बालचरिते षट्चत्वारिंशोऽध्यायः
मुनिरुवाच
अविमुक्तवियोगेन परितप्तः शिवस्तदा ।
सर्वार्थवशगं ढुण्ढिं नत्वा प्रार्थयदातुरः
॥१॥शिव उवाच
पञ्चानामपि भूतानां कारणानां च कारणम् ।
चिदानन्दघनो विश्वध्येयो वेदान्तगोचरः
॥२॥प्रधानं पुरुषश्चासि गुणत्रयविभागकृत् ।
विश्वव्यापी विश्वनिधिर्विश्वरक्षणतत्परः
॥३॥नानावतारकृच्चासि भूभारहरणोद्यतः ।
देवानां पालने शक्तो दैत्यानां निधने तथा
॥४॥द्विजानां चैव धर्माणामार्तानां शरणैषिणाम् ।
स्वेच्छयाऽपत्यतां याते त्वयि ब्रह्मस्वरूपिणि
॥५॥कमन्यं शरणं यामि काशीविरहदुःखितः ।
ढुण्डिरुवाच ।
अन्यानेव प्रेषयसि सर्वविद्याविशारदान्
॥६॥सर्वदर्शी किमर्थं त्वं मोहमेषि सदाशिव ।
शिव उवाच ।
इदानीमेव गच्छ त्वमविमुक्तं गजानन
॥७॥दिवोदासस्य विघ्नार्थं मम कार्यार्थसिद्धये ।
मायया मोहय जनं पुण्यं येनास्य हीयते
॥८॥ढुण्डिरुवाच
यामि शीघ्रं महादेव न चिन्तां कर्तुमर्हसि ।
साधयिष्ये तव हितं दर्शयिष्ये निजां पुरीम्
॥९॥बहिष्कृत्य दिवोदासं जनपापविभागिनम् ।
मुनिरुवाच ।
इत्युक्त्वा शिवमानम्य पार्वतीं च षडाननम्
॥१०॥प्रदक्षिणीकृत्य तथा नारदं गुरुमेव च ।
प्रस्थितोऽखिलविद्यानां कलानां च निधिर्विभुः
॥११॥प्राप वाराणसीं पुण्यां पुण्यमेवास्य दृष्टवान् ।
ज्योतिर्विदभवत्सद्यस्तस्य पापमलक्ष्य सः
॥१२॥रुक्मकान्तिर्दिव्यदेहो मुक्तामालाविभूषितः ।
(रुक्ममुक्तामयेश्रोत्र द्वये बिभत्सु कुण्डले द्वात्रिंशल्लक्षणयुतो भूतभव्यभविष्यवित् ।
) कटिसूत्रं च नाभौ तु महारत्नविभूषितम्
॥१३॥पीतवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।
कामातिसुन्दरतनुः कामिनीजनमोहनः
॥१४॥पतिव्रताश्च या नार्यश्चकमुस्ता अपि द्विजम् ।
मनसा चिन्तितं प्रश्नं वदति स्माखिलं तु सः
॥१५॥अतः पतिव्रता नार्यः प्रश्न प्रष्टुं तमन्वयुः ।
विहाय बालकान् भर्तृन्भ्रातृनन्यान्सुहृज्जनान् ।
स्वप्नान् वदति लोकानां स्वमायादशितानसौ
॥१६॥सेवतां सर्वलोकानां ददाति सुबहून्वरान् ।
तद्वरस्य प्रभावेण दुष्टः कुष्ठो विनश्यति
॥१७॥पुत्रिण्यः सर्ववन्ध्याश्च जातास्तद्वरदानतः ।
हस्तं दृष्ट्वा महाभाग्यं कर्माणि कथयत्यसौ
॥१८॥यद् यद् येन च संभुक्त भोक्ष्यमाणं च तत्क्षणात्
॥१९॥विस्मितो नगरे लोकः सर्व आसीन्मुदान्वितः ।
नेदृशो ब्राह्मणोऽदर्शि सर्ववेत्ता गुणाकरः
॥२०॥न भूतो न भविष्यो वा इति लोका वदन्त्यमुम् ।
पूजयन्ति धनै रत्नैर्ज्ञात्वा प्रत्ययमस्य ते
॥२१॥हस्ते धृतानि वस्तूनि कथयत्येव तत्क्षणात् ।
दरिद्रस्याप्रयत्नस्य प्रष्टुं यातस्य वेत्त्यसौ
॥२२॥अभिप्रायं स्वयं तस्य ब्रूते त्रिदिनमन्तरा ।
भविष्यसि धनाढ्यस्त्वं तथैवासौ भवत्यपि
॥२३॥गतं नष्टं कथयति यथा यत् यत् तथा भवेत् ।
एवमाचक्षतस्तस्य ढुण्ढेर्विप्रस्वरूपिणः
॥२४॥द्वित्रिमासैर्गता वार्ता राजकर्णे जनेरिता ।
जना ऊचुः ।
राजपत्न्योऽपि याश्चान्याः पातिव्रत्यपरायणाः
॥२५॥एतावत्कालपर्यन्तं नो भजन्नन्यदेवताः ।
विना पतिं गतास्तास्तु विनाज्ञां तं निरीक्षितुम्
॥२६॥नो भविष्यति पुत्रो वा कन्या वेति विचारितुम् ।
सखीभिस्तु निषिद्धास्ता ढुण्डिरत्रागमिष्यति
॥२७॥आकार्यं तु ततस्तास्तु रहस्येतमुपानयन् ।
उपवेश्यासने रम्ये राजपत्न्यः प्रपूजिरे
॥२८॥प्रक्षाल्य चरणद्वन्द्वं तद्दर्शनसुविव्हलाः ।
कस्तुरीचन्दनं तस्य शरीरे पर्यमर्दयन्
॥२९॥निकटे तस्य काचित् तु भूत्वाऽदाद् वीटिकाः स्वयम् ।
पप्रच्छुर्बहुप्रश्नांस्तं सर्वानेवाब्रवीच्च सः
॥३०॥प्रत्यये तु समुत्पन्ने सर्वास्तास्तु विसिस्मिरे ।
एवं ताः प्रत्यहं तस्य दर्शनं पूजनं स्वयम्
॥३१॥त्यक्त्वा ता गृह्यकार्याणि चक्रुस्सर्वास्तु तत्पराः ।
नैतादृशो दृष्टपूर्वो भूतभव्यभविष्यवित्
॥३२॥इत्यब्रुवन् स्तुवन्त्यस्तं सर्वज्योतिर्विदुत्तमम् ।
उत्थिते राज्ञि ताः शीघ्रं विससर्जुः क्षणादमुम्
॥३३॥पतिभावं परित्यज्य तमेवाचिन्तयन्सदा ।
दिवोदासोऽपि तं ज्ञात्वा समाकार्य ननाम च
॥३४॥स्वासने तं परिस्थाप्य पुपूजे विष्टरादिभिः ।
गामर्घ्यं च धनं वस्त्रमर्पयामास सादरम्
॥३५॥यद् यद् तं परिपप्रच्छ तत्सर्वं स मुदाऽब्रवीत् ।
विस्मृत्य निजदेवं स तमेवाचिन्तयन्नृपः
॥३६॥रहस्ये परिपप्रच्छ प्रश्नान् नानाविधान्बहून् ।
प्रत्यये तु समुत्पन्ने प्रार्थयामास सादरम्
॥३७॥ग्रामान्धान्यं धनं दास्ये तिष्ठात्र निकटे मम ।
चमत्कारा बहुविधा दृष्टा यस्मान् मया त्वयि
॥३८॥ततो जगाद ढुण्डिस्तं प्रपञ्चरहितो नृपम ।
स्त्रीपुत्रकन्यागारादि त्यक्त्वाय वाराणसीमगाम्
॥३९॥न ग्रामा न धनं धान्यं रोचते मेऽस्पृहस्य ते ।
एकं वदामि ते वाक्यं हृदि तत्कर्तुमर्हसि
॥४०॥इतः सप्तदशे राजन् दिने कोऽपि परः पुमान् ।
आगत्य स वदेद् यत् तत् कर्तव्यमविचारतः
॥४१॥हितं ते परमं राजन् भविष्यति न संशयः ।
एतावता मया लब्धा ग्रामा धान्यं धनानि च
॥४२॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते ज्योतिर्विद्रूपदर्शनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥