मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 81

3
क्रीडाखण्डः · 81

गणेशाविर्भावोनामैकाशीतितमोऽध्यायः

क उवाच

ततः सा पार्वती हृष्टा सखीजनमगान्निजम् ।

वृत्तान्तं सर्वमाचरख्यौ हृष्टरूपोऽपि सोऽभवत्

॥१॥

ततः प्रभृति सा देवी गुणेशमानसाऽभवत् ॥

पश्यति स्माऽन्यबालं सा गुणेशोऽयं भवेदिति

॥२॥

गृहितुं धावति तदा तन्मात्रा सा निषिध्यते ॥

न क्वापि विश्रमं याति गुणेशध्यानतत्परा

॥३॥

तन्नाम जपते नित्यं तन्मयं लोकते जगत् ।

पप्रच्छ च सखीः सर्व गुणेशो यास्यते कदा

॥४॥

पित्रा मे कथितं पूर्वं व्रतमीशाप्तये शुभम् ।

पार्थिवस्य गणेशस्य पूजनं च यथाविधि

॥५॥

तेन व्रतप्रभावेण प्राप्ताऽस्मि शङ्करं प्रियम् ।

पुनस्तदाचरिष्यामि गुणेशप्राप्तयेऽधुना

॥६॥

ततो भाद्रचतुर्थ्यां सा कृत्वा मूर्तिं मुदान्विता ।

उपचारैः षोडशभिः पुपूज च गजाननीम्

॥७॥

षड्भिर्ध्यानादिकैः पञ्चामृतैर्वस्त्रैरनेकशः ।

यज्ञोपवीतगन्धैश्च धूपदीपैर्यथाविधि

॥८॥

नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि ।

ताम्बूलैरार्द्रपूगैश्च लवङ्गादिसमन्वितैः

॥९॥

दूर्वाभिश्च शमीपत्रैर्दक्षिणाभिरनेकशः ।

आरार्तिक्यैर्विचित्रैश्च मन्त्रपुष्पैः स्तवैरपि

॥१०॥

प्रदक्षिणाप्रार्थनाभिर्बाह्मणानां च पूजनैः ।

परितुष्टा मूर्तिरसौ पार्थिवी चेतनामगात्

॥११॥

तदैव प्रभया तस्याः कोटिसूर्यप्रभा जिता ।

कल्पानलार्चिर्विजिताऽनन्तचन्द्रप्रभा हृता

॥१२॥

हतनेत्रप्रभा गौरी मूर्छिता पतिता भुवि ।

मुहूर्तात् सावधाना सा प्रोवाच जगदीश्वरम्

॥१३॥

किं मया विकृतं देवपूजनेन च तर्कये ।

अभिचारोऽथवा केन प्रयुक्तोऽयं न वेद्मि तं

॥१४॥

कथं मे विफलो यत्नो जातो देव कृपानिधे ।

क उवाच ।

श्रुत्वेत्थं वचनं तस्याः सौम्यतेजा अभूत्प्रभुः

॥१५॥

सा तदैवाभवद् हृष्टा बालं वीक्ष्य पुरोगतम् ।

असङ्ख्यवक्त्रनयनमसङ्ख्याङ्घ्रिशिरोधरम्

॥१६॥

असङ्ख्यमुकुटं सूर्यचन्द्राग्निलोचनं विभुम् ।

मुक्तामणिमयीं मालां बिभ्रन्तं दीप्तिमत्परम्

॥१७॥

अनेकायुधहस्तं च सर्वावयवसुन्दरम् ।

दृष्ट्वा तु पार्वती रूपं पवित्रं परमाद्भुतम्

॥१८॥

अतर्कयच्चेतसा सा निमील्य नयने शुभे ।

कम्पमानाङ्गयष्टिः सा कर्तव्यं नाभ्यपद्यत

॥१९॥

चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु किम् ।

उन्मील्य नयनेऽपश्यद् दिव्यदृष्टिर्धरात्मजा

॥२०॥

तावच्छिवोपदिष्टं तदवेदीच्च जगाद च ।

पार्वत्युवाच ।

अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुम्

॥२१॥

पप्रच्छ तं ततः कस्त्वं कुत आगमनं तव ।

किमर्थं त्वं गुणेशश्चेद्द् भवितासि वदस्व माम्

॥२२॥

क उवाच

इति तद्वचनं श्रुत्वाऽवदत् स पुरुषो महान् ।

स्वनेन नादयन्सर्वा दिशो विदिश एव च

॥२३॥

देव उवाच

यं ध्यायसि दिवारात्रावनुष्ठानवती शुभे ।

सोऽहं गुणेशस्ते गेहेऽवतीर्णः परमः पुमान्

॥२४॥

परात्परतरो यस्मादवदं त्वा वरार्थिनीम् ।

यास्ये ते पुत्रतां देवि यत्कृत्यं मे श‍ृणुष्व तत्

॥२५॥

उभयोः सेवनं कार्यं सिन्धुदैत्यविनाशनम् ।

अमराणां पदप्राप्तिं कृत्वा यास्ये निजं पदम्

॥२६॥

क उवाच

पीत्वा वाक्यामृतं तस्य प्रीता सा गिरिजात्मजा ।

उवाचेह परं भाग्यं परमं मे तपःफलम्

॥२७॥

नायकोऽनन्तकोटिनां ब्रह्माण्डानां विभुर्मया ।

दृष्टश्चिदानन्दघनो यस्मात् सृष्टमनेकशः

॥२८॥

पञ्चभूतानि ब्रह्मेशौ हरिश्चन्द्रेन्द्रभास्कराः ।

नक्षत्राणि च गन्धर्वा यक्षा मुनिगणा द्रुमाः

॥२९॥

शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश ।

स्थावर जङ्गमं यस्मात्सचेतनमचेतनम्

॥३०॥

स त्वं मम कुमारत्वं प्राप्तोऽसीति विडम्बनम् ।

अथ त्वां प्रार्थये देव प्राकृतो भव साम्प्रतम्

॥३१॥

येन ते लालनं कुर्या सेवनं परमादरात् ।

क उवाच ।

यावद्वदति सैवं तु ददर्श पुरतस्तु तम्

॥३२॥

षड्भुजञ्चन्द्रसुभगं लोचनत्रयभूषितम् ।

सुनासं सुभ्रु वदनं स्थूलवक्षसमीश्वरम्

॥३३॥

ध्वजाङ्कुशोर्ध्वरेखाब्जचिन्हितं पादपङ्कजम् ।

कोटिस्फटिकसङ्काशं कोटिचन्द्रप्रभं विभुम्

॥३४॥

हेमतारानिभान् केशान्दधन्तं बालरूपिणम् ।

कुर्वन्तं प्रथमं शब्दं कम्पयन्तं वसुन्धराम्

॥३५॥

जनास्थानानि मर्यादां तत्यजुस्तस्य शब्दतः ।

नीरसा वृक्षनिचयाः सपल्लवचयास्तदा

॥३६॥

जाता गावो बहुक्षीरास्त्रैलोक्यं जहृषे पुनः ।

देवदुन्दुभयो नेदुः पुष्पवृष्टिरथापतत्

॥३७॥

दृष्ट्वा बालं तु गिरिजा हस्ताभ्यां जगृहे मुदा ।

स्नापयामास पयसा तप्तेन स्नेहभावतः

॥३८॥

प्रस्नुतौ पाययामास स्तनौ परमहर्षिता ।

शिवोऽपि जहृषे तेन शिशुना परमेण ह

॥३९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशाविर्भावो नामैकाशीतितमोऽध्यायः ॥ ८१ ॥