नारदोपदेशो नाम प्रथमोऽध्यायः
अथ श्रीगणेशमहापुराणोत्तरार्ध प्रारम्भः
श्रीगणेशपुराणम् उत्तरार्ध क्रीडाखण्डः ।
श्रीगणेशाय नमः ।
श्रीमहागणाधिपतये नमः ॥
श्रीमहासिद्धि महाबुद्धिलक्षलाभनग्नभैरवराजचरणाभ्यां नमः ।
सकलगाणेशगुरूभ्यो नमः ।
अथोत्तरखण्डः ।
प्रथमोऽध्यायः ।
मुनय ऊचुः ।
सम्यगाख्यानमाख्यातं त्वया सूत महामते ।
सादरं श्रुतमस्माभिर्नच तृप्तिं गता वयम्
॥१॥यथा न तृप्यते जन्तुरन्नमश्नन्दिने दिने ।
अन्यत् कथान्तरं ब्रूहि येन तृप्यामहे वयम्
॥२॥सूत उवाच
उक्तं चोपासनाखण्डं क्रीडाखण्डं वदामि वः ।
यथा कृतं गणेशेन नानादैत्यविहिंसनम्
॥३॥साधुद्विजगवां चैव पालनं परमादरात् ।
तदहं सम्प्रवक्ष्यामि श्रूयतां स्थिरचेतसा
॥४॥मुनय ऊचुः
यावद् यावत् कथ्यते तत् पुराणं तावत् तावद् वर्द्धते श्रोतुमिच्छा ।
तस्मात् सम्यक् कथ्यतां सर्वलोकः संसाराब्धेर्येन सद्यः प्रमुच्येत्
॥५॥सूत उवाच
यदुक्तं ब्रह्मणा पूर्वं व्यासायामिततेजसे ।
भृगुणा सोमकान्ताय तदेतद् वो ब्रवीम्यहम्
॥६॥व्यास उवाच
पद्मयोने वद विभो गणेशचरितं शुभम् ।
यद् यद् रूपं समास्थाय यद्यच्च कृतवान् विभुः
॥७॥कृपावता त्वया ब्रह्मन् ममवाक्यादुदीर्यताम् ।
उपासनाखण्डमिदं श्रुत्वा तृप्तिं न यामि च
॥८॥येन येनवतारेण यं यं दैत्यं महाबलम् ।
अहनद् विकटस्तत्तत् कर्मास्य वक्तुमर्हसि
॥९॥तदीयं बालचरितं लीला नानाविधा अपि ।
श्रुत्वा त्वद् वदनाम्भोजान् मनो निर्वृतिमेष्यति
॥१०॥सूत उवाच
श्रुत्वा नानाविधान् प्रश्नानुवाच कमलासनः ।
कथां नानाविधां दिव्यां व्यासाय परिपृच्छते
॥११॥ब्रह्मोवाच
साधु पृष्टं त्वया व्यास हृदयानन्दकारिणा ।
वक्तुर्विवर्धते प्रीतिः सादरे श्रोतरि प्रभो
॥१२॥अवाच्यमपि वक्तुं मे पुण्यश्लोके भवेत् त्वयि ।
शक्तिर्गरीयसी यद्वद् वक्तुः श्रोतरि कथ्यताम्
॥१३॥इदानीं सर्वमाख्यासे गणेशचरितं तव ।
नानावतारान् कृत्वा स भूभारं हृतवान् विभुः
॥१४॥हत्वा नानाविधान् दैत्यान् स्वस्थानेऽस्थापयनत् सुरान् ।
साधूनां पालनरतो दुष्ट निर्मूलनक्षमः
॥१५॥इतिहासं शृण मुने गणेशाख्यानसंश्रयम् ।
विष्टरश्रवसा प्रोक्तं श्रवणात् सर्व कामदम्
॥१६॥विष्णुरुवाच
युगे युगे भिन्ननामा गणेशो भिन्नवाहनः ।
भिन्नकर्मा भिन्नगुणो भिन्नदैत्यापहारकः
॥१७॥सिंहारुढो दशभुजो कृते नाम्ना विनायकः ।
तेजोरुपी महाकायः सर्वेषां वरदो वशी
॥१८॥त्रेतायुगे बर्हिरुढः षड्भूजोऽप्यर्जुनच्छविः ।
मयूरेश्वरनाम्ना च विख्यातो भुवनत्रये
॥१९॥द्वापरे रक्तवर्णोऽसावाखुरूढश्चतुर्भुजः ।
गजानन इतिख्यातः पूजितः सूरमानवैः
॥२०॥कलौ तु धूम्रवर्णोऽसावश्वारूढो द्विहस्तवान् ।
धूम्रकेतुरिति ख्यातो म्लेच्छानीकविनाशकृत्
॥२१॥यं यं स दैत्यं हन्ति स्म तदिदानीं ब्रुवे मुने ।
अङ्गदेशीयनगरे रौद्रकेतुरभूद् द्विजः
॥२२॥सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ।
समो जीवेष्वग्निहोत्री सुरगोद्विपूजकः
॥२३॥ईश्वरोपासको नित्यं सर्वागमविशारदः ।
यस्य पत्नी शारदाख्या रूपलावण्यशोभिता
॥२४॥ईदृशी नाप्सरोमध्ये नाष्टासु नायिकास्वपि ।
यद्वक्त्रनिर्जितश्चन्द्रश्चिन्तया क्षयमीयिवान्
॥२५॥अनेकदिव्याभरणैर्भासयन्ती धरातलम् ।
यथा नक्षत्रमालाभिर्भासते व्योममण्डलम्
॥२६॥कदाचित् सा गर्भवती शारदोत्पललोचना ।
शारदा शारदे मासि शरच्चन्द्रसुशोभिते
॥२७॥शरीरतेजसा यस्या न प्राज्ञायत किञ्चन ।
दोहदान्पूरयत्येष यं यं साऽकामयत् सती
॥२८॥एवं सा नवमे मासि यमलौ सुषुवे सुतौ ।
अतिकान्ततरौ स्वान्तनन्दनावुभयोरुभौ
॥२९॥अजानुबाहू दीर्घाक्षौ दृष्ट्वा प्रोवाच तत्पिता ।
अद्याहमनृणो जातो धन्यमद्य तपो मम
॥३०॥वंशो धन्यो जनुर्धन्यं यत्पुत्रौ विक्षितौ मया ।
अर्घ्याद्यैर्द्विजवर्यान् स सम्पूज्य च गणाधिपम्
॥३१॥स्वस्तिवाच्यं चकराशु मातृपूजनपूर्वकम् ।
भक्त्याऽऽभ्युदयिकं श्राद्धं जातकर्माऽकरोद् द्विजैः
॥३२॥सम्पूज्य ब्राह्मणान्भक्त्या ददौ दानान्यनेकशः ।
सुहृदो मानयामास वासोरत्नधनादिभिः
॥३३॥नानावादित्रनिर्घोषैः शर्करां च गृहे गृहे ।
दापयामास ताम्बूलं पुत्रजन्मसु निर्वृतः
॥३४॥यथा धान्यपरो योगी प्राप्य सद्वस्त्वनुत्तमम् ।
ततो दशाहेऽतीतेऽसावाकार्य द्विजपुङ्गवान्
॥३५॥समर्च्य परया भक्त्या ज्योतिःशास्त्रविशारदान् ।
पप्रच्छ चैतयोर्नाम किं कार्यं द्विजसत्तमाः
॥३६॥अतीतानागतज्ञानाद् विचार्य कथयन्तु मे ।
ते चोचुः प्रणिधानेन देवान्तकनरान्तकौ
॥३७॥नामनी ह्यनयोब्रह्मन्नन्वर्थे कुरू नो मते ।
इति तद्वचनं श्रुत्वा द्विजभक्तिरतो द्विजः
॥३८॥स्वशाखोक्तेन विधिना नामनी विदधे तथा ।
ब्राह्मणान् भोजयामास सर्वाश्च नागरांस्तथा
॥३९॥ववृधाते ततस्तौ तु मेरूमन्दारसन्निभौ ।
यथा कच्छाश्रितौ तालौ यथा वंशाङ्कुरौ बलात्
॥४०॥यत्र यत्र पदन्यासं कुर्वाते तौ यदृच्छया ।
रसातलगतस्यात्र शेषस्य नमते शिरः
॥४१॥दृश्यते मण्डलं भानोस्तिष्ठतोः शिरसि स्थितम् ।
पित्रोः प्रदर्शयन्तौ तौ कौतुकानि भृशं तयोः
॥४२॥कदाचिन्नारदोऽकस्माद् रौद्रकेतुगृहं ययौ ।
श्रुत्वा कीर्तिं बालकयोः कौतुकादग्रहीत्तु तौ
॥४३॥मूर्ध्न्याङ्घ्रायाङ्कमारोप्य पितराववदत् तयोः ।
नारद उवाच ।
श्रुत्वा कीर्तिं समायातः पुत्रयोरद्भुतां शुभाम्
॥४४॥अग्रेऽद्भुततरा चापि भविष्यत्यनयोर्मुने ।
महद्भाग्यं तव मुने यल्लब्धावीदृशौ सुतौ
॥४५॥दृष्ट्वाऽन्यो हर्षमायाति का वार्त्ता स्वजनस्य ह ।
इत्याकर्ण्य शुभं वाक्यं नारदेन समीरितम्
॥४६॥तावाहतुर्मुनिं नत्वा पितरौ नारदं तदा ।
तव प्रसादाद् बह्वायुः पुत्रयोरस्तु साम्प्रतम्
॥४७॥अनुग्रहं कुरु तथा यथैतौ वीर्यवत्तरौ ।
भवेतां लोकविख्यातौ सर्वज्ञौ रिपुदण्डिनौ
॥४८॥क उवाच
रुद्रकेतोः शारदायाः पुत्रयोर्भक्तिमीक्ष्य सः ।
पञ्चाक्षरीं महाविद्यामुभयोरूपदिष्टवान्
॥४९॥उवाच पुत्रौ कामारिरनया सम्प्रसाद्यताम् ।
मस्तकेऽभय हस्तं च स्थाप्यानुष्ठानमादिशत्
॥५०॥एवमुक्त्वा तमामन्त्र्य रौद्रकेतुं महामुनिः ।
ततस्त्वन्तर्दधे ब्रह्मन् नारदो दिव्यदर्शनः
॥५१॥अन्तर्हिते मुनौ तौ चावदतां पितरौ मुदा ।
अनुष्ठानाय नावाज्ञां भवद्भ्यां सम्प्रदीयताम्
॥५२॥इति श्रीगणेशपुराणे क्रीडाखण्डे नारदोपदेशो नाम प्रथमोऽध्यायः ॥ १ ॥
आदित श्लोकानां समष्ट्यङ्काः = ४०९६ + ५२ = ४१४८