गौरीमन्त्रप्रदानं नाम नवसप्ततितमोऽध्यायः
क उवाच
निर्जितान् सिन्धुना देवान् ज्ञात्वा शम्भुर्निजस्थलात् ।
सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगात्
॥१॥स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः ।
निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः
॥२॥दृष्ट्वा ते त्र्यम्बकं देवं परिवव्रुः समन्ततः ।
यथा तीर्थं विप्रवरा बालका जननीं यथा
॥३॥प्रणम्य तं प्रपूज्यैव प्रोचुर्धन्यतमा वयम् ।
अनुष्ठानं दृशिर्जन्म धन्यं ज्ञानं यतो हरः
॥४॥अगोचरो दृष्टिगतो दण्डकारण्यमागतः ।
दुरितं विलयं यातं पुण्यं च फलितं महत्
॥५॥इदानीं न च दुःख नो दृष्टे देवे भविष्यति ।
यथोदिते दिवानाथे न ध्वान्तं दृश्यते क्वचित्
॥६॥ततोऽब्रवीन् महादेवः सर्वांस्तान् मुनिपुङ्गवान् ।
शिव उवाच ।
सिन्धुनाऽक्रामि त्रैलोक्यं कृतो देव विनिग्रहः
॥७॥मुनीनामपि केषाञ्चित्तेन खिन्नं मनो मम ।
विश्रान्ति न लभे स्थाने ततोऽहमिह चागतः
॥८॥भवतां दर्शनेऽनाहं परितुष्टो मुदान्वितः ।
इदानीमवकाशं सपरिवारस्य दीयताम्
॥९॥अतिपुण्येन वः प्राप्तं दर्शनं पापनाशनम् ।
यत्रस्थित्वा परं ध्यानं करिष्ये जगदीशितुः
॥१०॥क उवाच
इति शूलिवचः श्रुत्वा प्रोचुः सर्वे महर्षयः ।
सर्वेश्वरस्य ते देव दाता स्थानस्य को भवेत्
॥११॥कल्मद्रुमस्य कः कामः केनासौ परिपूर्यते ।
क्षीरार्णवतृषा किं वा पल्लवेन गमिष्यति
॥१२॥तवैव रूपं पृथिवी तव वश्याऽत्र सर्वदा ।
त्वमीशः सर्वलोकस्य यथेच्छसि तथा कुरु
॥१३॥दर्शयामः सुरपते सुन्दरं तव चाश्रमम् ।
नानावृक्षलताकीर्णं रम्यवापीसरोजलम्
॥१४॥यादोभिः पक्षिभिर्युक्तं घनच्छायं सुविस्तृतम् ।
स्वादुकन्दफलोपेतं मृदुघाससमन्वितम्
॥१५॥यदीच्छाऽत्र वस त्र्यक्ष परिपालय नोऽखिलान् ।
क उवाच ।
तत्रावसन्महादेवो गङ्गौरीगणैर्युतः
॥१६॥कैलासादधिकं मेने मुनेराश्रममण्डलम् ।
तदाश्रयेण ते सर्वे गौतमाद्या महर्षयः
॥१७॥चेरुस्तपांसि विविधान्यासँस्ते विगतज्वराः ।
शिवोऽपि तप आरेभे गङ्गागौरिसहायवान्
॥१८॥ततो गणाश्च सामग्रीं तस्य चक्रुर्महात्मनः ।
कस्मिंश्चित्समये गौरी पृच्छति स्म सदाशिवम्
॥१९॥त्वमेव कर्ता हर्ता त्वं पाता विश्वस्य शङ्कर ।
अष्टमूर्तिरमूर्तिस्त्वं सर्वेशः सर्वभावनः
॥२०॥सर्वश्रेष्ठतमस्त्वं च सर्वेषां सर्वकामदः ।
अष्टानां कर्मणां देव फलदाताऽखिलार्थवित्
॥२१॥त्वत्तः श्रेष्ठतमः कोऽस्ति यं त्वं ध्यायसि तं वद ।
देवाश्च मुनयो नागा में यक्षमानुषराक्षसाः
॥२२॥यत्सत्तयाऽखिलं विश्वं त्वत्तः श्रेष्ठतमस्तु कः ।
त्रयस्त्रिंशत्कोटिदैवेः पूज्यसे सिद्धसाधकैः
॥२३॥क उवाच
इति तद्वचनं श्रुत्वा शिवो वचनब्रवीत् ।
शिव उवाच ।
सम्यक् पृष्टं त्वया देवि तुष्टो वाक्येन ते नऽघे
॥२४॥शृणुष्वाऽवहिता देवि विस्तरेण ब्रवीमि ते ।
अद्यापि न कथं ज्ञातो यं ध्यायामि सुरेश्वरि
॥२५॥तत्स्वरूपं निरुपिष्ये तव प्रीतिचिकीर्षया ॥
लोकानामुपकाराय संसारोत्तारणाय च
॥२६॥यो देवः सर्वभूतेषु गूढश्चरति विश्वकृत् ।
योऽनन्तशीर्षानन्तश्रीरनन्तचरणः स्वराट्
॥२७॥अनन्तश्रुतिनेत्रश्चानन्तनामा गुणातिगः ।
अनन्तरूपी यो देवो वेदकर्ताऽखिलार्थदः
॥२८॥योऽनन्तशक्तिर्विश्वात्माऽनुपमेयः पुरातनः ।
नोपमा शेषचन्द्राब्धिव्योम्नां नारायणस्य च
॥२९॥भारतस्य च वेदस्य व्यासस्य च मुनेरपि ।
यतो जीवा अनन्ताश्च जायन्तेऽम्बुमुचो यथा
॥३०॥जलधारा यथाऽग्नेर्वा विस्फुलिङ्गा भवन्ति हि ।
ब्रह्माविष्णुशिवादीनां गुणत्रयप्रदः प्रभुः
॥३१॥सृष्टिपालनसंहारानाज्ञापयत तैरिह ।
ततो गुणविभागेन गुणेश इति पप्रथे
॥३२॥तमिमं परमात्मानं परात्पतरं विभुम् ।
गुणेशमनिशं ध्याये परब्रह्मस्वरूपिणम्
॥३३॥गौर्युवाच
तुष्टाऽहं तव वाक्येन प्रत्ययो मे कथं भवेत् ।
तं गुणेशं कथं साक्षात्करोमि च भजामि च
॥३४॥तमुपायं वद विभो यदि तुष्टोऽसि शङ्कर ।
क उवाच ।
इति तस्या वचः श्रुत्वा पुनरूचे महेश्वरः
॥३५॥शिव उवाच
एकनिष्ठतया यावत् तपसाराधितो न ते ।
तावत्प्रत्यक्षतां देवि कथं यास्यति स प्रभुः
॥३६॥देव्युवाच
कथं मया तपः कार्यं केनोपायेन वा विभो ।
यदि तुष्टोऽसि देवेश वद सत्यं ममानघ
॥३७॥क उवाच
एवं तदादरं बुध्वा प्रोवाच गिरिजां हरः ।
येन तस्या भवेत्प्रीतो गुणेशो गुणवल्लभः
॥३८॥एकाक्षरमनुं तस्यै ददौ सम्यग्घरस्तदा ।
द्वादशाब्दं कुरु तपस्ततस्तुष्टो भवेद्विभुः
॥३९॥साक्षात्कारं गुणेशस्ते प्रदास्यति न संशयः ।
तदैव सा नमस्कृत्य गिरीशं हृष्टमानसा
॥४०॥जगाम तपसे गौरी मन्त्रध्यानपरायणा ।
जीर्णापुरादुत्तरे तु लेखनादि मनोहरम्
॥४१॥इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीमन्त्रप्रदानं नाम एकोनाशीतितमोऽध्यायः ॥ ७९ ॥