श्रीगणेशनरान्तकयुद्धवर्णनं नाम षष्टितमोऽध्यायः
क उवाच
ततो नरान्तको दृष्ट्वा विनायकविचेष्टितम् ।
मेधया तर्कयामास दृष्टमस्याद्भुतं महत्
॥१॥काशीराजे धृते तेन निर्मितः कालपुरुषः ।
अखिला वाहिनी तेन भक्षिता मम सर्वशः
॥२॥अमात्यपुत्रसहितो राजाऽसावुदरं गतः ।
अव्यङ्गी बहिरानीतोऽदर्शि विश्वं नृपस्य ह
॥३॥अस्माद् भुक्तिश्च मुक्तिश्च भविता मे न संशयः ।
तस्मादेनं हनिष्यामि मामयं वा हनिष्यति
॥४॥इत्येवं निश्चयं कृत्वा प्रोवाच स विनायकम् ।
दैत्य उवाच ।
ऐन्द्रजालिकविद्येयं दर्शिता बहुधा त्वया
॥५॥नाहं बिभेमि तस्यास्तु मायावी च नरान्तकः ।
यस्य निश्वसितेनापि निपतन्ति महाद्रयः
॥६॥भूक्षेपमात्रेण च मे ब्रह्माण्डं कम्पते भृशम् ।
यस्य हस्ततलाघाताद्भूगोलोऽपि द्विधा भवेत्
॥७॥तेन त्वं बालरूपः सन् कथं युद्धं करिष्यसि ।
यो व्याघ्रसम्मुखं गच्छेत्स कथं सुखमेष्यति
॥८॥क उवाच
इति ब्राह्मीं समाकर्ण्य नरान्तकसमीरिताम् ।
अब्रवीत् परमात्माऽसौ बालरूपी विनायकः
॥९॥विनायक उवाच
किमर्थं वल्गसे मूढ यदा ते पृतनाऽखिला ।
भक्षिता क्व गता शक्तिर्यदर्थं कथ्यते मुहुः
॥१०॥शूराः शौर्यं दर्शयन्ति न गां परबलारुजाम् ।
वृश्चिकेनाल्पकायेन मृगेन्द्रो हन्यते क्षणात्
॥११॥अल्पेन हि प्रदीपेन नश्यते प्रबलं तमः ।
यस्य सन्निहितो मत्युः सन्निपातात्स लीयते
॥१२॥अल्पेन मृणिना मत्तमातङ्गो हि नियम्यते ।
क उवाच ।
इति श्रुत्वा तु वाक्यानि देवप्रोक्तानि दैत्यराट्
॥१३॥चकम्पे परया भीत्या जगर्ज घनवद् दृढम्
॥१४॥भीषयन् रोदयन् रावैः कम्पयन्भूमिमण्डलम् ।
अधावत् परमावेशो हन्तुकामो विनायकम्
॥१५॥यथा पतङ्गो दीपार्चिर्हन्तुं याति त्वरान्वितः ।
त्रिवक्रां भ्रुकुटीं बद्ध्वा वमन्नास्येन पावकम्
॥१६॥तं तथा यान्तमालोक्य काशिराजो निजं धनुः ।
सज्जीचकार सहसा कर्णमाकृष्य सायकम्
॥१७॥उवाच साम्ना दैत्यं तं निर्लज्ज बद्धमोचितम् ।
मा जीवं त्यज दैत्येन्द्र जीवन्भद्राणि पश्यसि
॥१८॥परावृत्य प्रयाहि त्वं नो चेन्मृत्युं प्रयास्यसि ।
क उवाच ।
इति तद्वाक्यमाकर्ण्य प्राह दैत्यो रुषा ज्वलन्
॥१९॥नरान्तकेति मे नाम त्वादृशानां हि भक्षणात् ।
इदानीं शरणं याहि यदि जीवीतुमिच्छसि
॥२०॥पुनर्नृपोऽब्रवीद्वाक्यं मुमूर्षुं तं नरान्तकम् ।
विनाशसमये मूढ विपरीता मतिर्भवेत्
॥२१॥मित्राणि शत्रुतां यान्ति विपरी तेऽप्यनेहसि ।
त्वयाप्याचरितं पापं वरगर्वादनेकशः
॥२२॥वरस्यैव प्रभावेण न वज्रं गणितं त्वया ।
इदानीमवतीर्णोऽयं त्वादृशानां वधाय च
॥२३॥कश्यपस्यात्मजो भारं हर्तुं भूमिगतं दृढम् ।
वरः पुण्यं च शिथिलं जातं ते पापसञ्चयात्
॥२४॥भारतीमेवमाश्रुत्य च कम्पे हृदि दैत्यराट ।
धावयित्वा नृपकराज्जगृहे सशरं धनुः
॥२५॥बलाच्चिक्षेप भूमौ तच्छतधा च व्यशीर्यत ।
अहनन्मुष्टिघातेन तं नृपं स नरान्तकः
॥२६॥पतितः स धरापृष्ठे वज्राहत इवाचलः ।
दृष्ट्वा विनायकोऽधावत्सृणिहस्तो महाबलः
॥२७॥गर्जयन्गगनं सर्वं दिशश्च विदिशः स्वनैः ।
च कम्पे पृथिवी सर्वां दिशः प्रज्वलिता इव
॥२८॥तेजसा परशोस्तस्य सर्वदृष्टिहरेण च ।
तेनाहनद् दैत्यशिरो यथेन्द्रो गिरिमुत्कटम्
॥२९॥तथा हतो दैत्यराजो निपपात महीतले ।
मूर्छनां महतीं प्राप्तो मर्मभिन्नो यथाश्मना
॥३०॥उदतिष्ठत्क्षणाद्दैत्यो हस्ताभ्यां पर्वतावुभौ ।
प्रगृह्य च प्रचिक्षेप विनायकजिघांसया
॥३१॥शतधा चूणितौ तेन मुद्रा परशघातिना ।
मायया दैत्यराजोऽथ नानारूपधरोऽभवत्
॥३२॥यद् यद् रूपं चकाराशु तद् तद् रूपं विनायकः ।
भग्नदर्पं चकाराशु तेन तेन महासुरम्
॥३३॥शस्त्रैः शस्त्राणि संवार्य तथाऽस्रैरस्रसञ्चयम् ।
ततस्तु मल्लयुद्धेन युयुधाते परस्परम्
॥३४॥चरणं चरणेनैव हस्तं हस्तेन जघ्नतुः ।
जानुभ्यां जानुनी चोभौ पुष्पिताविव किंशुकौ
॥३५॥वक्षसा चैव वक्षश्च पेततुर्धरणीतले ।
पुनरुत्थाय बलिनौ कूर्पराभ्यां निजघ्नतुः
॥३६॥पुनर्दैत्यो महादेवं स्मृत्वा वृक्षानवासृजत् ।
पृष्ठेन पुष्ठं धावन्तौ ललाटेन ललाटकम्
॥३७॥स्रंवन्तौ रुधिरं चोभौ गुल्फाभ्यां गुल्फमेव च
॥३८॥पर्वतांश्च सवृक्षांश्च विनायकजिघांसया ।
अप्राप्तानेव तान्सर्वांश्चिच्छेद स विनायकः
॥३९॥पद्मपाशाङकुशाघातैः परशोर्दृढकर्मणा ।
तस्यां निवारितायान्तु दैत्योऽमुच्चत् तथा पराम्
॥४०॥वृष्टिमन्यां तथा चान्यां निरस्तां वीक्ष्य चापराम् ।
काशिराजो ययौ दूरं मृतं ज्ञात्वा विनायकम्
॥४१॥विनायकोऽपि सङ्क्लेशाहृदि चिन्तामथाकरोत् ।
असङ्ख्यातबलो दैत्यो जयोपायो न दृश्यते
॥४२॥कदा देवाः स्वनिलयं प्राप्स्यन्ति निहतारयः ।
नरान्तकोऽपि सञ्जातो देवानामप्ययान्तकः
॥४३॥एवं चित्ते चिन्तयति वारंवारं विनायके ।
तूणेषु पतिता बाणाः कालदण्डोपमा दृढाः
॥४४॥पिनाकोऽष्टापदमयः पुरस्तस्य पपात ह ।
शोभयंस्तेजसां स्वेन दिशश्च विदिशोऽपि च
॥४५॥कार्मुकं तु स्फुरत्कान्ति दृष्ट्वा सर्व जहर्ष सः ।
मेने जितं तं च दैत्यं सिद्धं च देवकाङ्क्षितम्
॥४६॥जग्राह बाणान्कोदण्डं कृत्वा क्ष्वेडितमुच्चकैः ।
पिनाकं तोलयामास सज्जचक्रे धनुस्तदा
॥४७॥पृथिव्या जानुनी स्थाप्य तूणौ चोभयतस्तथा ।
तद्धनुःशब्दमाकर्ण्य च कम्पे भुवनत्रयम्
॥४८॥सव्यदक्षिणहस्ताभ्यामाकृष्य सायकद्वयम् ।
मुमोच दैत्यमालक्ष्य मुञ्चन्नग्निकणान्मुहुः
॥४९॥पपातदैत्यभुजयोरकस्मात् सायकद्वयम् ।
गर्जत् प्रकाशयद्व्योम संहरज्जीवसञ्चयान्
॥५०॥उल्कैव पात्तयामास भुजौ वृक्षाविवास्य तत् ।
यथेन्द्रो वज्रघातेन पर्वतस्येव सानुनी
॥५१॥नरान्तकद्वारदेशे महानेकोऽपतत्करः ।
अपरस्तत्पितुर्द्वारि चूर्णयन्प्राणि सञ्चयान्
॥५२॥अन्यावास्तां करौ तस्य ददर्श च विनायकः ।
अभ्यधावत्पुनर्दैत्यो व्यादितास्य इवान्तकः
॥५३॥हस्ताभ्यां तत्र पादाभ्यां चिक्षेप पादपान्बहून् ।
द्रुमाणां च महावृष्टिं प्रक्षिपत्स विनायके
॥५४॥अन्धकारं महच्चासीन्न प्राज्ञायत किञ्चन ।
ततोऽब्रवीत्यराजं दृष्ट्वा वीर्यं विनायकः
॥५५॥इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशनरान्तकयुद्धवर्णनं नाम षष्टितमोऽध्यायः ॥ ६० ॥