिशुः
॥४०॥नीतश्च त्यक्ष्यते प्राणांस्तस्मान्मां नय तत्र ह ।
एवमाकर्ण्य तद्वाक्यं शिवोहर्षसमन्वितः
॥४१॥नानावाङ्मयपुष्पैस्तं पूजयामास भक्तितः
॥४२॥इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननाविर्भावो नामत्रिंशाधिकशततमोऽध्यायः ॥ १३० ॥