मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 34

3
क्रीडाखण्डः · 34

बालचरिते चतुस्त्रिंशोऽध्यायः

कीर्तिरुवाच

ब्रूहि ब्रह्मन्नशेषेण संवादं नारदेन्द्रजम् ।

श्रुत्वा तं संशयं त्यक्त्वा तृप्ताः स्याममृतादिव

॥१॥

क उवाच

इति तस्या वचः श्रुत्वा वक्तुं समुपचक्रमे ।

स मुनिरितिहासं तं संवादं नारदेन्द्रजम्

॥२॥

मुनिरुवाच

कदाचित् पर्यटन् सुभ्रु नारदो दिव्यदर्शनः ।

यदृच्छया गतः शक्रं त्रिलोकीभ्रमणेरतः

॥३॥

शक्रस्तं परिपूज्यैव पप्रच्छौरवचेष्टितम् ।

यदाह नारदो धीमांस्तच्छृणुष्व महामुने

॥४॥

नारद उवाच

देशे मालवसंज्ञात औरवो नाम वै द्विजः ।

वेदवेदाङ्गवित् साक्षाद्भानुरस्तं विना यथा

॥५॥

शक्तो यो मनसा स्रष्टुं पातुं हर्तुं चराचरम् ।

धर्मपत्नीरतो नित्यं समलोष्ठाश्मकाञ्चनः

॥६॥

मेधावी तपसा श्रेष्ठो जातवेदा इवापरः ।

सुमेधा नाम तस्यासीत् पत्नी परमधार्मिका

॥७॥

लावण्यलहरी कान्ता नानालङ्कारशोभना ।

रूपेण निर्जितरतिर्धिक्कृताप्सरसोगणाः

॥८॥

पतिशुश्रूषणरता लालिता परमादरात् ।

तयोःसमभवत् कन्या साऽपि ताभ्यां सुलालिता

॥९॥

नामास्याश्चक्रतुरुभौ शमीकेति निजेच्छया ।

यद् यद् प्रार्थयते सा तद् तां ददाति पिता विभुः

॥१०॥

सा तु कन्या रूपवती सञ्जाता सप्तवार्षिकी ।

तदर्थं चिन्तयामास वरार्थमौरवो गतः

॥११॥

धौम्यपुत्रं स शुश्राव वेदशास्त्राङ्गपारगम् ।

शौनकस्य मुनेः शिष्यं तेजोराशिं परं मुनिम्

॥१२॥

गुरुवाक्यरतं दान्तं गुरुशुश्रूषकं परम् ।

मन्दारनामकं शान्तं समाहूयं शुभे दिने

॥१३॥

तां ददौ गृह्यविधिना पारिबर्हं ददौ बहु ।

जाते विवाहे मन्दारो ययौ स्वस्याश्रमं प्रति

॥१४॥

यौवनस्थां तु तां ज्ञात्वा शमीकां पुनराययौ ।

मन्दारो मानितः सम्यग्गौरवेण सुपूजितः

॥१५॥

सम्भोज्य सुमुहूर्तेन दत्त्वा वस्त्रादि काञ्चनम् ।

प्रास्थापयदुभौ विप्रो जामातरमथाब्रवीत्

॥१६॥

इयं सुता मम ब्रह्मन् दत्ता तुभ्यं विधानतः ।

पालयस्व बहुस्नेहादद्ययावन्मया यथा

॥१७॥

प्रणिपत्याथ श्वशुर ओमित्युक्त्वा जगाम सः ।

स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया

॥१८॥

कदाचिद् ऋषिमुख्योऽसौ भ्रुशुण्डी तस्य चाश्रमम् ।

मन्दारस्य समायातो द्विरदाननभक्तिमान्

॥१९॥

रुष्टोऽसावनलः साक्षात् तुष्टश्चेदीश्वरोपमः ।

तपसा निर्गता शुण्डा भ्रुशुण्डीति च सोऽभवत्

॥२०॥

स्थूलोदरो बृहत्कायो नानालङ्कारमण्डितः ।

ददर्शतुरुभौ तं तौ मन्दारः शमिका तदा

॥२१॥

विरूपमिव तन्दृष्ट्वा जहसतुर्मुदा तदा ।

सोऽपमानभयात् त्रस्तश्चुकोपारुणलोचनः

॥२२॥

उवाच तं मन्दमते न जानासि मदोद्धतः ।

अहसीद् विवृर्तैदन्तैः पत्न्या सह यतस्तु माम्

॥२३॥

अतो यातं वृक्षयोनौ सर्वप्राणिविवजितौ ।

क उवाच ।

शापं श्रुत्वाऽतिकठिनं सन्तप्तौ तौ बभूवतुः

॥२४॥

प्रणम्य प्रोचतुर्विप्रमुच्छापं वक्तुमर्हसि ।

तत ऊचे भ्रुशुण्डी स जानन् करुणया युतः

॥२५॥

शुण्डां दृष्ट्वा कृतं हास्यं युवाभ्यां मूढभावतः ।

शुण्डावान् देवदेवोऽसौ सप्रसन्नो भवेद्यदा

॥२६॥

तदा युवां निजं रूपं प्राप्स्येथे नात्र संशयः ।

एवमुक्त्वा गतो यावन्मुनिराश्रममण्डलम्

॥२७॥

तावत्तौ वृक्षतां यातौ त्यक्त्वा देहौ तु मानुषो ।

मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणात्

॥२८॥

शमिका शमितां प्राप्ता सर्वतः कण्टकैर्वृता ।

उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाक्यतः

॥२९॥

अनागतौ तु तौ ज्ञात्वा शौनकश्चिन्तयान्वितः ।

मासमात्रे गते नैव याति कस्मान्महाबलः

॥३०॥

मन्दारो यामि तं दृष्टुं शिष्या यान्तुमया सह ।

शीघ्रमौरवमागम्य पप्रच्छ शनकैरिदम्

॥३१॥

आनेतुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद ।

औरव उवाच ।

मयाऽप्रेषितदैवाशु दत्त्वा कन्यां तया सह

॥३२॥

नागतश्वेत्स्वाश्रमं स न जाने क्व गतो ह्यसौ ।

चिन्तयामासुरथ ते औरवः शौनकादयः

॥३३॥

किमुभौ भक्षितौ मार्गे वृकव्याघ्रतरक्षुभिः ।

अथवा निहतौ चोरैर्दष्टावाशीविषेण वा

॥३४॥

ततस्ते त्वरिता जग्मुस्तदुदन्तबुभुत्सया ।

क्वचित् क्वचिज्जना ऊचुर्मासमात्रमितो गतौ

॥३५॥

ततोऽरण्ये पदे दृष्टे स्त्रीपुंसोश्चारुरूपिणी ।

अनूपे ते तयोर्ज्ञात्वा स्नात्वा ध्यात्वा विलोकयन्

॥३६॥

ज्ञात्वा भ्रुशुण्डिना शप्तावुपहासरुषावशात् ।

वृक्षतां गमितौ सर्वपक्षिकीटविवर्जितौ

॥३७॥

मन्दारतां तु मन्दारः शमिका शमितामपि ।

शोचाते तावुभौ विप्रौ औरवः शौनकोऽपि च

॥३८॥

धौम्यपुत्रः साधुरयमध्ये तु समुपागतः ।

अधीतविद्यः स कथं गमितो द्रुमतां बलात्

॥३९॥

पिता श्रुत्वा त्यजेत्प्राणान् पृष्टः किं वा वदामि तम् ।

औरवोऽपि शुशोचैनां शमिकां निजकन्यकाम्

॥४०॥

क उवाच

तावुभौ परिचिन्त्यैवं न भेदो भक्तदेवयोः ।

गणेशं परिराध्यैवं मोचयाव इमावघात्

॥४१॥

जितेन्द्रियावूर्ध्वदृष्टी निराहारौ दृढव्रतो ।

एकाङ्गुष्ठस्थितावुर्व्यां तोषयामासतुर्मुदा

॥४२॥

ततस्तौ कृपयाविष्टौ तेपाते परमं तपः ।

षडक्षरेण मन्त्रेण देवदेवं विनायकम्

॥४३॥

एवं द्वादशवर्षाणि चेरतुस्तप उत्तमम् ।

औरवः कन्यकार्थं च शिष्यार्थं शौनकोऽपि च

॥४४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भ्रुशुण्डिशापवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥