मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 76

3
क्रीडाखण्डः · 76

षट्सप्ततितमोऽध्यायः

क उवाच

वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः ।

हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम्

॥१॥

इन्द्र उवाच

किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् ।

आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम्

॥२॥

तेन सार्द्धं कृतं युद्धं यथाशक्ति सुरैः सह ।

न स जेतुं क्षमो दैत्योऽतस्त्वां शरणमन्वियाम्

॥३॥

न त्वां विना गतिर्नोऽस्ति सर्वदा त्वं गतिर्हि नः ।

निर्दालयैनं नो देहि स्थानानि जगदीश्वर

॥४॥

क उवाच

श्रुत्वा हरिवचो विष्णुश्चिन्ताश्चर्यसमन्वितः ।

उवाच तं न भीः कार्या प्रविज्येष्येऽसुरं क्षणात्

॥५॥

एवमुक्त्वा हृषीकेशो रुरोह निजवाहनम् ।

तदुड्डानेन च तदा चकम्पे भुवनत्रयम्

॥६॥

पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः ।

किरीटकुण्डलधरो वनमालाविभूषितः

॥७॥

कौस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः ।

शङ्खचक्रगदापद्महस्तो यातोऽमरावतीम्

॥८॥

ज्ञात्वा देवगणान् प्राप्तान् गरुडासनसंयुतान् ।

युद्धायाजग्मुरसुरा नानाशस्त्रधरास्तदा

॥९॥

धनुश्चक्रधरो दैत्यः सतूणो हयसङ्गतः ।

सिन्धुरप्यागतो रोषाद् योद्धुकामो महाबलः

॥१०॥

ततः कुबेरो वरुणो वायुरग्निः पुरन्दरः ।

सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च

॥११॥

ततोऽभवद् द्वन्द्वयुद्धं सिन्धुदैत्येपुरः स्थिते ।

प्रचण्डो वरुणेनाजौ कमलेन च यक्षराट्

॥१२॥

वृत्रेण शतयज्वा च निशुम्भः पवनेन च ।

शुम्भोऽपि युयुधे तत्र विष्णुना प्रभविष्णुना

॥१३॥

वह्निश्चण्डेन मुण्डेन सोमश्च युयुधे भृशम् ।

कदम्बेन च भौमश्च मदनेन च शम्बरः

॥१४॥

नासत्यौ कालदैत्येन सर्व एव च सैनिकाः ।

शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत्

॥१५॥

केचिद् युयुधिरे मल्ललीलया युद्धदुर्मदाः ।

परस्परं शस्त्रघातैः केचित् तत्र प्रपेदिरे

॥१६॥

मृता मुमूर्षवः केचिद् व्यङ्गाश्चैव ववल्गिरे ।

जयं पराजयं तेन प्रापुः क्वचित्कमेव च

॥१७॥

ततो वृत्रासुरः शक्रमहनन् मुष्टिघाततः ।

मस्तकं मस्तकेनैव निजघ्नतुरथौजसा

॥१८॥

एवं हस्तेन हस्तं च पादं पादेन जघ्नतुः ।

वक्षःस्थलेन वक्षश्च ततो वज्रेण सोऽहनत्

॥१९॥

जघान वृत्रः शक्रं तं सोऽपतन्मूर्च्छितो भुवि ।

यावत् पलायति सुरो वमन् रक्तं मुखाद्बहु

॥२०॥

ततः पपात भूपृष्ठे हतो मूर्छां गतो भृशम् ।

पुनः संज्ञामवाप्यैव वज्रकल्पेन मुष्टिना

॥२१॥

जघान वृत्रः शक्रं तं सोऽपतन्मूर्छितो भुवि ।

यावत्पलायति पुरो वमन् रक्तं मुखाद्बहु ।

तावद् दैत्या योद्धुकामाः समीयुः सर्वतोदिशम् ।

दृष्ट्वा पराक्रमं तेषां मघवाऽन्तर्दधे तदा

॥२२॥

एवं ये ये द्वन्द्वयुद्धं कुर्वन्तो देवतागणाः ।

ते सर्वे भग्नदर्पास्तु पलायनमकुर्वत

॥२३॥

एवं देवेषु भग्नेषु गरुडं प्राहिणोद्धरिः ।

चक्रदीप्त्या स्वदीप्त्या च भासयन्विदिशो दिशः

॥२४॥

अहनच्चक्रधाराभिर्दैत्यश्रेणीरनेकशः ।

केचिद्भग्नानना दैत्याः केचिद्भग्नशिरोधराः

॥२५॥

केचिच्च शतधा जाताः शीर्णजानूरुबाहवः ।

केचिच्च शरणं याता न ममार जनार्दनः

॥२६॥

सर्वे महाबला दैत्या मुक्तिं हरिहता गताः ।

मेदोमांसवहा नद्यः सद्यस्तत्र प्रवर्तिताः

॥२७॥

ततः शङ्खनिनादेन हरिः सर्वं व्यनादयत् ।

एवं जयति गोविन्दे सर्वे शुम्भादयोऽसुराः

॥२८॥

तमेव योद्धुमायाता द्वन्द्वयुद्धं विहाय तत् ।

विराङ्रूपेण भगवान्धृत्वा तांश्चतुरोऽसुरान्

॥२९॥

भिन्दीपालेन पाषाणं यथा क्षिपति मानवः ।

तथा चण्डं च मुण्डं च निशुम्भं शुम्भमेव च

॥३०॥

भ्रामयित्वाऽक्षिपद् दूरे मध्ये कृत्वा सरिद्वराम् ।

ते मूर्छां परिभूयैव पुनश्च वाहिनीं गताः

॥३१॥

हृदि प्रचण्डं पृष्ठे तु वृत्रं मुष्टिप्रहारतः ।

जघान हरिरव्यग्रः कालं कमलमेव च

॥३२॥

भौमासुरं च शिरसि कदम्बं चक्रघाततः ।

कोलासुरं च गदया विव्याध हृदि माधवः

॥३३॥

ततः सिन्धुरगात्तूर्णं कृतकोलाहलारवः ।

दिगन्तान् नादयन्प्रोचे बलं ते दर्शितं हरे

॥३४॥

ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि ।

न मे दृष्टिगतो जीवन् रिपुर्याति कदाचन

॥३५॥

भूतभव्यभविष्यज्ञ किं पूर्वं न विचारितम् ।

यस्य शब्देन च भृशं कम्पते भुवनत्रयम्

॥३६॥

तत्पुरः कथमायातः खद्योत इव पूषणम् ।

ततोऽमरगणाः प्रोचुर्वल्गन्तं सिन्धुदैत्यपम्

॥३७॥

शूरा न हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् ।

अस्माकं न हरेराज्ञा नो चेत्त्वं शतधा भवेः

॥३८॥

इति श्रीगणेशपुराणे क्रीडाखण्डे देवदानवयुद्धवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥